प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ऋग्वेदः - मण्डल ७
सूक्तं ७.१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२ →
दे. अग्निः।विराट्, १९-२५ त्रिष्टुप्।


अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिमथर्युम् ॥१॥
तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।
दक्षाय्यो यो दम आस नित्यः ॥२॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
त्वां शश्वन्त उप यन्ति वाजाः ॥३॥
प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः ।
यत्रा नरः समासते सुजाताः ॥४॥
दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
न यं यावा तरति यातुमावान् ॥५॥
उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।
उप स्वैनमरमतिर्वसूयुः ॥६॥
विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् ।
प्र निस्वरं चातयस्वामीवाम् ॥७॥
आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
उतो न एभि स्तवथैरिह स्याः ॥८॥
वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।
उतो न एभिः सुमना इह स्याः ॥९॥
इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः ।
ये मे धियं पनयन्त प्रशस्ताम् ॥१०॥
मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।
प्रजावतीषु दुर्यासु दुर्य ॥११॥
यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः ।
स्वजन्मना शेषसा वावृधानम् ॥१२॥
पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।
त्वा युजा पृतनायूँरभि ष्याम् ॥१३॥
सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।
सहस्रपाथा अक्षरा समेति ॥१४॥
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।
सुजातासः परि चरन्ति वीराः ॥१५॥
अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् ।
परि यमेत्यध्वरेषु होता ॥१६॥
त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
उभा कृण्वन्तो वहतू मियेधे ॥१७॥
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
प्रति न ईं सुरभीणि व्यन्तु ॥१८॥
मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥१९॥
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२०॥
त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥२१॥
मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥२२॥
स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥२३॥
महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥२४॥
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२५॥

सायणभाष्यम्

॥ श्रीः ॥

॥ अथ सप्तमं मण्डलम् ॥

अथ सप्तमं मण्डलमारभ्यते । तस्मिन् मण्डले षडनुवाकाः । प्रथमेऽनुवाके सप्तदश सूक्तानि । तत्र ‘अग्नि नरः' इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका---' अग्निं पञ्चाधिका विराजोऽष्टादशाद्याः' इति । ‘ सप्तमं मण्डलं वसिष्ठोऽपश्यत् । इत्युक्तत्वात् मण्डलद्रष्टा वसिष्ठ ऋषिः । आदितोऽष्टादश विराजस्त्र्येकादशकाः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । मण्डलादिपरिभाषया अग्निर्देवता । विश्वजितीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च-’ विश्वजितोऽग्निं नर इत्याज्यम् ' ( आश्व. श्रौ. ८. ७) इति । अत्रेश्चतुर्वीराख्ये चतूरात्रे' चतुर्थेऽहनीदमेव सूक्तमाज्यशस्त्रम्। सूत्र्यते हि- अग्निं नर इति चतुर्थे ' ( आश्व. श्रौ. १०. २ ) इति । व्यूळ्हे दशरात्रे चतुर्थेऽहनीदं सूक्तं जातवेदस्यनिविद्धानम्। सूत्रितं च-’ अग्निं नर इत्याग्निमारुतम् ' ( आश्व. श्रौ. ८. ८) इति । महाव्रतेऽपीदमाज्यशस्त्रम् । तथैव पञ्चमारण्यके सूत्र्यते--’ आज्यप्रउगे विश्वजितः ' (ऐ. आ. ५.१.१ ) इति । अविवाक्येऽहनि प्रातरनुवाके ‘त्वमग्ने वसून्' इत्यादीनामनुष्टुभां स्थान आद्यस्तृचः प्रक्षेपणीयः । सूत्र्यते हि-’ दशमेऽहन्यनुष्टुभां स्थानेऽग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ ' (आश्व. श्रौ. ८.१२ ) इति । आद्याः पडृचः तस्मिन्नेवाहनि आग्निमारुते शस्त्रे स्तोत्रियानुरूपार्थाः । सूत्रितं च -- अग्निं नरो दीधितिभिररण्योरिति स्तोत्रियानुरूपौ' ( आश्व. श्रौ. ८.१२ ) इति । मण्डलादिहोमेऽप्येषा । आधाने तृतीयायामिष्टौ ‘प्रेद्धः' इति स्विष्टकृतोऽनुवाक्या । सूत्रितं च -’ प्रेद्धो अग्न इमो अग्न इति संयाज्ये' (आश्व. श्रौ. २.१) इति । एवमन्यत्रापि दीक्षणीयादिषु स्विष्टकृतोऽनुवाक्या । प्रायणीयेष्टौ ‘सेदग्निरग्नीन्' इत्यादिके द्वे स्विष्टकृतो याज्यानुवाक्ये । सूत्रितं च – ' सेदग्निरग्नीँरत्यस्त्वन्यानिति द्वे संयाज्ये' ( आश्व. श्रौ. ४.३ ) इति । आधाने तृतीयायामिष्टौ ‘इमो अग्ने' इति स्विष्टकृतो याज्या । सूत्रितं च- ‘इमो अग्न इति संयाज्ये' ( आश्व. श्रौ. २.१ ) इति । एवमन्यत्रापि दीक्षणीयादिष्वेषा सौविष्टकृती याज्या । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च ‘त्वमग्ने सुहवः' इत्याद्याः पञ्चर्चः । सूत्रितं च-’ त्वमग्ने सुहवो रण्वसंदृक् ' ( आश्व. श्रौ. ४.१३ ) इति ।।


अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयंत प्रश॒स्तं ।

दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युं ॥१

अ॒ग्निम् । नरः॑ । दीधि॑तिऽभिः । अ॒रण्योः॑ । हस्त॑ऽच्युती । ज॒न॒य॒न्त॒ । प्र॒ऽश॒स्तम् ।

दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अ॒थ॒र्युम् ॥१

अग्निम् । नरः । दीधितिऽभिः । अरण्योः । हस्तऽच्युती । जनयन्त । प्रऽशस्तम् ।

दूरेऽदृशम् । गृहऽपतिम् । अथर्युम् ॥१

“नरः नेतार ऋत्विजः “प्रशस्तं प्रकर्षेण स्तुतं "दूरेदृशं दूरे दृश्यमानं दूरे पश्यन्तं वा “गृहपतिं गृहाणां पालकम् “अथर्युम् आगम्यमतनवन्तं वा “अग्निम् “अरण्योः विद्यमानं “हस्तच्युती हस्तप्रच्युत्या हस्तगत्या "दीधितिभिः अङ्गुलिभिः “जनयन्त। दीधितयोऽङ्गुलयो भवन्ति धीयन्ते कर्मसु । अरणी प्रत्यृत एने अग्निः समरणाज्जायत इति वा । हस्तच्युती हस्तप्रच्युत्या जनयन्त प्रशस्तं दूरेदर्शनं गृहपतिमतनवन्तम् ' ( निरु. ५.१०) इति ॥


तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।

द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥२

तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् ।

द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥२

तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुऽप्रतिचक्षम् । अवसे । कुतः । चित् ।

दक्षाय्यः । यः । दमे । आस । नित्यः ॥२

“यः अग्निः “दमे गृहे “दक्षाय्यः पूजनीयो हविर्भिः समर्थनीयो वा “नित्यः अजस्रः “आस बभूव “तं “सुप्रतिचक्षं सुप्रतिदर्शनम् “अग्निं “कुतश्चित् सर्वस्मादपि भयहेत: “अवसे रक्षणाय “वसवः वासका ये वसिष्ठाः “अस्ते गृहे “न्यृण्वन् न्यदधुः ।।


प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।

त्वां शश्वं॑त॒ उप॑ यंति॒ वाजाः॑ ॥३

प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ ।

त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥३

प्रऽइद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । सूर्म्या । यविष्ठ ।

त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥३

“यविष्ठ युवतम हे “अग्ने “प्रेद्धः प्रकर्षेण समिद्धस्त्वम् “अजस्रया अशरणशीलया “सूर्म्या ज्वालया “नः अस्मदर्थं “पुरः पुरस्तात् आहवनीयायतने "दीदिहि दीप्यस्व । “त्वां “शश्वन्तः बहवः “वाजाः अन्नानि हवींषि “उप “यन्ति उपगच्छन्ति ।


प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचंत द्यु॒मंतः॑ ।

यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥४

प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ ।

यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥४

प्र । ते । अग्नयः । अग्निऽभ्यः । वरम् । निः । सुऽवीरासः । शोशुचन्त । द्युऽमन्तः ।

यत्र । नरः । सम्ऽआसते । सुऽजाताः ॥४

“अग्निभ्यः लौकिकेभ्योऽग्निभ्यः “वरम् अत्यन्तं “द्युमन्तः दीप्तिमन्तः “सुवीरासः कल्याणपुत्रपौत्रप्रदाः “ते “अग्नयः “प्र “निः “शोशुचन्त प्रकर्षेण नितरां दीप्यन्ते । “यत्र येष्वग्निषु “सुजाताः सुजन्मानः “नरः कर्मणां नेतारो यजमाना ऋत्विजो वा “समासते सहासते ॥


दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तं ।

न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥५

दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । सु॒ऽअ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒ऽश॒स्तम् ।

न । यम् । यावा॑ । तर॑ति । या॒तु॒ऽमावा॑न् ॥५

दाः । नः । अग्ने । धिया । रयिम् । सुऽवीरम् । सुऽअपत्यम् । सहस्य । प्रऽशस्तम् ।

न । यम् । यावा । तरति । यातुऽमावान् ॥५

“सहस्य अभिभवकुशल हे “अग्ने “सुवीरं शोभनपुत्रोपेतं "स्वपत्यं शोभनपौत्रोपेतं "प्रशस्तं श्रेष्ठं “रयिं धनं “धिया स्तोत्रेण "नः अस्मभ्यं “दाः देहि । “यं रयिं “यावा अभिगन्ता शत्रुः “यातुमावान् हिंसाया निर्गतः ॥ नलोपाभावश्छान्दसः॥ यद्वा । हिंसायुक्तः ॥ परो वतिर्मत्वर्थीयः पूरकः ॥ “न “तरति न बाधते ॥ ॥ २३ ॥


उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।

उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥६

उप॑ । यम् । एति॑ । यु॒व॒तिः । सु॒ऽदक्ष॑म् । दो॒षा । वस्तोः॑ । ह॒विष्म॑ती । घृ॒ताची॑ ।

उप॑ । स्वा । ए॒न॒म् । अ॒रम॑तिः । व॒सु॒ऽयुः ॥६

उप । यम् । एति । युवतिः । सुऽदक्षम् । दोषा । वस्तोः । हविष्मती । घृताची ।

उप । स्वा । एनम् । अरमतिः । वसुऽयुः ॥६

"सुदक्षं सुबलं “यम् अग्निं “हविष्मती हविषा युक्ता “घृताची । घृतमञ्चतीति घृताची जुहूः । “युवतिः अग्निना नित्ययुक्ता “दोषा “वस्तोः रात्रावहनि च “उप “एति उपगच्छति तम् “एनं “स्वा स्वकीया “अरमतिः दीप्तिः “वसूयुः स्तोतॄणां धनमिच्छन्ती “उप एति ॥


विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थं ।

प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वां ॥७

विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् ।

प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥७

विश्वाः । अग्ने । अप । दह । अरातीः । येभिः । तपःऽभिः । अदहः । जरूथम् ।

प्र । निऽस्वरम् । चातयस्व । अमीवाम् ॥७

हे “अग्ने “विश्वाः विश्वान् “अरातीः शत्रून् “तपोभिः तेजोभिः “अप “दह । "येभिः यैः तपोभिः “जरूथं परुषशब्दकारिणं राक्षसम् ॥ गृणातेरूथन्प्रत्यये सति जरूथशब्दनिष्पत्तिः ॥ “अदहः दहसि । किंच “अमीवां रोगं “निस्वरं न्यक्कृतोपतापं यथा भवति तथा ॥ ‘ स्वृ शब्दोपतापयोः' इति धातुः ॥ “प्र “चातयस्व प्रकर्षेण नाशय । ‘ चततिर्गत्यर्थो वा ' इति भट्टभास्करमिश्रः ॥


आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क ।

उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥८

आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क ।

उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥८

आ । यः । ते । अग्ने । इधते । अनीकम् । वसिष्ठ । शुक्र । दीदिऽवः । पावक ।

उतो इति । नः । एभिः । स्तवथैः । इह । स्याः ॥८

“वसिष्ठ श्रेष्ठ “शुक्र शुभ्र “दीदिवः दीप्त “पावक शोधक हे “अग्ने “ते तव “अनीकं तेजः “यः “आ “इधते समेधयति तस्येव “नः अस्माकम् “उतो अपि च “एभिः “स्तवथैः स्तोत्रैः “इह अस्मिन् यज्ञे “स्याः भव ॥


वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा ।

उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥९

वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा ।

उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥९

वि । ये । ते । अग्ने । भेजिरे । अनीकम् । मर्ताः । नरः । पित्र्यासः । पुरुऽत्रा ।

उतो इति । नः । एभिः । सुऽमनाः । इह । स्याः ॥९

हे “अग्ने “ते तव “अनीकं तेजः “पित्र्यासः पितृहिताः आर्षेया वा “मर्ताः मनुष्याः “नरः कर्मणां नेतारः "ये यजमानाः “पुरुत्रा बहुषु देशेषु “वि “भेजिरे विभजन्ते । आदधुरिति यावत् । तेषामिव “नः अस्माकम् “उतो अपि “एभिः स्तुतैः सह स्तोत्रैर्वा “सुमनाः अनुग्राहकमनाः सन् “इह यज्ञे “स्थाः भव ॥


इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि सं॑तु मा॒याः ।

ये मे॒ धियं॑ प॒नयं॑त प्रश॒स्तां ॥१०

इ॒मे । नरः॑ । वृ॒त्र॒ऽहत्ये॑षु । शूराः॑ । विश्वाः॑ । अदे॑वीः । अ॒भि । स॒न्तु॒ । मा॒याः ।

ये । मे॒ । धिय॑म् । प॒नय॑न्त । प्र॒ऽश॒स्ताम् ॥१०

इमे । नरः । वृत्रऽहत्येषु । शूराः । विश्वाः । अदेवीः । अभि । सन्तु । मायाः ।

ये । मे । धियम् । पनयन्त । प्रऽशस्ताम् ॥१०

“ये मनुष्याः “मे मदीयां “प्रशस्तां प्रकृष्टां “धियं कर्म स्तुतिं वा “पनयन्त स्तुवन्ति ब्रुवन्ति वा ते “इमे मयि स्निग्धाः “नरः मनुष्याः “वृत्रहत्येषु संग्रामेषु “शूराः “अदेवीः आसुरीः “विश्वा: सर्वाः "मायाः “अभि “सन्तु अभिभवन्तु ॥ ॥ २४ ॥


मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा ।

प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥११

मा । शूने॑ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष॑सः । अ॒वीर॑ता । परि॑ । त्वा॒ ।

प्र॒जाऽव॑तीषु । दुर्या॑सु । दु॒र्य॒ ॥११

मा । शूने । अग्ने । नि । सदाम । नृणाम् । मा । अशेषसः । अवीरता । परि । त्वा ।

प्रजाऽवतीषु । दुर्यासु । दुर्य ॥११

हे “अग्ने "शूने शून्ये पुत्रादिरहिते गृहे "मा “नि “षदाम न निवसाम । “नृणाम् अन्येषां च गृहे “मा नि षदाम । “दुर्य गृहेभ्यो हित हे अग्ने “अशेषसः अपुत्राः । ‘ तोक्म शेषः' इति पुत्रनामसु पाठात् । “अवीरता अवीरतया युक्ताश्च सन्तः “त्वा त्वां “परि चरन्तः “प्रजावतीषु एव "दुर्यासु गृहेषु निवसाम ॥


यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जावं॑तं स्वप॒त्यं क्षयं॑ नः ।

स्वज॑न्मना॒ शेष॑सा वावृधा॒नं ॥१२

यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ ।

स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥१२

यम् । अश्वी । नित्यम् । उपऽयाति । यज्ञम् । प्रजाऽवन्तम् । सुऽअपत्यम् । क्षयम् । नः ।

स्वऽजन्मना । शेषसा । ववृधानम् ॥१२

“यं “यज्ञं यज्ञाश्रयम् “अश्वी अश्ववानग्निः “नित्यमुपयाति तं “प्रजावन्तं भृत्यादिसहितं “स्वपत्यं शोभनसंतानोपेतं “स्वजन्मना औरसेन “शेषसा पुत्रेण “ववृधानं वर्धमानं “क्षयं गृहं “नः अस्मभ्यं हे अग्ने देहीति शेषः ।।


पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।

त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्यां॑ ॥१३

पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः ।

त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥१३

पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघऽयोः ।

त्वा । युजा । पृतनाऽयून् । अभि । स्याम् ॥१३

हे “अग्ने “नः अस्मान् “अजुष्टात् अप्रीतिविषयात् “रक्षसः राक्षसात् “पाहि रक्ष । किंच “अररुषः अदातुः "अघायोः पापमिच्छतः “धूर्तेः हिंसकात् "पाहि । अपि च “त्वा त्वया “युजा सहायभूतेन "पृतनायून् पृतनाकामान् “अभि “ष्याम् अहमभिभवेयम् ॥


सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।

स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥१४

सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः ।

स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥१४

सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळुऽपाणिः ।

सहस्रऽपाथाः । अक्षरा । सम्ऽएति ॥१४

“स “इत् स एव “अग्निः आहवनीयादिरस्मदीयः “अन्यान् इतरान् अन्यदीयान् “अग्नीन् “अत्यस्तु अतिभवतु । “यत्र यस्मिन्नग्नौ “वाजी अशनवान् बलवान् वा “वीळुपाणिः दृढहस्तः । ‘वीळु च्यौत्नम्' इति बलनामसु पाठात् । “सहस्रपाथाः बह्वन्नो बहुस्थानो वा बहूदको वा “तनयः अस्मत्पुत्रः “अक्षरा अक्षरेण क्षयरहितेन स्तोत्रेण “समेति सम्यक् परिचरन्नेति । समर्थपुत्रवत एवाग्निः अन्यदीयानग्नीनभिभवतीति भावः ॥


सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् ।

सु॒जा॒तासः॒ परि॑ चरंति वी॒राः ॥१५

सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् ।

सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥१५

सः । इत् । अग्निः । यः । वनुष्यतः । निऽपाति । सम्ऽएद्धारम् । अंहसः । उरुष्यात् ।

सुऽजातासः । परि । चरन्ति । वीराः ॥१५

“यः समेद्धारं प्रबोधकं “वनुष्यतः हिंसकात् । ‘वनुष्यतिर्हन्तिकर्मा' (निरु. ५. २) इति यास्कः । “उरुष्यात् अधिकात् “अंहसः पापात् च "निपाति अत्यन्तं रक्षति । यं च “सुजातासः सुजन्मान एव “वीराः स्तोतारः सुता वा “परि “चरन्ति “स “इत् स एव “अग्निः ।। ॥२५॥


अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदिं॒धे ह॒विष्मा॑न् ।

परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥१६

अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् ।

परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥१६

अयम् । सः । अग्निः । आऽहुतः । पुरुऽत्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् ।

परि । यम् । एति । अध्वरेषु । होता ॥१६

“यम् अग्निम् “ईशानः समृद्ध ऐश्वर्यमिच्छन् वा “हविष्मान् यजमानः “सम् “इन्धे सम्यक् दीपयति । “यं च “अध्वरेषु हिंसारहितेषु यज्ञेषु “होता देवानामाह्वाता “परि “एति परिगच्छति “सः "अयम् “अग्निः “पुरुत्रा बहुषु देशेषु बहुषु यज्ञेषु वा “आहुतः आहुतिभिरभिहुतः ॥


त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ ।

उ॒भा कृ॒ण्वंतो॑ वह॒तू मि॒येधे॑ ॥१७

त्वे इति॑ । अ॒ग्ने॒ । आ॒ऽहव॑नानि । भूरि॑ । ई॒शा॒नासः॑ । आ । जु॒हु॒या॒म॒ । नित्या॑ ।

उ॒भा । कृ॒ण्वन्तः॑ । व॒ह॒तू इति॑ । मि॒येधे॑ ॥१७

त्वे इति । अग्ने । आऽहवनानि । भूरि । ईशानासः । आ । जुहुयाम । नित्या ।

उभा । कृण्वन्तः । वहतू इति । मियेधे ॥१७

हे अग्ने “त्वे त्वयि “ईशानासः धनानामीश्वराः सन्तः “नित्या नित्यान्यग्निहोत्रादीनि “उभा उभौ “वहतू वहनहेतू स्तोत्रं शस्त्रं च “कृण्वन्तः कुर्वन्तः “मियेधे यज्ञे “भूरि बहूनि “आहवनानि हवींषि “आ “जुहुयाम आजुहवाम ॥


इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।

प्रति॑ न ईं सुर॒भीणि॑ व्यंतु ॥१८

इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । अच्छ॑ ।

प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥१८

इमो इति । अग्ने । वीतऽतमानि । हव्या । अजस्रः । वक्षि । देवऽतातिम् । अच्छ ।

प्रति । नः । ईम् । सुरभीणि । व्यन्तु ॥१८

हे “अग्ने त्वम् “अजस्रः अनवरतः सन् "इमो इमानि “वीततमानि अतिशयेन कान्तानि “हव्या हव्यानि “देवतातिं देवानां समूहम् अभि “वक्षि वह । “अच्छ गच्छ त ! “नः अस्मदीयानि “सुरभीणि शोभनानि “ईम् एतानि हव्यानि देवाः “प्रति “व्यन्तु प्रत्येकं कामयन्ताम् ।।


मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै ।

मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥१९

मा । नः॒ । अ॒ग्ने॒ । अ॒वीर॑ते । परा॑ । दाः॒ । दुः॒ऽवास॑से । अम॑तये । मा । नः॒ । अ॒स्यै ।

मा । नः॒ । क्षु॒धे । मा । र॒क्षसे॑ । ऋ॒त॒ऽवः॒ । मा । नः॒ । दमे॑ । मा । वने॑ । आ । जु॒हू॒र्थाः॒ ॥१९

मा । नः । अग्ने । अवीरते । परा । दाः । दुःऽवाससे । अमतये । मा । नः । अस्यै ।

मा । नः । क्षुधे । मा । रक्षसे । ऋतऽवः । मा । नः । दमे । मा । वने । आ । जुहूर्थाः ॥१९

हे “अग्ने “नः अस्मान् “अवीरते अपुत्रताय “मा "परा “दाः मा देहि । “दुर्वाससे दुष्टवस्त्राय च नो मा परा दाः । “अस्यै “अमतये अभिहान्यै “नः अस्मान् “मा परा दाः । “क्षुधे अशनायायै “नः अस्मान् “मा च परा दाः । “रक्षसे बलिने चास्मान् “मा परा दाः । हे “ऋताव: सत्यवन् अग्ने “नः अस्मान् “दमे गृहे "मा जुहूर्थाः मा हिंसीः ॥ ‘हुर्च्छा कौटिल्ये' इति धातुः ।। “वने चास्मान् “मा जुहूर्थाः ।।


नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।

रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२०

नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।

रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥२०

नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।

रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥२०

हे “अग्ने “मे मम मदर्थं “ब्रह्माणि अन्नानि “नु क्षिप्रम् “उच्छशाधि उत्कर्षेण शोधितानि कुरु । किंच हे “देव द्योतमानाग्ने “मघवद्भ्यः हविष्मद्भ्योऽस्मभ्यं सुषूदः अन्नानि प्रेरय । “ते त्वदीयायां “रातौ दाने “उभयासः स्तोत्रिणः शस्त्रिणश्च अथवा स्तुवन्तो यजमानाश्च वयम् “आ “स्याम अत्यर्थं भवेम । “नः अस्मान् “यूयं त्वत्परिवाराश्च सर्वे "स्वस्तिभिः अविनाशिभिर्मङ्गलैः । तथा च यास्कः– स्वस्तीत्यविनाशनामास्तिरभिपूजितः स्वस्ति' (निरु. ३. २१) इति । “सदा “पात रक्षत ॥ ॥ २६ ॥


त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।

मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥२१

त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।

मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥२१

त्वम् । अग्ने । सुऽहवः । रण्वऽसन्दृक् । सुऽदीती । सूनो इति । सहसः । दिदीहि ।

मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत् ॥२१

"सहसः “सूनो सहसः सुत हे “अग्ने “सुहवः स्वाह्वानः “रण्वसंदृक् रमणीयसंदर्शनः “त्वं “सुदीती शोभनया दीप्त्या “दिदीहि दीप्यस्व । किंच “तनये “नित्ये औरसे पुत्रे “त्वे त्वं “सचा सहायभूतः “मा “आ “धक् माभिधाक्षीः । अपि च “अस्मत् पृथग्भूतः अस्माकं वा । षष्ठ्यर्थे पञ्चमी । "वीरः पुत्रः “नर्यः नरहितः “मा “वि “दासीत् नोपक्षीयेत ।।


मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः ।

मा ते॑ अ॒स्मांदु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशंत ॥२२

मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ ।

मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥२२

मा । नः । अग्ने । दुःऽभृतये । सचा । एषु । देवऽइद्धेषु । अग्निषु । प्र । वोचः ।

मा । ते । अस्मान् । दुःऽमतयः । भृमात् । चित् । देवस्य । सूनो इति । सहसः । नशन्त ॥२२

हे “अग्ने "सचा सहायभूतस्त्वं “देवेद्धेषु ऋत्विग्भिः समिद्धेषु “एषु “अग्निषु दुर्भृतये कृच्छ्रभरणाय “नः अस्मान् “मा “प्र “वोचः न ब्रूहि। त्वत्सहायभूता अग्नयो यथा मामकृच्छ्रेण बिभृयुः तथा ब्रूहीत्यर्थः । किंच “सहसः “सूनो हे बलस्य पुत्र अग्ने “देवस्य द्योतमानस्य “ते तव “दुर्मतयः निग्रहबुद्धयः “भूमाच्चित् भ्रमादपि । अत्र संप्रसारणं छान्दसम् । प्रमादादपीत्यर्थः । “अस्मान् “मा “नशन्त मा व्याप्नुवन्तु । नशदिति व्याप्तिकर्मसु पाठात् ।।


स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यं ।

स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥२३

सः । मर्तः॑ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । रे॒वान् । अम॑र्त्ये । यः । आ॒ऽजु॒होति॑ । ह॒व्यम् ।

सः । दे॒वता॑ । व॒सु॒ऽवनि॑म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा॑नः । एति॑ ॥२३

सः । मर्तः । अग्ने । सुऽअनीक । रेवान् । अमर्त्ये । यः । आऽजुहोति । हव्यम् ।

सः । देवता । वसुऽवनिम् । दधाति । यम् । सूरिः । अर्थी । पृच्छमानः । एति ॥२३

“स्वनीक सुतेजस्क हे “अग्ने अमर्त्ये अमनुष्ये देवतात्मनि त्वयि “हव्यं हविः “यः “आजुहोति “स “मर्तः मनुष्यः “रेवान् धनवान् भवति । “यं मर्त्यं "सूरिः प्राज्ञः “अर्थी धनादिकामः “पृच्छमानः असौ उदारः क्वास्ते' इति पृच्छन् “एति अभिगच्छति “सः एव मनुष्यः “देवता देवताभ्यः “वसुवनिं धनपोषं ददाति । यद्वा । स देवताग्निर्वसुवनिं यजमानं दधाति धारयति यमग्निं सूरिः स्तोता अर्थी प्रयोजनवान् पृच्छमानः कोऽसावग्निरिति पृच्छमान एति ।।


म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हंतं॑ ।

येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥२४

म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।

येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥२४

महः । नः । अग्ने । सुवितस्य । विद्वान् । रयिम् । सूरिऽभ्यः । आ । वह । बृहन्तम् ।

येन । वयम् । सहसाऽवन् । मदेम । अविऽक्षितासः । आयुषा । सुऽवीराः ॥२४

हे “अग्ने “नः अस्मदीयस्य “महः महतः “सुवितस्य कल्याणस्य कर्मणः “विद्वान् । अस्मदीयं कल्याणं कर्म जानन्नित्यर्थः । त्वं “सूरिभ्यः स्तोतृभ्योऽस्मभ्यं "बृहन्तं महान्तं “रयिं धनम् “आ “वह । रयिमेव विशिनष्टि । हे “सहसावन् बलवन् अग्ने “येन धनेन "वयं स्तोतारः “अविक्षितासः अविक्षीणाः “आयुषा पूर्णायुषः “सुवीराः कल्याणपुत्रपौत्राश्च सन्तः “मदेम हृष्येम ।।


नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।

रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२५

नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।

रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥२५

नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।

रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥२५

हे “अग्ने “मे मम मदर्थं “ब्रह्माणि अन्नानि “नु क्षिप्रम् “उच्छशाधि उत्कर्षेण शोधितानि कुरु । किंच हे “देव द्योतमानाग्ने “मघवद्भ्यः हविष्मद्भ्योऽस्मभ्यं सुषूदः अन्नानि प्रेरय । “ते त्वदीयायां “रातौ दाने “उभयासः स्तोत्रिणः शस्त्रिणश्च अथवा स्तुवन्तो यजमानाश्च वयम् “आ “स्याम अत्यर्थं भवेम । “नः अस्मान् “यूयं त्वत्परिवाराश्च सर्वे "स्वस्तिभिः अविनाशिभिर्मङ्गलैः । तथा च यास्कः– स्वस्तीत्यविनाशनामास्तिरभिपूजितः स्वस्ति' (निरु. ३. २१) इति । “सदा “पात रक्षत ॥ ॥ २६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१&oldid=207526" इत्यस्माद् पुनः प्राप्तिः