ऋग्वेदः सूक्तं ७.७२
← सूक्तं ७.७१ | ऋग्वेदः - मण्डल ७ सूक्तं ७.७२ मैत्रावरुणिर्वसिष्ठः |
सूक्तं ७.७३ → |
दे. अश्विनौ। त्रिष्टुप्। |
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥१॥
आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥२॥
उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥३॥
वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥४॥
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘आ गोमता' इति पञ्चर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम्। अनुक्रम्यते च-- ’आ गोमता पञ्च' इति । विनियोगः प्रातरनुवाकाश्विनशस्त्रयोरुक्तः । आश्विने पशावाद्याश्चतस्रो याज्यानुवाक्याः। सूत्रितं च-– आ गोमता नासत्या रथेनेति चतस्रः' (आश्व. श्रौ. ३. ८) इति ॥
आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् ।
अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥१
आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् ।
अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥१
आ । गोऽमता । नासत्या । रथेन । अश्वऽवता । पुरुऽचन्द्रेण । यातम् ।
अभि । वाम् । विश्वाः । निऽयुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥१
हे "नासत्या अश्विनौ “गोमता गोयुक्तेन “अश्वावता अश्वयुक्तेन । अश्वैर्वृषभैश्चोढेनेत्यर्थः । यद्वा। गोमता गोप्रदेन । “पुरुश्चन्द्रेण बहुधनेन । धनप्रदेनेत्यर्थः । तादृशेन “रथेन “आ “यातम् आगच्छतम् । “वां “विश्वाः बह्यःेत “नियुतः स्तुतयः “सचन्ते सेवन्तेऽस्मत्प्रेरिताः । हे “स्पार्हया स्पृहणीयया “श्रिया शोभया “तन्वा शरीरेण च "शुभाना दीप्यमानौ युवाम् ॥
आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।
यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥२
आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न ।
यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥२
आ । नः । देवेभिः । उप । यातम् । अर्वाक् । सऽजोषसा । नासत्या । रथेन ।
युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम् ॥२
हे “नासत्या अश्विनौ युवां “देवेभिः इतरैर्देवैः सह “सजोषसा समानप्रीतौ परस्परं सन्तौ “नः अस्माकम् “अर्वाक् अभिमुखं “रथेन “आ “यातम् आगच्छतम् । आगमने बन्धुत्वातिशयमाह। “युवोः युवयोः “नः अस्माकं च “सख्या सख्यानि “पित्र्याणि पितृतः प्राप्तानि । नेदानीं स्तुत्याद्युपाधिना प्राप्तानि भवन्तीत्यर्थः । तदेवाह । "उत अपि च युवयोर्मम च “बन्धुः। बन्धकः पितामहः “समानः एक एव । “तस्य “वित्तम् । तस्येति कर्मणि षष्ठी । तं बन्धुं तद्बन्धुत्वं वा वित्तं जानीतम्। विवस्वान् वरुणश्चोभावपि कश्यपादितेर्जातौ विवस्वानश्विनोर्जनको वरुणो वसिष्ठस्येतीत्येवं समानबन्धुत्वम् । तथा च बृहद्देवतायामुक्तम्-’अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह । स वै सरण्यूं प्रायच्छत्स्वयमेव विवस्वते ।। ततः सरण्य्वां जाते ते यमयम्यौ विवस्वतः । तावप्युभौ यमावेव ह्यास्तां यम्या च वै यमः ।। सृष्ट्वा भर्तुः परोक्षं तु सरण्यूः सदृशीं स्त्रियम् । निक्षिप्य मिथुनं तस्यामश्वा भूत्वा प्रचक्रमे । अविज्ञानाद्विवस्वांस्तु तस्यामजनयन्मनुम् । राजर्षिरासीत्स मनुर्विवस्वानिव तेजसा ।। स विज्ञाय अपक्रान्तां सरण्यूमात्मरूपिणीम्। त्वाष्ट्रीं प्रतिजगामाशु वाजी भूत्वा सलक्षणः । सरण्यूस्तु विवस्वन्तं विज्ञाय हयरूपिणम्। मैथुनायोपचक्राम तां च तत्रारुरोह सः ।। ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि। उपाजिघ्रच्च सा त्वश्वा तच्छुक्रं गर्भकाम्यया ॥ आघ्राणमात्राच्छुक्रं तत्कुमारौ संबभूवतुः । नासत्यश्चैव दस्रश्च यौ स्तुतावश्विनावपि ' (बृहद्दे. ६. १६२-७. ६) इति ॥
उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रन्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।
आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥३
उत् । ऊं॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः ।
आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥३
उत् । ऊं इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः ।
आऽविवासन् । रोदसी इति । धिष्ण्ये इति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति ॥३
“स्तोमासः स्तोमाः स्तवाः अश्विनाश्विनौ “उदु “अबुध्रन् उत्कृष्टं बोधयन्ति । उ इति पूरणः । “जामि । बन्धुनामैतत् । बन्धुस्थानीयानि “ब्रह्माणि परिवृढानि कर्माणि “देवीः द्योतमानाः “उषसः । चकारादश्विनौ च । अबुध्रन्। “विप्रः मेधावी वसिष्ठः “इमे रोदसी द्यावापृथिव्यौ “धिष्ण्ये धिषणार्हे स्तुत्ये "आविवासन परिचरन् "नासत्या अश्विनौ “अच्छ अभिमुखं "विवक्ति स्तौति ॥
वि चेदु॒च्छन्त्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरन्ते ॥४
वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥४
वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते ।
ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्ऽइधा । जरन्ते ॥४
हे “अश्विनौ "उषासः उषसः "वि "उच्छन्ति “चेत् तमांसि विवासयन्ति । चेदिति पूरणश्चार्थे वा । स च वक्ष्यमाणसूर्याद्यपेक्षकः । चेद्योगादनिघातः। अतो युवयोः स्तुतिसमयत्वात् “ब्रह्माणि स्तोत्राणि “कारवः स्तोतारः “प्र “भरन्ते प्रकर्षेण संपादयन्ति । “ऊर्ध्वम् "अश्रेत् आश्रयति “भानुं तेजः “सविता "देवः। “अग्नयः अपि “समिधा समिन्धनेन "बृहत् अतिमहत् "जरन्ते स्तूयन्ते ॥
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५
आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
हे “नासत्या अश्विनौ “पश्चातात् पश्चाद्देशात् “आ "यातम् । तथा “पुरस्तात् पूर्वस्माद्देशात् तथा “अधरात् अधस्तयाद्देशाद्दक्षिणतः "उदक्तात् उदग्देशात् । सर्वत्र आ यातमिति संबन्धः। किं बहुना “विश्वतः सर्वस्माद्देशाद् "पाञ्चजन्येन पञ्चजनहितेन “राया धनेन सह “आ यातम् । निषाद माश्चत्वारो वर्णाः पञ्चजनाः ॥ ॥ १९ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|