← सूक्तं ७.७५ ऋग्वेदः - मण्डल ७
सूक्तं ७.७६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७७ →
दे. उषसः। त्रिष्टुप् ।


उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥१॥
प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः ।
अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥२॥
तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।
यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥३॥
त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः ।
गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥४॥
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते ।
ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥५॥
प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥६॥
एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः ।
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

' उदु ज्योतिः ' इति सप्तर्चं षष्ठं सूक्तं त्रैष्टुभमुषस्यम् । तथा चानुक्रान्तम् - ' उदु सप्त इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् ।

क्रत्वा॑ दे॒वाना॑मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ॥१

उत् । ऊं॒ इति॑ । ज्योतिः॑ । अ॒मृत॑म् । वि॒श्वऽज॑न्यम् । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् ।

क्रत्वा॑ । दे॒वाना॑म् । अ॒ज॒नि॒ष्ट॒ । चक्षुः॑ । आ॒विः । अ॒कः॒ । भुव॑नम् । विश्व॑म् । उ॒षाः ॥१

उत् । ऊं इति । ज्योतिः । अमृतम् । विश्वऽजन्यम् । विश्वानरः । सविता । देवः । अश्रेत् ।

क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥१

“अमृतम् अमृतत्वसाधकमविनाशि वा “विश्वजन्यं विश्वेषां जनानां हितकरं “ज्योतिः “विश्वानरः सर्वेषां नेता “सविता “देवः “उत् अश्रेत् ऊर्ध्वं श्रयति । “देवानां व्यवहर्तॄणां स्तोतॄणां वा यजमानानां “क्रत्वा कर्मणा निमित्तेन । यागानुष्ठानार्थमित्यर्थः । तदर्थं यद्वा देवानां “चक्षुः चक्षुःस्थानीयमौषसं तेजः क्रत्वा कर्मणा निमित्तेन “अजनिष्ट प्रादुरभूत् । उत्पन्ना च “उषाः “विश्वं सर्वं “भुवनं भूतजातम् “आविरकः प्रादुरकः अकरोत् । समस्तं जगदाविष्कृतवती। ।।


प्र मे॒ पन्था॑ देव॒याना॑ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः ।

अभू॑दु के॒तुरु॒षस॑ः पु॒रस्ता॑त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्य॑ः ॥२

प्र । मे॒ । पन्थाः॑ । दे॒व॒ऽयानाः॑ । अ॒दृ॒श्र॒न् । अम॑र्धन्तः । वसु॑ऽभिः । इष्कृ॑तासः ।

अभू॑त् । ऊं॒ इति॑ । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । प्र॒ती॒ची । आ । अ॒गा॒त् । अधि॑ । ह॒र्म्येभ्यः॑ ॥२

प्र । मे । पन्थाः । देवऽयानाः । अदृश्रन् । अमर्धन्तः । वसुऽभिः । इष्कृतासः ।

अभूत् । ऊं इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः ॥२

“मे मया “देवयानाः देवप्रापकाः “पन्थाः पन्थानः “प्र “अदृश्रन् प्रदृश्यन्ते । कीदृशाः पन्थानः । “अमर्धन्तः अहिंसन्तः “वसुभिः तेजोभिः “इष्कृतासः संस्कृताः । “पुरस्तात् पूर्वस्यां दिशि “उषसः “केतुः प्रज्ञापकं तेजः “अभूत् अचेति ज्ञायते । सोषाश्च “प्रतीची प्रत्यगञ्चनास्मदभिमुखी हर्म्येभ्यः “अधि उच्छ्रितेभ्यः प्रदेशेभ्यः । हर्म्यशब्द उन्नतप्रदेशोपलक्षकः । “आगात् आगच्छति ॥


तानीदहा॑नि बहु॒लान्या॑स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य ।

यत॒ः परि॑ जा॒र इ॑वा॒चर॒न्त्युषो॑ ददृ॒क्षे न पुन॑र्य॒तीव॑ ॥३

तानि॑ । इत् । अहा॑नि । ब॒हु॒लानि॑ । आ॒स॒न् । या । प्रा॒चीन॑म् । उत्ऽइ॑ता । सूर्य॑स्य ।

यतः॑ । परि॑ । जा॒रःऽइ॑व । आ॒ऽचर॑न्ती । उषः॑ । द॒दृ॒क्षे । न । पुनः॑ । य॒तीऽइ॑व ॥३

तानि । इत् । अहानि । बहुलानि । आसन् । या । प्राचीनम् । उत्ऽइता । सूर्यस्य ।

यतः । परि । जारःऽइव । आऽचरन्ती । उषः । ददृक्षे । न । पुनः । यतीऽइव ॥३

हे उषः “तानीत् तान्येव तव तेजांसि “बहुलानि “अहानि “आसन् । उषःप्रकाशयुक्तस्यैव कालस्याहःशब्दव्यवहारात् । तानीत्युक्तं कानीत्याह। “या यानि “सूर्यस्य "उदिता उदितावुदये सति “प्राचीनं तस्य प्राग्देशं प्रत्युदयन्ति । यद्वा सूर्यस्य प्राचीने देशे या यान्युदितोदितानि तानीत्यर्थः । .. हे “उषः “यतः यैश्च तेजोभिः “परि “ददृक्षे दृश्यसे त्वम् । “जारइव पत्याविव “आचरन्ती समीपे संचरन्ती साध्वी नारीव जारे रात्रेर्जरयितरि सूर्ये संचरन्ती त्वं दृश्यते। यथा लोके दुष्टं भ्रमणशीलमपि पतिमत्यज्यैव साध्वी संचरति तद्वत् तमविमुञ्चती त्वमित्यर्थः। “न “पुनर्यतीव यती पतिं परित्यज्येतस्ततः संचरन्ती व्यभिचारिणीव सूर्यमपरित्यजन्ती त्वम् । पुनरित्यर्थं वैलक्षण्यद्योतनार्थः । एवं यैस्तेजोभिर्युक्ता परिदृश्यसे तान्येवाहान्यासन्निति संबन्धः ॥


त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वय॑ः पू॒र्व्यास॑ः ।

गू॒ळ्हं ज्योति॑ः पि॒तरो॒ अन्व॑विन्दन्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥४

ते । इत् । दे॒वाना॑म् । स॒ध॒ऽमादः॑ । आ॒स॒न् । ऋ॒तऽवा॑नः । क॒वयः॑ । पू॒र्व्यासः॑ ।

गू॒ळ्हम् । ज्योतिः॑ । पि॒तरः॑ । अनु॑ । अ॒वि॒न्द॒न् । स॒त्यऽम॑न्त्राः । अ॒ज॒न॒य॒न् । उ॒षस॑म् ॥४

ते । इत् । देवानाम् । सधऽमादः । आसन् । ऋतऽवानः । कवयः । पूर्व्यासः ।

गूळ्हम् । ज्योतिः । पितरः । अनु । अविन्दन् । सत्यऽमन्त्राः । अजनयन् । उषसम् ॥४

“त “इत् तेऽङ्गिरस एवर्षीणां मध्ये "देवानां “सधमादः सह माद्यन्तः “आसन् अभवन् । त इत्युक्तं क इत्याह । ये “ऋतावानः सत्यवन्तः “कवयः अनूचानाः। ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. ३८) इति श्रुतेः । “पूर्व्यासः पूर्वकालीनाः “पितरः पालयितारः सर्वस्याङ्गिरसः “गूळ्हं तमसावृतं “ज्योतिः सौर्यं तेजः “अन्वविन्दन् लब्धवन्तो मन्त्रसामर्थ्यात् ते “सत्यमन्त्राः सत्यस्तुतयः सन्तः “उषासम् उषसम् "अजनयन् प्रादुरकुर्वन् । ‘तुरीयेण ब्रह्मणाविन्ददत्रिः' (ऋ. सं. ५. ४०. ६) “अत्रयस्तमन्चविन्दन्' (ऋ. सं. ५. ४०.९) इति निगमौ । अत्राङ्गिरसां स्तुत्योषस एव स्तुतिर्ज्ञातव्या ॥


स॒मा॒न ऊ॒र्वे अधि॒ संग॑तास॒ः सं जा॑नते॒ न य॑तन्ते मि॒थस्ते ।

ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥५

स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते ।

ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥५

समाने । ऊर्वे । अधि । सम्ऽगतासः । सम् । जानते । न । यतन्ते । मिथः । ते ।

ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुऽभिः । यादमानाः ॥५

“समाने सर्वेषां साधारणे “ऊर्वे गोसमूहे पणिभिरपहृते पुनर्लब्धव्ये सति । “अधि इत्यनर्थकः । “संगतासः मिलिताः सन्तः “ते “सं “जानते एकबुद्धयो भवन्ति। “न “मिथः परस्परं “यतन्ते । सहैव साधनमनुतिष्ठन्तीत्यर्थः । “ते अङ्गिरसः “देवानां “व्रतानि कर्माणि योEगलक्षणानि “न “मिनन्ति न हिंसन्ति । किंतु परिपालयन्तीत्यर्थः । किं कुर्वन्तः । “अमर्धन्तः अहिंसन्तः “वसुभिः वासकैरुषसां तेजोभिः “यादमानाः गच्छन्तः ।।


प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुध॑ः सुभगे तुष्टु॒वांस॑ः ।

गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोष॑ः सुजाते प्रथ॒मा ज॑रस्व ॥६

प्रति॑ । त्वा॒ । स्तोमैः॑ । ई॒ळ॒ते॒ । वसि॑ष्ठाः । उ॒षः॒ऽबुधः॑ । सु॒ऽभ॒गे॒ । तु॒स्तु॒ऽवांसः॑ ।

गवा॑म् । ने॒त्री । वाज॑ऽपत्नी । नः॒ । उ॒च्छ॒ । उषः॑ । सु॒ऽजा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥६

प्रति । त्वा । स्तोमैः । ईळते । वसिष्ठाः । उषःऽबुधः । सुऽभगे । तुस्तुऽवांसः ।

गवाम् । नेत्री । वाजऽपत्नी । नः । उच्छ । उषः । सुऽजाते । प्रथमा । जरस्व ॥६

हे "सुभगे देव्युषः “त्वा त्वाम् "उषर्बुधः उषसि बुध्यन्तः “तुष्टुवांसः स्तुवन्तः “वसिष्ठाः “स्तोमैः स्तोत्रैः “ईळते स्तुवन्ति । “गवां “नेत्री प्रापयित्री “वाजपत्नी अन्नस्य पालयित्री । अन्नदात्रीत्यर्थः । ईदृशी त्वं “नः अस्मदर्थम् “उच्छ विभाहि । हे “उषः "सुजाते सुप्रादुर्भावे “प्रथमा इतरदेवेभ्यो मुख्यभूता “जरस्व ॥ ।


ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यते॒ वसि॑ष्ठैः ।

दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

ए॒षा । ने॒त्री । राध॑सः । सू॒नृता॑नाम् । उ॒षाः । उ॒च्छन्ती॑ । रि॒भ्य॒ते॒ । वसि॑ष्ठैः ।

दी॒र्घ॒ऽश्रुत॑म् । र॒यिम् । अ॒स्मे इति॑ । दधा॑ना । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

एषा । नेत्री । राधसः । सूनृतानाम् । उषाः । उच्छन्ती । रिभ्यते । वसिष्ठैः ।

दीर्घऽश्रुतम् । रयिम् । अस्मे इति । दधाना । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“एषा “उषाः “राधसः स्तोतुः “सूनृतानां स्तुतीनां “नेत्री सती “उच्छन्ती तमो विवासयन्ती “वसिष्ठैः वसिष्ठगोत्रोत्पन्नैः “रिभ्यते स्तूयते । “दीर्घश्रुतं दीर्घे श्रूयमाणं सर्वत्र प्रसिद्धं “रयिं धनम् “अस्मे अस्मासु “दधाना धारयन्ती ।। ।। २३ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७६&oldid=201199" इत्यस्माद् प्रतिप्राप्तम्