ऋग्वेदः सूक्तं ७.२३
← सूक्तं ७.२२ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२३ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.२४ → |
दे. इन्द्रः। त्रिष्टुप्। |
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।
याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥५॥
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
सायणभाष्यम्
उदु ब्रह्माणि' इति षड़ृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च– ‘उदु षट्' इति । अग्निष्टोमे माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्र एतत्सूक्तम् । सूत्रितं च - ‘उदु ब्रह्माण्यृजीषी वज्री वृषभस्तुराषाळिति याज्या ' ( आश्व. श्रौ. ५. १६) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्र एतदहरहःशस्यसंज्ञकं सूक्तम् । सूत्रितं च - ‘उदु ब्रह्माण्यभि तष्टेवेतीतरावहरहःशस्ये ' ( आश्व. श्रौ. ७. ४ ) इति । अहर्गणेषु द्वितीयादिष्वहःसु एतदेव सूक्तम्। महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । सूत्रितं च- ‘उदु ब्रह्माण्यैरत श्रवस्या ते मह इन्द्रोत्युग्रेति पञ्च सूक्तानि (ऐ. आ. ५. २. २) इति ॥
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥१
उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।
आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥१
उत् । ऊं इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । सऽमर्ये । महय । वसिष्ठ ।
आ । यः । विश्वानि । शवसा । ततान । उपऽश्रोता । मे । ईवतः । वचांसि ॥१
“श्रवस्या अन्नेच्छया “ब्रह्माणि स्तोत्राणि हवींषि च इन्द्रार्थम् "उत् “ऐरत सर्व ऋषय इति शेषः । "उ इति पूरणः । हे "वसिष्ठ त्वमपि “समर्ये यज्ञे “इन्द्रं "महय स्तोत्रेण हविषा च पूजय । अपि च "यः इन्द्रः “विश्वानि भुवनानि “शवसा बलेन "आ “ततान सः “ईवतः उपगमनवतः “मे मम “वचांसि स्तुतिरूपाणि वाक्यानि “उपश्रोता भवतु ॥
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि ।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥२
अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि ।
न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥२
अयामि । घोषः । इन्द्र । देवऽजामिः । इरज्यन्त । यत् । शुरुधः । विऽवाचि ।
नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान् ॥२
"यत् यदा “शुरुधः । शुचं रुन्धन्तीति शुरुध ओषध्यः। “इरज्यन्त वर्धन्ते तदा हे “इन्द्र त्वदर्थं "विवाचि स्तोतरि “देवजामिः देवानां बन्धुः “घोषः । स्तुतिरूपः शब्दो घोषः । "अयामि अकारि । अपि च “जनेषु मध्ये केनापि "स्वमायुः स्वजीवितं नहि “चिकिते न ज्ञायते । यैः “आयुः क्षीयते “तानीत् तानि सर्वाण्येव "अंहांसि पापानि "अस्मान् "अति "पर्षि अतिपारय ॥
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥३
यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।
वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥३
युजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः ।
वि । बाधिष्ट । स्यः । रोदसी इति । महिऽत्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥३
“गवेषणं गवां प्रापकमिन्द्रस्य "रथं "हरिभ्याम् इन्द्रवाहाभ्यां “युजे स्तोत्रैरहं युनज्मि । “ब्रह्माणि स्तोत्राणि जुजुषाणं परिवारैः सेव्यमानमिन्द्रम् “उप "अस्थुः उपातिष्ठन्त । "स्यः सोऽयमिन्द्रः "महित्वा महत्त्वेन "रोदसी द्यावापृथिव्यौ “वि “बाधिष्ट व्यबाधिष्ट च । अपि च “इन्द्रः "वृत्राणि शत्रून् अप्रतिद्वन्द्वानि "जघन्वान् हतवान् ॥
आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥४
आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ ।
या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥४
आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र ।
याहि । वायुः । न । निऽयुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥४
हे “इन्द्र त्वत्प्रसादात् "आपश्चित् आपः “स्तर्यो "न "गावः स्तर्यो वशा गाव इव "पिप्युः वर्धन्ताम् । अप्रसूता गावो मांसला भवन्ति हि । “ते तव "जरितारः स्तोतारश्च “ऋतम् उदकं “नक्षन् व्याप्नुवन् । अपि च त्वं "नः अस्मान् "नियुतः "वायुर्न वायुरिव “अच्छ "याहि अभियाहि । “त्वं "हि “धीभिः प्रज्ञाभिः कर्मभिर्वा "वाजान् अन्नानि “वि "दयसे स्तोतृभ्यः प्रयच्छसि ॥
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥५
ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ।
एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥५
ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ।
एकः । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥५
हे “इन्द्र “त्वा त्वां "ते एते “मदाः मदकराः सोमाः "मादयन्तु। अपि च "जरित्रे स्तोत्रे "शुष्मिणं बलवन्तं “तुविराधसे बहुधनं पुत्रं प्रयच्छतीति शेषः । हे "शूर त्वं "देवत्रा देवेषु “एकः एव "मर्तान् मनुष्यान् "दयसे "हि । दयतिरनुकम्पार्थः । "अस्मिन् "सवने यज्ञे "मादयस्व ॥
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
स न॑ः स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६
ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६
एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ।
सः । नः । स्तुतः । वीरऽवत् । पातु । गोऽमत् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
“वसिष्ठासः वसिष्ठाः "वज्रबाहुं वज्रकल्पबाहुं "वृषणं कामानां वर्षितारम् "इन्द्रम् “एवेत् उक्तेन प्रकारेणैव "अर्कैः अर्चनीयैः स्तोत्रैः “अभ्यर्चन्ति अभिपूजयन्ति । "स्तुतः "सः इन्द्रः "नः अस्मभ्यं "वीरवत् पुत्रादियुक्तं "गोमत् गोयुक्तं च धनं “धातु ददातु । स्पष्टमन्यत् ॥ ॥ ७ ॥
टिप्पणी
७.२३.१ उदु ब्रह्माणि इति
उदु ब्रह्माण्यैरत श्रवस्या इति ब्राह्मणाच्छंसी । ब्रह्मण्वदेतत्सूक्तं समृद्धम्- गोपथ ब्रा. २.६.२
वैश्वदेवम् (ग्रामगेयः)
वसिष्ठ व्रते द्वे (आरण्यकगेयः)
द्र. उदुम्बरोपरि टिप्पणी
मण्डल ७ | ||||||
---|---|---|---|---|---|---|