प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.७० ऋग्वेदः - मण्डल ७
सूक्तं ७.७१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७२ →
दे. अश्विनौ। त्रिष्टुप्।


अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥१॥
उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥२॥
आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥३॥
यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा ।
आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥४॥
युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् ।
निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥५॥
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥६॥

सायणभाष्यम्

पञ्चमेऽनुवाके एकोनविंशतिसूक्तानि । तत्र ‘अप स्वसुः' इति षडृचं प्रथमं सूक्तं त्रैष्टुभमाश्विनम् । अनुक्रम्यते च -– अप स्वसुः षट्' इति । गतो विनियोगः ॥


अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ ।

अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥१

अप॑ । स्वसुः॑ । उ॒षसः॑ । नक् । जि॒ही॒ते॒ । रि॒णक्ति॑ । कृ॒ष्णीः । अ॒रु॒षाय॑ । पन्था॑म् ।

अश्व॑ऽमघा । गोऽम॑घा । वा॒म् । हु॒वे॒म॒ । दिवा॑ । नक्त॑म् । शरु॑म् । अ॒स्मत् । यु॒यो॒त॒म् ॥१

अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृष्णीः । अरुषाय । पन्थाम् ।

अश्वऽमघा । गोऽमघा । वाम् । हुवेम । दिवा । नक्तम् । शरुम् । अस्मत् । युयोतम् ॥१

"स्वसुः स्वसृस्थानीयायाः “उषसः सकाशात् "नक् नक्तं रात्रिः "अप “जिहीते अपगच्छति । तस्या अवकाशं दत्वा स्वयमपगतेत्यर्थः। ‘स्वसा स्वस्रे ज्यायस्यै योनिमारैक्' (ऋ. सं. १. १२४. ८) इत्युक्तम् । “कृष्णीः कृष्णवर्णा रात्रिः “अरुषाय आरोचमानायाह्ने सूर्याय वा “पन्थां पन्थानं मार्गं “रिणक्ति रेचयति । यस्मादेवं तस्माद्युवयोरागमनसमयत्वात् हे “अश्वामघा अश्वधनौ हे “गोमघा गोधनौ । उभयोः प्रदातारावित्यर्थः । ईदृशौ “वां युवां “हुवेम स्तुमः । आह्वयामः । “दिवा “नक्तं सर्वदा “शरुं हिंसकम् “अस्मत् अस्मत्तः "युयोतं पृथक्कुरुतम् ॥


उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता ।

यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥२

उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता ।

यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥२

उपऽआयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता ।

युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः ॥२

हे अश्विनौ युवाम् “उपायातम् उपागच्छतमस्मदाह्वानं प्रति । किमर्थम् । “दाशुषे हविषां दात्रे यजमानाय तदर्थं “रथेन “वामं वननीयं धनं “वहन्ता वहन्तौ । “अस्मत् अस्मत्तः “युयुतं पृथकुरुतम् । किम् । “अनिराम् । इरान्नम् । तदभावं दारिद्र्यमित्यर्थः । “अमीवां रोगं च । हे "माध्वी मधुमन्तौ युवां “नः अस्मान् “दिवा “नक्तं सर्वदा “त्रासीथां रक्षतम् ॥


आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु ।

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥३

आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ ।

स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥३

आ । वाम् । रथम् । अवमस्याम् । विऽउष्टौ । सुम्नऽयवः । वृषणः । वर्तयन्तु ।

स्यूमऽगभस्तिम् । ऋतयुक्ऽभिः । अश्वैः । आ । अश्विना । वसुऽमन्तम् । वहेथाम् ॥३

“अवमस्याम् आसन्नायां “व्युष्टौ व्युच्छन उषसि “वां युवयोः “रथं "सुम्नायवः सुखेन योजयन्तोऽश्वाः “वृषणः वर्षका युवाम् "आ "वर्तयन्तु । “स्यूमगभस्तिं सुखरश्मिं स्यूतरश्मिं "वसुमन्तं प्रदेयधनयुक्तं रथं हे “अश्विना अश्विनौ “ऋतयुग्भिः उदकयुक्तैः “अश्वैः उदकप्रदैरश्वैः “आ “वहेथाम् ॥


यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा ।

आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥४

यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा ।

आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥४

यः । वाम् । रथः । नृपती इति नृऽपती । अस्ति । वोळ्हा । त्रिऽवन्धुरः । वसुऽमान् । उस्रऽयामा ।

आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्वऽप्स्न्यः । जिगाति ॥४

हे “नृपती नृणां यजमानानां पालकावश्विनौ “वां युवयोः “यः “रथः “वोळ्हा युवयोर्वाहकः “अस्ति सर्वदा संनिहितो वर्तते । कीदृशोऽसौ । “त्रिवन्धुरः सारथ्यधिष्ठानस्थानत्रयोपेतः “वसुमान् धनवान् “उस्रयामा उस्रं दिवसं प्रति गन्ता । “एना एतेन रथेन हे “नासत्या अश्विनौ “नः अस्मान् "उप “आ “यातम् । “यत् रथः यश्च रथः “वां “विश्वप्स्न्यः व्याप्तरूपः “अभि “जिगाति अभिगच्छति । अन्य आह । यद्यस्माद्विश्वप्स्न्यो वसिष्ठो वां जिगाति स्तौति अत उपा यातम् ।।


यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।

निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥५

यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।

निः । अंह॑सः । तम॑सः । स्प॒र्त॒म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥५

युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।

निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥५

हे अश्विना “युवं युवां “च्यवानं “जरसः जीर्णाद्रूपात् "अमुमुक्तम् अमुञ्चतम् ।' युवं च्यवानमश्विना जरन्तं पुनर्युवानम्' (ऋ. सं. १. ११७. १३) इति ह्यन्यत्र । तथा "पेदवे एतन्नामकाय राज्ञे "आशुं शीघ्रगामिनम् “अश्वं “निः “ऊहथुः न्यवहतं युद्धे । युवं श्वेतं पेदवे' (ऋ. सं. १. ११८. ९) इति निगमः । तथा “अत्रिं महर्षिम् “अंहसः ऋबीसादग्नेः सकाशात् “तमसः च गुहान्तःस्थिताच्च सकाशात् “निः “स्पर्त न्यपारयतम् । ‘युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः' (ऋ. सं. १०. ३९. ९) इति निगमः । तथा “जाहुषं “शिथिरे शिथिले भ्रष्टे स्वराष्ट्रे "अन्तः मध्ये पुनः “नि “धातं न्यधातम् । “परिविष्टं जाहुषं विश्वतः सीम्' (ऋ. सं. १. ११६. २०) इति ह्युक्तम् ।।


इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।

इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६

इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।

इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।

इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

‘इयं मनीषा' इति षष्ठी गता ॥ ॥ १८ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७१&oldid=209144" इत्यस्माद् पुनः प्राप्तिः