प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.१०० ऋग्वेदः - मण्डल ७
सूक्तं ७.१०१
मैत्रावरुणिर्वसिष्ठः (वृष्टिकामः), कुमार आग्नेयो वा।
सूक्तं ७.१०२ →
दे. पर्जन्यः। त्रिष्टुप्।


तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः ।
स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥१॥
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥२॥
स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः ।
पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥३॥
यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।
त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्यभितो विरप्शम् ॥४॥
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् ।
मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥५॥
स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च ।
तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्थ निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ सप्तमो व्याख्यायते । सप्तममण्डलस्य षष्ठेऽनुवाक एकादश सूक्तानि व्याख्यातानि । ‘ तिस्रो वाचः' इति षडृयं द्वादशं सूक्तम् । अत्रानुक्रम्यते -- ‘ तिस्रः षट् पार्जन्यं तु ' इति । एते कुमार आग्नेयोऽपश्थद्वसिष्ठ एव वा ' इति वक्ष्यमाणत्वादग्निपुत्रः कुमार ऋषिर्वसिष्ठो वा । अनुक्तत्वात् त्रिष्टुप् । इदमुत्तरं च पर्जन्यदेवत्यम् । अत्र शौनकः -- आस्यदघ्नं विगाह्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्र आदिभ्यामुपतिष्ठेत भास्करम् ॥ अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पञ्चरात्रेऽप्यतिक्रान्ते महतीं वृष्टिमाप्नुयात् ॥' (ऋग्वि. २. ३२६-२७) इति ॥


ति॒स्रो वाच॒ः प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूध॑ः ।

स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥१

ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ ।

सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥१

तिस्रः । वाचः । प्र । वद । ज्योतिःऽअग्राः । याः । एतत् । दुह्रे । मधुऽदोघम् । ऊधः ।

सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥१

ऋषिरात्मानं स्तुतौ प्रेरयति । हे ऋषे “तिस्रः त्रिविधा ऋग्यजुःसामात्मिकाः स्तुतिरूपाः “वाचः “प्र “वद प्रब्रूहि । कीदृश्यो वाचः । “ज्योतिरग्राः । ज्योतिर्द्योतमानः प्रणवोऽग्रे प्रमुखो यासां तादृशीः । “याः वाचः “मधुदोघं मधुन उदकस्य दोहकं वृष्ट्युदकस्य कर्तारम् “एतत् नभसि दृश्यमानम् “ऊधः उद्धृतं मेघम् । यद्वा । लुप्तोपममेतत् । ऊध इव पयस आश्रयभूतं मेघं “दुह्रे दुहते । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१ ) इति तलोपः । बाहुलको रुट् । स्तोत्रैः प्रीतो हि पर्जन्यो मेधैर्वर्षयति । अतो वाच एव दुहन्तीत्युपचर्यते । यद्वा । वदेति व्यत्ययेन मध्यमः । तिस्र इति द्रुतविलम्बितमध्यमभेदेन त्रिविधा ज्योतिरग्रा विद्युत्प्रमुखा वाचः प्रवदेतेति। या गर्जितलक्षणा वाचो वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति । एवंभूतः “सः च पर्जन्यः "वत्सं सह निवसन्तं वैद्युताग्निं “कृण्वन् प्रादुष्कुर्वन् तमेव “ओषधीनां व्रीह्यादीनां च “गर्भं कुर्वन् “सद्यः शीघ्रं “जातः प्रादुर्भूतः “वृषभः वर्षिता सन् “रोरवीति भृशं शब्दायते ॥


यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ ।

स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योति॑ः स्वभि॒ष्ट्य१॒॑स्मे ॥२

यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ ।

सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । यं॒स॒त् । त्रि॒ऽवर्तु॑ । ज्योतिः॑ । सु॒ऽअ॒भि॒ष्टि । अ॒स्मे इति॑ ॥२

यः । वर्धनः । ओषधीनाम् । यः । अपाम् । यः । विश्वस्य । जगतः । देवः । ईशे ।

सः । त्रिऽधातु । शरणम् । शर्म । यंसत् । त्रिऽवर्तु । ज्योतिः । सुऽअभिष्टि । अस्मे इति ॥२

“यः पर्जन्यः “ओषधीनां “वर्धनः वर्धयिता । “यः च “अपाम् उदकानां वर्धकः । “यः च “देवः द्योतमानः पर्जन्यः “विश्वस्य सर्वस्य “जगतः “ईशे ईष्टे। ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । “अधीगर्थ ' (पा. सू. २. ३. ५२ ) इति कर्मणि शेषत्वेन विवक्षिते षष्ठी। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। 'यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः। “सः पर्जन्यः “त्रिधातु त्रिभूमिकं “शरणं गृहं “शर्म सुखं च "यंसत् यच्छतु । अस्मभ्यं ददात्वित्यर्थः ॥ यमेर्लेट्यडाग़मः । सिब्बहुलम्' इति सिप्। ' इतश्च लोपः' इतीकारलोपः। तथा “त्रिवर्तु त्रिषु ऋतुषु अतिशयेन वर्तमानम् । श्रूयते हि - ‘ त्रीणि वा आदित्यस्य तेजांसि वसन्ता प्रातर्ग्रीष्मे मध्यंदिने शरद्यपराह्णे ' (तै. सं. २. १. २. ५) इति । एवंविधं “स्वभिष्टि स्वभ्येषणं “ज्योतिः तेजश्च “अस्मे अस्मभ्यं प्रयच्छतु ॥


स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।

पि॒तुः पय॒ः प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥३

स्त॒रीः । ऊं॒ इति॑ । त्व॒त् । भव॑ति । सूते॑ । ऊं॒ इति॑ । त्व॒त् । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।

पि॒तुः । पयः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । मा॒ता । तेन॑ । पि॒ता । व॒र्ध॒ते॒ । तेन॑ । पु॒त्रः ॥३

स्तरीः । ऊं इति । त्वत् । भवति । सूते । ऊं इति । त्वत् । यथाऽवशम् । तन्वम् । चक्रे । एषः ।

पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥३

त्वदिति तकारान्तोऽन्यशब्दपर्यायोऽनुदात्तः सर्वनामसु पठितः। अस्य पर्जन्यस्य “त्वत् अन्यद्रूपं “स्तरीः निवृत्तप्रसवा गौः सा यथा न दोग्ध्री तद्वद्वर्षुकं न “भवति । “उ इति पूरकः । द्वितीय उशब्दश्चार्थे । “त्वत् अन्यच्च रूपं “सूते धेनुवत्प्रसूते। उदकानि प्रवर्षति । “एषः पर्जन्यः “तन्वं स्वकीयं शरीरं “यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च “चक्रे करोति । अपि च “पितुः दिवः सकाशात् “पयः वृष्ट्युदकं “माता पृथिवी “प्रति “गृभ्णाति प्रतिगृह्णाति । हृग्रहोर्भः । इति भत्वम् । प्रतिगृहीतेन “तेन हविरात्मना परिणतेन “पिता द्युलोकः “वर्धते । “तेन एवोदकेन “पुत्रः पृथिव्यां भवः प्राणिसंघोऽपि वर्धते ॥


यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुराप॑ः ।

त्रय॒ः कोशा॑स उप॒सेच॑नासो॒ मध्व॑ः श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥४

यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒स्रुः । आपः॑ ।

त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥४

यस्मिन् । विश्वानि । भुवनानि । तस्थुः । तिस्रः । द्यावः । त्रेधा । सस्रुः । आपः ।

त्रयः । कोशासः । उपऽसेचनासः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥४

“यस्मिन् पर्जन्ये “विश्वानि “भुवनानि सर्वाणि भूतजातानि “तस्थुः तिष्ठन्ति । यदधीनवृत्तीनि भवन्तीत्यर्थः । यस्मिंश्च “द्यावः द्युप्रभृतयो लोको अवतिष्ठन्ते । यस्माच्च “आपः “त्रेधा “सस्रुः प्राच्यः प्रतीच्योऽवाच्यश्च सत्यो निर्गच्छन्ति । “उपसेचनासः उपसेक्तारः “त्रयः पौरस्त्यः प्रतीच्य उदीच्यश्चेति त्रिप्रकाराः “कोशासः मेघाः “विरप्शं महान्तं पर्जन्यम् “अभितः परितः “मध्वः । कर्मणि षष्ठी । मधूदकं “श्चोतन्ति क्षारयन्ति वर्षन्ति ॥


इ॒दं वच॑ः प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् ।

म॒यो॒भुवो॑ वृ॒ष्टय॑ः सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥५

इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् ।

म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥५

इदम् । वचः । पर्जन्याय । स्वऽराजे । हृदः । अस्तु । अन्तरम् । तत् । जुजोषत् ।

मयःऽभुवः । वृष्टयः । सन्तु । अस्मे इति । सुऽपिप्पलाः । ओषधीः । देवऽगोपाः ॥५

“इदं “वचः वचनं स्तोत्रं “स्वराजे स्वायत्तदीप्तये “पर्जन्याय क्रियते । एतच्च “हृदः तदीयस्य हृदयस्य “अन्तरम् अन्तर्गतम् “अस्तु। स च तत् स्तोत्रं “जुजोषत् सेवताम् ।‘जुषी प्रीतिसेवनयोः'। लेट्यडागमश्छान्दसः । शपः श्लुः । “मयोभुवः सुखस्य भावयित्र्यः "वृष्टयः “अस्मे अस्माकं तत्प्रसादात् “सन्तु भवन्तु । तथा “देवगोपाः देवः पर्जन्यो गोपायिता रक्षिता यासां तथाविधाः “ओषधीः ओषधयश्च “सुपिप्पलाः सुफला अस्माकं भवन्तु ॥


स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च ।

तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ।

तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

सः । रेतःऽधाः । वृषभः । शश्वतीनाम् । तस्मिन् । आत्मा । जगतः । तस्थुषः । च ।

तत् । मा । ऋतम् । पातु । शतऽशारदाय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

“सः पर्जन्यः “शश्वतीनां बह्वीनामोषधीनां “रेतोधाः रेतस उदकस्य बीजभूतस्य धाता विनिधाता भवति । "वृषभः इत्युपमा । यथा कश्चिद्वृषभो बह्वीनां गवां गर्भस्याधाता भवति तद्वत् । अतः “तस्मिन् पर्जन्ये "जगतः जङ्गमस्य “तस्थुषः स्थावरस्य च "आत्मा देहो वर्तते । “तत् पर्जन्येन दत्तम् "ऋतम् उदकं “मा मां “शतशारदाय शतसंवत्सरजीवनार्थ “पातु रक्षतु ॥ माशब्दस्य ‘ ऋत्यकः ' इति प्रकृतिभावो ह्रस्वत्वं च । अन्यद्गतम् ॥ ॥ १ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१०१&oldid=201486" इत्यस्माद् पुनः प्राप्तिः