प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.९० ऋग्वेदः - मण्डल ७
सूक्तं ७.९१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९२ →
दे. १, ३ वायुः, २, ४-७ इन्द्रवायू। त्रिष्टुप्।


कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥१॥
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥२॥
पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥३॥
यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः ।
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥४॥
नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् ।
इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥५॥
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते ।
आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥६॥
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘कुविदङ्ग' इति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम्। ‘कुविदङ्ग' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः । वायव्ये पशौ ‘कुविदङ्ग' इति वपाया याज्या । सूत्रितं च -- ‘ कुविदङ्ग नमसा ये वृधास ईशानाय प्रहुतिं यस्त आनट्' (आश्व. श्रौ. ३. ८) इति


कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धास॑ः पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।

ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥१

कु॒वित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धासः॑ । पु॒रा । दे॒वाः । अ॒न॒व॒द्यासः॑ । आस॑न् ।

ते । वा॒यवे॑ । मन॑वे । बा॒धि॒ताय॑ । अवा॑सयन् । उ॒षस॑म् । सूर्ये॑ण ॥१

कुवित् । अङ्ग । नमसा । ये । वृधासः । पुरा । देवाः । अनवद्यासः । आसन् ।

ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण ॥१

दीव्यन्ति स्तुवन्तीति देवाः स्तोतारः। “पुरा पूर्वस्मिन् काले "ये "वृधासः वृद्धाः “देवाः स्तोतारः । कुविदिति बहुबाम । अङ्गेति क्षिप्रनाम। "कुवित् बहुशः “अङ्ग क्षिप्रं कृतेन "नमसा वायुविषयेण स्तोत्रेण नमस्कारेण वा “अनवद्यासः अवद्यरहिताः आसन् “ते अद्यापि “वायवे हवींषि दातुं "सूर्येण सह "उषसम् “अवासयन् । उषसो व्युष्टिं सूर्योदयं च वायुयागार्थं कुर्वन्तीत्यर्थः । किमर्थम्। “मनवे मनुष्याणां “बाधिताय बाधितानां पुत्रादीनां रक्षणार्थमित्यर्थः । यद्वा मनवे बाधितायेति षष्ठ्यर्थे चतुर्थ्यौ। बाधितस्य मनोः प्रजापतेर्यागे वायवे हवींषि दातुमित्यन्वयः ॥


द्वितीये छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य उशन्ता ' इत्येषा प्रथमा । सूत्रितं च -- ‘ उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च ' (आश्व. श्रौ. ८. १०) इति ॥

उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।

इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥२

उ॒शन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः ।

इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥२

उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः ।

इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥२

हे इन्द्रवायू "उशन्ता उशन्तौ कामयमानौ दूतौ । देवतेर्गतिकर्मणो दूतशब्दः । गन्तारौ “गोपा गोपयितारावीदृशौ युवां “दभाय हिंसायै “न भवतम् । अपि तु “मासः मासान् “च "पूर्वीः बह्वीः “शरदः संवत्सरान “च चिरकालमस्मान् “पाथः रक्षतम् । अपि च हे “इन्द्रवायू “सुष्टुतिः अस्मदीया शोभना स्तुतिः “वां युवाम् “इयाना गच्छन्ती प्राप्नुवन्ती “मार्डीकं सुखम् “ईट्टे याचते । यद्वा । सुखं यथा भवति तथा युवामीट्टे स्तौति । तथा “नव्यं प्रशस्यं “सुवितं सुष्ठु प्राप्यं धनं “च ईट्टे ॥


नियुत्वद्वायुदेवताके पशौ ‘पीवोअन्नान्' इति वपाया याज्या। सूत्रितं च - पीवोअन्नाँ रयिवृधः सुमेधा राये नु यं जज्ञतू रोदसीमे' ( आश्व. श्रौ. ३. ८) इति । तथा द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैव द्वितीया। सूत्रितं च --- पीवोअन्नाँ रथिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्राः ' (आश्व. श्रौ. ८. १०) इति ॥

पीवो॑अन्नाँ रयि॒वृध॑ः सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑ः स्वप॒त्यानि॑ चक्रुः ॥३

पीवः॑ऽअन्नान् । र॒यि॒ऽवृधः॑ । सु॒ऽमे॒धाः । श्वे॒तः । सि॒स॒क्ति॒ । नि॒ऽयुता॑म् । अ॒भि॒ऽश्रीः ।

ते । वा॒यवे॑ । सऽम॑नसः । वि । त॒स्थुः॒ । विश्वा॑ । इत् । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः॒ ॥३

पीवःऽअन्नान् । रयिऽवृधः । सुऽमेधाः । श्वेतः । सिसक्ति । निऽयुताम् । अभिऽश्रीः ।

ते । वायवे । सऽमनसः । वि । तस्थुः । विश्वा । इत् । नरः । सुऽअपत्यानि । चक्रुः ॥३

“पीवोअन्नान् पीवांसि स्थूलानि प्रभूतान्यन्नानि येषां तान् “रयिवृधः रय्या धनेन वृद्धानेवंभूतानाढ्यजनान् “सुमेधाः शोभनप्रज्ञः “नियुतां वडवानां स्ववाहानाम् “अभिश्रीः अभिश्रयणीयः “श्वेतः श्वेतवर्णो वायुः “सिषक्ति सेवते । “ते च जनाः “समनसः समानमनस्काः सन्तः "वायवे वायुमुद्दिश्य यष्टुं “वि “तस्थुः विविधमवतिष्ठन्ते । स्थित्वा च ते “नरः कर्मणां नेतारो जनाः “विश्वेत् विश्वानि सर्वाण्येव “स्वपत्यानि शोभनापत्यहेतूनि यद्वा सुष्ठ्वपतनकारणानि वायुदेवत्यानि कर्माणि “चक्रुः कुर्वन्ति ॥


द्वितीये छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य ‘यावत्तरः' इत्यादिके द्वे ऋचौ। सूत्रं तु पूर्वमेवोदाहृतम् ॥

याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।

शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ॥४

याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः ।

शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥४

यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः ।

शुचिम् । सोमम् । शुचिऽपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥४

हे “इन्द्रवायू युवयोः “तन्वः शरीरस्य “तरः वेगः “यावत् अस्ति “यावत् च “ओजः बलं "यावत् च "नरः कर्मणां नेतार ऋत्विजः “चक्षसा ज्ञानेन “दीध्यानाः दीप्यमाना भवन्ति तस्य सर्वस्यानुरूपं “शुचिपा शुचेः सोमस्य पाताराविन्द्रवायू “शुचिं शुद्धं “सोमम् “अस्मे अस्मदीयं “पातं पिबतम् । “इदं वेद्यां स्तीर्ण “बर्हिः च “आ “सदतं पानार्थमासीदतम् । बर्हिष्युपविशतमित्यर्थः ॥


नि॒यु॒वा॒ना नि॒युत॑ः स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक् ।

इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥५

नि॒ऽयु॒वा॒ना । नि॒ऽयुतः॑ । स्पा॒र्हऽवी॑राः । इन्द्र॑वायू॒ इति॑ । स॒ऽरथ॑म् । या॒त॒म् । अ॒र्वाक् ।

इ॒दम् । हि । वा॒म् । प्रऽभृ॑तम् । मध्वः॑ । अग्र॑म् । अध॑ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति॑ ॥५

निऽयुवाना । निऽयुतः । स्पार्हऽवीराः । इन्द्रवायू इति । सऽरथम् । यातम् । अर्वाक् ।

इदम् । हि । वाम् । प्रऽभृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति ॥५

हे “इन्द्रवायू "स्पार्हवीराः स्पृहणीयस्तोतृकान् “नियुतः आत्मीयानश्वान् “सरथम् उभयोः समानमेकं रथं “नियुवाना निमिश्रयन्तौ युवाम् “अर्वाक् अस्मदभिमुखं “यातं गच्छतम् । “इदं “हि इदं खलु “मध्वः मधुरस्य सोमस्य “अग्रं ग्रहेष्वाद्यमैन्द्रवायवाख्यं ग्रहं “वां युवयोरर्थं “प्रभृतं प्रकर्षेण हृतं होमार्थमुत्तरवेदिं प्रति नीतम् । “अध अथ तादृशस्य सोमस्य पानानन्तरं “प्रीणाना प्रीयमाणौ युवाम् “अस्मे अस्मान् “वि “मुमुक्तं पापाद्विमोचयतम् ॥


प्रथमे छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य ' या वां शतम्' इति तृतीया । सूत्रितं च -- ‘ या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः' (आश्व. श्रौ. ८. ९) इति ॥

या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒ः सच॑न्ते ।

आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑ः ॥६

याः । वा॒म् । श॒तम् । नि॒ऽयुतः॑ । याः । स॒हस्र॑म् । इन्द्र॑वायू॒ इति॑ । वि॒श्वऽवा॑राः । सच॑न्ते ।

आ । आ॒भिः॒ । या॒त॒म् । सु॒ऽवि॒दत्रा॑भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति॑ऽभृतस्य । मध्वः॑ ॥६

याः । वाम् । शतम् । निऽयुतः । याः । सहस्रम् । इन्द्रवायू इति । विश्वऽवाराः । सचन्ते ।

आ । आभिः । यातम् । सुऽविदत्राभिः । अर्वाक् । पातम् । नरा । प्रतिऽभृतस्य । मध्वः ॥६

हे 'इन्द्रवायू “याः “नियुतः “शतं शतसंख्याकाः सत्यः "वां युवां “सचन्ते सेवन्ते । “याः च "विश्ववाराः विश्वैर्वरणीया नियुतः “सहस्रं सहस्रसंख्याकाः सत्यो युवां सचन्ते । “सुविदत्राभिः शोभनधनप्रदाभिः “आभिः नियुद्भिः “अर्वाक् अस्मदभिमुखम् “आ “यातम् आगच्छतम् । हे “नरा नेतारौ “प्रतिभृतस्य उत्तरवेदिं प्रति नीतस्य “मध्वः मधुरस्य सोमस्य । द्वितीयार्थे षष्ठी। ईदृशं सोमं “पातं पिबतम् ॥


अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।

वा॒ज॒यन्त॒ः स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।

वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।

वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

व्याख्यातेयम् । अक्षरार्थस्तु । अश्वा इव हविषां वोढारोऽन्नं याचमाना बलं कामयमाना वसिष्ठा वयं शोभनरक्षणाय शोभनैः स्तोत्रैरिन्द्रवायू आह्वयेमहीति ॥ ॥ १३ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९१&oldid=201433" इत्यस्माद् पुनः प्राप्तिः