← सूक्तं ७.६३ ऋग्वेदः - मण्डल ७
सूक्तं ७.६४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६५ →
दे. मित्रावरुणौ। त्रिष्टुप् ।


दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् ।
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥१॥
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् ।
इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥२॥
मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु ।
ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥३॥
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च ।
उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥४॥
एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥


सायणभाष्यम्

‘दिवि क्षयन्ता ' इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणम्। 'दिवि पञ्च' इत्यनुक्रमणिका। तृतीये छन्दोमे प्रउगशस्त्र आद्यस्तृचो मैत्रावरुणस्य । सूत्रितं च - दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराश्विना गतं नः' (आश्व. श्रौ. ८. ११) इति ।।


दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् ।

ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥१

दि॒वि । क्षय॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ । निः॒ऽनिजः॑ । द॒दी॒र॒न् ।

ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सुऽजा॑तः । राजा॑ । सु॒ऽक्ष॒त्रः । वरु॑णः । जु॒ष॒न्त॒ ॥१

दिवि । क्षयन्ता । रजसः । पृथिव्याम् । प्र । वाम् । घृतस्य । निःऽनिजः । ददीरन् ।

हव्यम् । नः । मित्रः । अर्यमा । सुऽजातः । राजा । सुऽक्षत्रः । वरुणः । जुषन्त ॥१

"दिवि द्युलोकेऽन्तरिक्षे “पृथिव्यां च वर्तमानस्य “रजसः उदकस्य “क्षयन्ता। क्षयतिरैश्वर्यकर्मा। स्वामिनौ भवथः । हे मित्रावरुणौ “वां युवाभ्यां प्रेरिता मेघाः “घृतस्य “निर्णिजः उदकस्य रूपाणि “ददीरन् ददते प्रयच्छन्ति । अथवा वां युवाभ्यां घृतस्य निर्णिजो रूपाणि । घृतानीत्यर्थः । तानि ददीरन् दीयन्ते । “नः अस्माकं संबन्धि “हव्यं "मित्रः "सुजातः सुष्ठु प्रादुर्भूतः “अर्यमा “राजा सर्वस्य स्वामी “सुक्षत्रः शोभनबलः “वरुणः चैते “जुषन्त सेवन्ताम् ॥


आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् ।

इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥२

आ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् ।

इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥२

आ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इति सिन्धुऽपती । क्षत्रिया । यातम् । अर्वाक् ।

इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरदानू इति जीरऽदानू ॥२

हे “राजाना सर्वस्य स्वामिनौ हे “महः महतः “ऋतस्य उदकस्य यज्ञस्य वा “गोपा गोपायतारौ। ‘सुबामन्त्रिते पराङ्गवत्स्वरे ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातत्वम् । हे सिन्धुपती नद्याः पालयितारौ हे "क्षत्रिया बलवन्तौ युवाम् “अर्वाक् अस्मदभिमुखम् “आ “यातम् आगच्छतम् । किंच हे "मित्रावरुणा मित्रावरुणौ हे "जीरदानू क्षिप्रदानौ युवां “नः अस्मभ्यम् “इळाम् अन्नम् "उत अपि च “पुष्टिं तत्साधिकां वृष्टिं च “दिवः अन्तरिक्षात् “अव अवस्तात् “इन्वतं प्रेरयतम् ॥


मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु ।

ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥३

मि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ ।

ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥३

मित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथिऽभिः । नयन्तु ।

ब्रवत् । यथा । नः । आत् । अरिः । सुऽदासे । इषा । मदेम । सह । देवऽगोपाः ॥३

“मित्रः “वरुणः "देवः "अर्यः अर्यमा चैते त्रयोऽपि “नः अस्मान् “तत् तदा यदास्माकमपेक्षितं तदा “साधिष्ठेभिः साधकतमैः “पथिभिः मार्गेः '“नयन्तु प्रापयन्तु। किंच “नः अस्मान् “सुदासे शोभनदानाय जनाय “अरिः अर्यमा “यथा “ब्रवत् असावनुकम्प्य इति ब्रूयात्तथा कुर्वन्तु । अर्यम्णः पुनरभिधानमादरार्थम् । “देवगोपाः देवा यूयं गोपायितारो येषामस्माकं ते वयम् “इषा युष्माभिर्दातव्येनान्नेन “सह पुत्रादिसहिताः "मदेम हृष्येम ॥


यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च ।

उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥४

यः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ ।

उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥४

यः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च ।

उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुऽक्षितीः । तर्पयेथाम् ॥४

हे मित्रावरुणौ “यः “वां युवयोः “एतं “गर्तं रथं “मनसा “तक्षत् स्तोमेन संकल्पयेत् तथा कृत्वा “ऊर्ध्वाम् उन्नतां “धीतिं कर्म स्तुतिरूपं “कृणवत् कुर्यात् उच्चैः स्तुयात् एवं कृत्वा “धारयच्च यागे धारयेत् हे “राजाना स्वामिनौ “मित्रावरुणा मित्रावरुणौ “ता तौ युवां जनं “घृतेन उदकेन “उक्षेथां सिञ्चतम् । तस्मै “सुक्षितीः शोभननिवासाः प्रजाः “तर्पयेथाम् । यथा सुक्षितयो भवन्ति तथा तर्पयेथामिति ॥


ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑ः शु॒क्रो न वा॒यवे॑ऽयामि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

अनया स्तुतिमुपसंहरति । हे “वरुण हे “मित्र “तुभ्यं युवयोः “वायवे । वायुर्गन्तादित्यः । स एवार्यमा । तस्मै च “एष “स्तोमः स्तवः “अयामि अकारि । किमिव । “शुक्रः दीप्तः “सोमः “न युष्मभ्यं प्रीतिकरः सोमो यथा दीयते तद्वत् । “धियः कर्माण्यस्मदीयानि “अविष्टं रक्षतम्। “पुरंधीः स्तुतीः “जिगृतं प्रबुध्यतम् । अन्यद्गतम् ॥ ॥ ६ ।।

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६४&oldid=201195" इत्यस्माद् प्रतिप्राप्तम्