← सूक्तं ७.१ ऋग्वेदः - मण्डल ७
सूक्तं ७.२
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३ →
दे. आप्रीसूक्तं(१इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः,६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतयः, ११ स्वाहाकृतयः। त्रिष्टुप्।


जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।
उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥१॥
नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या ॥२॥
ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् ।
मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥३॥
सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ ।
आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥४॥
स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।
पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥५॥
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥६॥
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।
ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥७॥
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥८॥
तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥९॥
वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥१०॥
आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥११॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘ जुषस्व नः' इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम् । आप्रशब्दोक्तत्वादिदं तनूनपाद्रहितम् । समिद्धाद्या अग्निविशेषाः प्रत्यृचं देवता उक्ताः । तथा चानुक्रम्यते- जुषस्वैकादशाप्रम् इति । पशाविष्टाविदमाप्रीसूक्तम् । सूत्रितं च -- जुषस्व नः समिधमिति वसिष्ठानाम् ' ( आश्व. श्रौ. ३. २) इति । पत्नीसंयाजे त्वष्ट्यागस्य याज्या त्वाष्ट्रे पशावपि पुरोडाशस्यानुवाक्येयमिति पूर्वमुक्तम् ॥


जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।

उप॑ स्पृश दि॒व्यं सानु॒ स्तूपै॒ः सं र॒श्मिभि॑स्ततन॒ः सूर्य॑स्य ॥१

जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । अ॒ग्ने॒ । अ॒द्य । शोच॑ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् ।

उप॑ । स्पृ॒श॒ । दि॒व्यम् । सानु॑ । स्तूपैः॑ । सम् । र॒श्मिऽभिः॑ । त॒त॒नः॒ । सूर्य॑स्य ॥१

जुषस्व । नः । सम्ऽइधम् । अग्ने । अद्य । शोच । बृहत् । यजतम् । धूमम् । ऋण्वन् ।

उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मिऽभिः । ततनः । सूर्यस्य ॥१

हे “अग्ने “नः अस्माकं “समिधम् “अद्य “जुषस्व सेवस्व । “यजतं यजनीयं प्रशस्तं “धूमम् “ऋण्वन् प्रेरयन् “बृहत् अत्यन्तं “शोच दीप्यस्व च । किंच “दिव्यम् अन्तरिक्षभवं “सानु समुच्छ्रितं “स्तूपैः तप्तैः रश्मिभिः “उप “स्पृश । अपि च “सूर्यस्य रश्मिभिः तेजोभिः “सं “ततनः संगच्छस्व ॥


नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।

ये सु॒क्रत॑व॒ः शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥२

नरा॒शंस॑स्य । म॒हि॒मान॑म् । ए॒षा॒म् । उप॑ । स्तो॒षा॒म॒ । य॒ज॒तस्य॑ । य॒ज्ञैः ।

ये । सु॒ऽक्रत॑वः । शुच॑यः । धि॒य॒म्ऽधाः । स्वद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या ॥२

नराशंसस्य । महिमानम् । एषाम् । उप । स्तोषाम । यजतस्य । यज्ञैः ।

ये । सुऽक्रतवः । शुचयः । धियम्ऽधाः । स्वदन्ति । देवाः । उभयानि । हव्या ॥२

“ये "देवाः “सुक्रतवः सुप्रज्ञाः सुकर्माणो वा “शुचयः दीप्तिमन्तः “धियंधाः कर्मणां धारयितारः “उभयानि सौमिकानि च हविःसंस्थादीनि च “हव्या हव्यानि “स्वदन्ति स्वदयन्ति भक्षयन्ति तेषाम् “एषां मध्ये यज्ञैः हविर्भिः स्तोत्रैर्वा “यजतस्य यजनीयस्य “नराशंसस्य नरैः प्रशंसनीयस्य अग्निविशेषस्य “महिमानं महत्त्वम् “उप “स्तोषाम वयमुपस्तुमः । तथा च यास्कः - ‘ नरा अस्मिन्नासीनाः शंसन्ति । अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति । तस्यैषा भवति । नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैर्ये सुकर्माणः शुचयो धियं धारयितारः स्वदयन्तु देवा उभयानि हवींषि सोमं चेतराणि च ' (निरु. ८. ६) इति ॥


ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच॑म् ।

म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥३

ई॒ळेन्य॑म् । वः॒ । असु॑रम् । सु॒ऽदक्ष॑म् । अ॒न्तः । दू॒तम् । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाच॑म् ।

म॒नु॒ष्वत् । अ॒ग्निम् । मनु॑ना । सम्ऽइ॑द्धम् । सम् । अ॒ध्व॒राय॑ । सद॑म् । इत् । म॒हे॒म॒ ॥३

ईळेन्यम् । वः । असुरम् । सुऽदक्षम् । अन्तः । दूतम् । रोदसी इति । सत्यऽवाचम् ।

मनुष्वत् । अग्निम् । मनुना । सम्ऽइद्धम् । सम् । अध्वराय । सदम् । इत् । महेम ॥३

हे अध्वर्यवः “वः यूयम् “ईळेन्यं स्तुत्यम् "असुरं बलवन्तं "सुदक्षं सुप्रज्ञं "रोदसी रोदस्योः “अन्तः मध्ये "दूतं देवानां हविर्वहनार्थं चरन्तं “सत्यवाचं “मनुष्वत् मनुष्यवत् “मनुना “समिद्धं यथेदानीं मनुष्याः समिन्धते तथा पूर्वं मनुना प्रजापतिना समिद्धम् “अग्निम् “अध्वराय यज्ञाय “सदमित् सदैव “सं “महेम संपूजयत । मध्यमपुरुषस्य व्यत्ययेनोत्तमपुरुषत्वम् ॥


स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ ।

आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥४

स॒प॒र्यवः॑ । भर॑माणाः । अ॒भि॒ऽज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम॑सा । ब॒र्हिः । अ॒ग्नौ ।

आ॒ऽजुह्वा॑नाः । घृ॒तऽपृ॑ष्ठम् । पृष॑त्ऽवत् । अध्व॑र्यवः । ह॒विषा॑ । म॒र्ज॒य॒ध्व॒म् ॥४

सपर्यवः । भरमाणाः । अभिऽज्ञु । प्र । वृञ्जते । नमसा । बर्हिः । अग्नौ ।

आऽजुह्वानाः । घृतऽपृष्ठम् । पृषत्ऽवत् । अध्वर्यवः । हविषा । मर्जयध्वम् ॥४

“सपर्यवः परिचरणमिच्छन्तः "अभिज्ञु अभिगतजानुकं “भरमाणाः पादौ भरन्तः “बर्हिः “नमसा हविषा सह “अग्नौ “प्र “वृञ्जते प्रभरन्ति । तदेव विशदयति । हे “अध्वर्यवः “घृतपृष्ठं घृतसंसिक्तपृष्ठं "पृषद्वत् स्थूलबिन्दुभिर्युक्तं बर्हिः “हविषा सह "आजुह्वानाः “मर्जयध्वम् अग्निं परिचरत ।।


स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।

पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ॥५

सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता ।

पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥५

सुऽआध्यः । वि । दुरः । देवऽयन्तः । अशिश्रयुः । रथऽयुः । देवऽताता ।

पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥५

"स्वाध्यः सुकर्माणः "देवयन्तः देवकामा यजमानाः “रथयुः रथकामाश्च ।। जसि पूर्वसवर्णो ह्रस्वश्च ॥ “देवताता देवतातौ यज्ञे “दुरः यज्ञगृहद्वाराणि "वि “अशिश्रयुः आश्रितवन्तः । किंच “समनेषु यज्ञेषु “पूर्वी प्राचीने प्रागग्रे जुहूपभृतौ “शिशुं “न वत्समिव मातरौ गावौ “रिहाणे अग्निं लिहाने “अग्रुवो “न यथा नद्यः क्षेत्राण्युदकेन तद्वत् “सम् “अञ्जन् अध्वर्यवः आज्येन समञ्जन्ति ॥ ॥ १ ॥


उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।

ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥६

उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।

ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॒ इति॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥६

उत । योषणे इति । दिव्ये इति । मही इति । नः । उषसानक्ता । सुदुघाऽइव । धेनुः ।

बर्हिऽसदा । पुरुहूते इति पुरुऽहूते । मघोनी इति । आ । यज्ञिये इति । सुविताय । श्रयेताम् ॥६

“उत अपि च "योषणे युवत्यौ स्त्रीरूपे वा “दिव्ये दिवि भवे "मही महत्यौ। “बर्हिषदा बर्हिषि सीदन्त्यौ “पुरुहूते बहुभिः स्तुते “मघोनी धनवत्यौ “यज्ञिये यज्ञार्हे "उषासानक्ता अहोरात्रे "सुदुघेव “धेनुः कामधुग्धेनुरिव "नः अस्मान् “सुविताय कल्याणाय “आ “श्रयेताम् ॥


विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै ।

ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥७

विप्रा॑ । य॒ज्ञेषु॑ । मानु॑षेषु । का॒रू इति॑ । मन्ये॑ । वा॒म् । जा॒तऽवे॑दसा । यज॑ध्यै ।

ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे॑षु । ता । दे॒वेषु॑ । व॒न॒थः॒ । वार्या॑णि ॥७

विप्रा । यज्ञेषु । मानुषेषु । कारू इति । मन्ये । वाम् । जातऽवेदसा । यजध्यै ।

ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि ॥७

हे दैव्या होतारौ "विप्रा मेधाविनौ “जातवेदसा जातधनौ “मानुषेषु मनुष्यैः क्रियमाणेषु “यज्ञेषु "कारू कर्मणां कर्तारौ "वां युवां “यजध्यै यष्टुं “मन्ये स्तौमि । किंच “हवेषु हवनेषु स्तोत्रेषु सत्सु “नः अस्माकम् "अध्वरम् अकुटिलं यज्ञम् “ऊर्ध्वं देवाभिमुखं “कृतं कुरुतं च । अपि च "ता तौ युवां “देवेषु विद्यमानानि “वार्याणि धनानि “वनथः संभजथः । तान्यस्मभ्यं संप्रयच्छथ इत्यर्थः।।


आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥८

आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।

सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥८

आ । भारती । भारतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।

सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥८

एतदाद्यृक्चतुष्टयं द्वितीयाष्टकस्याष्टमाध्याये (ऋ. सं. ३. ४. ८-११ ) यद्यपि व्याख्यातं तथापि व्यवधानात् संक्षेपतोऽत्रापि व्याख्यायते । “भारती भरतस्यादित्यस्य पत्नी “भारतीभिः “सजोषाः सहिता “इळा “मनुष्येभिः मनुष्यलोकभवैः “देवैः सार्धम् “अग्निः “आ गच्छतु । “सरस्वती “सारस्वतेभिः सारस्वतैः मध्यमस्थानैर्देवैः सार्धम् “अर्वाक् अस्मदभिमुखमागच्छतु । आगत्य “तिस्रो "देवीः देव्यः ॥ प्रथमार्थे द्वितीया ॥ “बर्हिः “इदम् “आ “सदन्तु ॥


तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।

यतो॑ वी॒रः क॑र्म॒ण्य॑ः सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥९

तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।

यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥९

तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व ।

यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥९

“देव द्योतमान हे “त्वष्टः “रराणः रममाणस्त्वं “नः अस्माकं “तुरीपं त्वरितमाप्नुवत् “पोषयित्नु पोषकरं “तत रेतः “वि “स्यस्व विशेषेणावसानं प्रापय । विमोचयेत्यर्थः । “यतः रेतसः “कर्मण्यः कर्मसु साधुः “सुदक्षः सुबल: "युक्तग्रावा सोमसुत् "देवकामः “वीरः पुत्रः “जायते ॥


वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।

सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥१०

वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।

सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥१०

वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति ।

सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥१०

हे “वनस्पते “देवान् “उप “अव “सृज । अथ परोक्षस्तुतिः । “अग्निः वनस्पतिः “शमिता शामित्ररूपः सन् “हविः “सूदयाति प्रेरयतु । “सेत् स एव वनस्पतिः “होता देवानामाह्वाता “सत्यतर: अपि सन् “यजाति यजतु । “देवानां “जनिमानि जननानि “यथा स्वयं “वेद तथा ॥


आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभि॑ः ।

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥११

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।

ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥११

आ । याहि । अग्ने । सम्ऽइधानः । अर्वाङ् । इन्द्रेण । देवैः । सऽरथम् । तुरेभिः ।

बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥११

हे "अग्ने “समिधानः “अर्वाक् अस्मदभिमुखस्त्वम् “इन्द्रेण “तुरेभिः त्वरितैः "देवैः च “सरथं समानरथं यथा भवति तथा “आ “याहि आगच्छ । “नः अस्माकं “बर्हिः अधि “आस्ताम् “अदितिः च “सुपुत्रा कल्याणपुत्रा । “स्वाहा “देवाः च सर्वे "अमृताः सन्तः “मादयन्ताम् इति ॥ ॥ ३ ॥



टिप्पणी

७.२.२ नराशंसस्य महिमानमेषाम् इति

नराशंसोपरि टिप्पणी

नराशंसोपरि टिप्पणी (दर्पणं)


According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२&oldid=275287" इत्यस्माद् प्रतिप्राप्तम्