← सूक्तं ७.३९ ऋग्वेदः - मण्डल ७
सूक्तं ७.४०
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४१ →
दे. विश्वे देवाः। त्रिष्टुप्।


ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् ।
यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥
मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु ।
दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥२॥
सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ ।
उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥३॥
अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥४॥
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥५॥
मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् ।
मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥६॥
नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘ओ श्रुष्टिः' इति सप्तर्चं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ओ श्रुष्टिः' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् ।

यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥१

ओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् ।

यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥१

ओ इति । श्रुष्टिः । विदथ्या । सम् । एतु । प्रति । स्तोमम् । दधीमहि । तुराणाम् ।

यत् । अद्य । देवः । सविता । सुवाति । स्याम । अस्य । रत्निनः । विऽभागे ॥१

हे देवाः “विदथ्या विदथेन त्वदीयेन चित्तेन संपाद्या “श्रुष्टिः सुखमस्मान् “ओ आ “समेतु आगच्छतु । अथवा श्रुष्टिर्वेगवती विदथ्या विदथे यज्ञे क्रियमाणास्मदीया स्तुतिर्युष्मानागच्छतु । वयं “तुराणां वेगवतां देवानां “स्तोमं स्तोत्रं “प्रति “दधीमहि कुर्वीमहि। “अद्य इदानीं “सविता “देवः “यत् धनं “सुवाति अस्मभ्यं प्रेरयेत् "रत्निनः रमणीयधनवतः “अस्य सवितुस्तस्य धनस्य “विभागे दाने “स्याम वयं भवेम ॥


मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु ।

दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥२

मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु॒ ।

दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥२

मित्रः । तत् । नः । वरुणः । रोदसी इति । च । द्युऽभक्तम् । इन्द्रः । अर्यमा । ददातु ।

दिदेष्टु । देवी । अदितिः । रेक्णः । वायुः । च । यत् । नियुवैते इति निऽयुवैते । भगः । च ॥२

“मित्रः देवः “नः अस्मभ्यं “तत् प्रसिद्धं धनं “ददातु प्रयच्छतु । तथा “वरुणः ददातु। “रोदसी “च द्यावापृथिव्यौ च दत्ताम् । तथा “इन्द्रः “द्युभक्तं द्युभिर्द्योतमानैः स्तोतृभिः सेवितं तद्धनं ददातु। “अर्यमा च ददातु तथा “अदितिः “देवी “रेक्णः धनं “दिदेष्टु तद्धनमस्मभ्यं दिशतु । “वायुश्च "भगश्च उभौ देवौ “यत् धनं “नियुवैते अस्मान्नितरां योजयेतां तद्धनमिति पूर्वेण संबन्धः ॥


सेदु॒ग्रो अ॑स्तु मरुत॒ः स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ ।

उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥३

सः । इत् । उ॒ग्रः । अ॒स्तु॒ । म॒रु॒तः॒ । सः । शु॒ष्मी । यम् । मर्त्य॑म् । पृ॒ष॒त्ऽअ॒श्वाः॒ । अवा॑थ ।

उ॒त । ई॒म् । अ॒ग्निः । सर॑स्वती । जु॒नन्ति॑ । न । तस्य॑ । रा॒यः । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥३

सः । इत् । उग्रः । अस्तु । मरुतः । सः । शुष्मी । यम् । मर्त्यम् । पृषत्ऽअश्वाः । अवाथ ।

उत । ईम् । अग्निः । सरस्वती । जुनन्ति । न । तस्य । रायः । परिऽएता । अस्ति ॥३

हे “पृषदश्वाः। पृषच्छब्देन केचिन्मृगविशेषा उच्यन्ते । त एवाश्वा वाहा येषां ते । एवंभूता हे "मरुतः रुद्रपुत्रा देवा यूयं “मर्त्यं मरणधर्माणं “यं यजमानम् “अवाथ पालयेत “सेत् स एव यजमानः “उग्रः “अस्तु ओजस्वी भवतु । तथा “सः “शुष्मी बलवान् भवतु । तथा “उत अपि च “अग्निः अङ्गनादिगुणयुक्तो देवः “सरस्वती वाग्देवता चेत्याद्याः सर्वे देवाः “ईम् एनं यजमानं "जुनन्ति प्रवर्तयन्ति । “तस्य यजमानस्य संबन्धिनः “रायः धनस्य कश्चिदपि “पर्येता परिगन्ता “न "अस्ति नाशको न भवतीत्यर्थः ॥


अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।

सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥४

अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः ।

सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥४

अयम् । हि । नेता । वरुणः । ऋतस्य । मित्रः । राजानः । अर्यमा । अपः । धुरिति धुः ।

सुऽहवा । देवी । अदितिः । अनर्वा । ते । नः । अंहः । अति । पर्षन् । अरिष्टान् ॥४

“ऋतस्य यज्ञस्य सत्यस्य वा “नेता प्रापयिता "अयं हि अयं खलु “वरुणः च “मित्रः च “अर्यमा चैते “राजानः समर्था देवाः “अपः अस्मदीयं यज्ञादिलक्षणं कर्म “धुः अधुः दधति । “अनर्वा केनाप्यप्रतिगता “देवी द्योतमाना “अदितिः अदीना देवमाता “सुहवा शोभनाह्वाना भवति । “ते वरुणादयो देवाः “अरिष्टान् अबाधितान् सतः “नः अस्मान् “अंहः दुरितम् “अति “पर्षन् अतिपारयन्तु ।।


अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भि॑ः ।

वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥५

अ॒स्य । दे॒वस्य॑ । मी॒ळ्हुषः॑ । व॒याः । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒विःऽभिः॑ ।

वि॒दे । हि । रु॒द्रः । रु॒द्रिय॑म् । म॒हि॒ऽत्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ॥५

अस्य । देवस्य । मीळ्हुषः । वयाः । विष्णोः । एषस्य । प्रऽभृथे । हविःऽभिः ।

विदे । हि । रुद्रः । रुद्रियम् । महिऽत्वम् । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ॥५

“प्रभृथे “हविर्भिः हवीरूपैरन्नैः “एषस्य प्रापणीयस्य “मीळ्हुषः कामानां सेक्तुः “विष्णोः सर्वदेवात्मकस्य “अस्य “देवस्य । विष्णुः सर्वा देवताः' (ऐ. ब्रा. १. १) इति श्रुतेः । अन्ये देवाः “वयाः शाखा इव भवन्ति । "रुद्रः देवः “रुद्रियं रुद्रसंबन्धि सुखं “महित्वं महत्त्वं च "विदे “हि अस्मान् प्रापयति खलु । अपि च हे “अश्विनौ देवौ युवाम् “इरावत् हविर्लक्षणान्नयुक्तं “वर्तिः अस्मदीयं गृहं “यासिष्टम् अयासिष्टमागच्छतम् ॥


मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् ।

म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥६

मा । अत्र॑ । पू॒ष॒न् । आ॒घृ॒णे॒ । इ॒र॒स्यः॒ । वरू॑त्री । यत् । रा॒ति॒ऽसाचः॑ । च॒ । रास॑न् ।

म॒यः॒ऽभुवः॑ । नः॒ । अर्व॑न्तः । नि । पा॒न्तु॒ । वृ॒ष्टिम् । परि॑ऽज्मा । वातः॑ । द॒दा॒तु॒ ॥६

मा । अत्र । पूषन् । आघृणे । इरस्यः । वरूत्री । यत् । रातिऽसाचः । च । रासन् ।

मयःऽभुवः । नः । अर्वन्तः । नि । पान्तु । वृष्टिम् । परिऽज्मा । वातः । ददातु ॥६

हे “आघृणे प्राप्तदीप्ते एवंभूत हे “पूषन् देव "अत्र अस्मिन् दाने “मा “इरस्यः विघातं मा कृथाः। “वरूत्री सर्वैर्वरणीया सरस्वती “रातिषाचश्च । रातिर्दानम् । तस्य संभवत्र्यो देवपत्न्यश्च “यत् धनं “रासन् अस्मभ्यं प्रयच्छेयुः । अत्र मा कृथा इति पूर्वेण संबन्धः। किंच “मयोभुवः सुखस्य भावकाः “अर्वन्तः गच्छन्तो देवाः “नः अस्मान् “नि “पान्तु नितरां पालयन्तु। “परिज्म परितो गन्ता “वातः वायुः “वृष्टिं वृष्टिलक्षणमुदकं “ददातु प्रयच्छत्वस्मभ्यम् ॥


नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

नु । रोदसी इति । अभिस्तुते इत्यभिऽस्तुते । वसिष्ठैः । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

पूर्वं व्याख्यातेयम् । अक्षरार्थस्तु । द्यावापृथिव्यौ वरुणादयो देवाश्च वसिष्ठैरस्माभिरभिष्टुता भवन्ति । एवंभूता आह्लादका देवाः सर्वोत्कृष्टमन्नमस्मभ्यं ददतु । अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवा यूयं कल्याणैरस्मान् सर्वदा पालयत ॥ ॥ ७ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४०&oldid=224367" इत्यस्माद् प्रतिप्राप्तम्