ऋग्वेदः सूक्तं ७.८८
← सूक्तं ७.८७ | ऋग्वेदः - मण्डल ७ सूक्तं ७.८८ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८९ → |
दे. वरुणः, (७ पाशविमोचनी)। त्रिष्टुप्। |
प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।
य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥१॥
अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।
स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥२॥
आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् ।
अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥३॥
वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।
स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥४॥
क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।
बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥५॥
य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते ।
मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥६॥
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् ।
अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
सायणभाष्यम्
‘प्र शुन्ध्युवम्' इति सप्तर्चमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वारुणम् । ‘प्र शुन्ध्युवम्' इत्यनुक्रान्तम् । गतो विनियोगः ।।
प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व ।
य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥१
प्र । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठा॑म् । म॒तिम् । व॒सि॒ष्ठ॒ । मी॒ळ्हुषे॑ । भ॒र॒स्व॒ ।
यः । ई॒म् । अ॒र्वाञ्च॑म् । कर॑ते । यज॑त्रम् । स॒हस्र॑ऽमघम् । वृष॑णम् । बृ॒हन्त॑म् ॥१
प्र । शुन्ध्युवम् । वरुणाय । प्रेष्ठाम् । मतिम् । वसिष्ठ । मीळ्हुषे । भरस्व ।
यः । ईम् । अर्वाञ्चम् । करते । यजत्रम् । सहस्रऽमघम् । वृषणम् । बृहन्तम् ॥१
ऋषिरात्मानमेव प्रत्यक्षीकृत्य स्तुतौ नियुङ्क्ते । हे "वसिष्ठ त्वं "मीळ्हुषे सेक्त्रे "वरुणाय "शुन्ध्युवं शोधयित्रीं यद्वा स्वत एव शुद्धां “प्रेष्ठां प्रियतमां "मतिं मननीयामीदृशीं स्तुतिं “प्र “भरस्व प्रहर प्रापय । “यः वरुणः “ईम् एनं सूर्यम् "अर्वाञ्चम् अस्मदभिमुखं "करते अन्तरिक्षे करोति तस्मै वरुणायेत्यन्वयः। कीदृशं सूर्यम् । "यजत्रं यष्टव्यं सहस्रामघं बहुधनं "वृषणं कामानां वर्षकं "बृहन्तं महान्तम् ॥
अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि ।
स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥२
अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ ।
स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊं॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥२
अध । नु । अस्य । सम्ऽदृशम् । जगन्वान् । अग्नेः । अनीकम् । वरुणस्य । मंसि ।
स्वः । यत् । अश्मन् । अधिऽपाः । ऊं इति । अन्धः । अभि । मा । वपुः । दृशये । निनीयात् ॥२
"अध अधुना "अस्य "वरुणस्य "संदृशं संदर्शनं "नु क्षिप्रं "जगन्वान् गतवानहम् "अग्नेः "अनीकं ज्वालासंघं "मंसि स्तवानि । तं वरुणं यष्टुमिति शेषः। "यत् यदा वरुणः "स्वः सुखकरं "अश्मन् अश्मन्यभिषवार्थे पाषाणेऽवस्थितम् । अभिषुतमित्यर्थः । ईदृशम् "अन्धः सोमलक्षणमन्नम् "अधिपाः अधिकं पाता भवेत् । छान्दसः षष्ठ्यभावः । "उ इति पूरकः । तदानीं “मा मां "वपुः शरीरं स्वकीयम् । वपुरिति रूपनाम । प्रशस्तं रूपं वा "दृशये दर्शनार्थम् "अभि “निनीयात् अभिप्रापयेत् ॥
आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया॑व॒ मध्य॑म् ।
अधि॒ यद॒पां स्नुभि॒श्चरा॑व॒ प्र प्रे॒ङ्ख ई॑ङ्खयावहै शु॒भे कम् ॥३
आ । यत् । रु॒हाव॑ । वरु॑णः । च॒ । नाव॑म् । प्र । यत् । स॒मु॒द्रम् । ई॒रया॑व । मध्य॑म् ।
अधि॑ । यत् । अ॒पाम् । स्नुऽभिः॑ । चरा॑व । प्र । प्र॒ऽई॒ङ्खे । ई॒ङ्ख॒या॒व॒है॒ । शु॒भे । कम् ॥३
आ । यत् । रुहाव । वरुणः । च । नावम् । प्र । यत् । समुद्रम् । ईरयाव । मध्यम् ।
अधि । यत् । अपाम् । स्नुऽभिः । चराव । प्र । प्रऽईङ्खे । ईङ्खयावहै । शुभे । कम् ॥३
"यत् यदा वरुणे प्रसन्ने सति अहं "वरुणश्च उभौ "नावं द्रुममयीं तरणसाधनभूताम् “आ “रुहाव उभावारूढावभूव । तां च नावं "यत् यदा "समुद्रं “मध्यं समुद्रस्य मध्यं प्रति “प्र “ईरयाव प्रकर्षेण गमयाव । "यत् यदा च "अपाम् उदकानाम् "अधि उपरि "स्नुभिः गन्त्रीभिरन्याभिरपि नौभिः "चराव वर्तावहै। तदानीं “शुभे शोभार्थं "प्रेङ्खे नौरूपायां दोलायामेव “प्र “ईङ्खयावहै। निम्नोन्नतैस्तरङ्गैरितश्चेतश्च प्रविचलन्तौ संक्रीडावहै । "कम् इति पूरकः । यद्वा क्रियाविशेषणम् । कं सुखं यथा भवति तथेत्यर्थः ॥
वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।
स्तो॒तारं॒ विप्र॑ः सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षास॑ः ॥४
वसि॑ष्ठम् । ह॒ । वरु॑णः । ना॒वि । आ । अ॒धा॒त् । ऋषि॑म् । च॒का॒र॒ । सु॒ऽअपाः॑ । महः॑ऽभिः ।
स्तो॒तार॑म् । विप्रः॑ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । यात् । नु । द्यावः॑ । त॒तन॑न् । यात् । उ॒षसः॑ ॥४
वसिष्ठम् । ह । वरुणः । नावि । आ । अधात् । ऋषिम् । चकार । सुऽअपाः । महःऽभिः ।
स्तोतारम् । विप्रः । सुदिनऽत्वे । अह्नाम् । यात् । नु । द्यावः । ततनन् । यात् । उषसः ॥४
एवं वसिष्ठेनात्मनोक्ते यद्वरुणेन कृतं तद्दर्शयति । "वसिष्ठं “ह वसिष्ठं खलु "वरुणः "नावि स्वकीयायाम् "आधात् आरोहयत् । तथा तम् “ऋषिम् “अवोभिः रक्षणैः "स्वपां स्वपसं-शोभनकर्माणं “चकार वरुणः कृतवान् । अपि च "विप्रः मेधावी वरुणः “अह्नां दिवसानां मध्ये "सुदिनत्वे यत्फलत्वेन शोभनदिनत्वं तत्र “स्तोतारम् अस्थापयदि ति शेषः । किं कुर्वन् । "यात् यातो गच्छतः "द्यावः दिवसान् "यात् यातीः "उषासः उषसोपलक्षिता रात्रीश्च "नु क्षिप्रं "ततनन् सूर्यात्मना विस्तारयन् ॥
क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवु॒ः सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।
बृ॒हन्तं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥५
क्व॑ । त्यानि॑ । नौ॒ । स॒ख्या । ब॒भू॒वुः॒ । सचा॑वहे॒ इति॑ । यत् । अ॒वृ॒कम् । पु॒रा । चि॒त् ।
बृ॒हन्त॑म् । मान॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । स॒हस्र॑ऽद्वारम् । ज॒ग॒म॒ । गृ॒हम् । ते॒ ॥५
क्व । त्यानि । नौ । सख्या । बभूवुः । सचावहे इति । यत् । अवृकम् । पुरा । चित् ।
बृहन्तम् । मानम् । वरुण । स्वधाऽवः । सहस्रऽद्वारम् । जगम । गृहम् । ते ॥५
हे वरुण “त्यानि तानि पुरातनानि "नौ आवयोः "सख्या सख्यानि सखित्वानि “क्व कुत्र “बभूवुः । "पुरा पूर्वस्मिन् काले "अवृकम् अहिंस्यात्यन्तिकं "यत् सख्यमस्ति तत् "सचावहे आवां सेवावहे। “चित् इति पूरकः । अपि च हे "स्वधावः अन्नवन् "वरुण “ते त्वदीयं "गृहं “जगम गच्छानि । लोडर्थे लिट्। कीदृशं गृहम् । “बृहन्तं महान्तं "मानम्। मान्त्यस्मिन् सर्वाणि भूतानीति मानम् । सर्वस्य भूतजातस्य परिच्छेदकमित्यर्थः । सहस्रद्वारं बहुद्वारम् ॥
य आ॒पिर्नित्यो॑ वरुण प्रि॒यः सन्त्वामागां॑सि कृ॒णव॒त्सखा॑ ते ।
मा त॒ एन॑स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्र॑ः स्तुव॒ते वरू॑थम् ॥६
यः । आ॒पिः । नित्यः॑ । व॒रु॒ण॒ । प्रि॒यः । सन् । त्वाम् । आगां॑सि । कृ॒णव॑त् । सखा॑ । ते॒ ।
मा । ते॒ । एन॑स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः॑ । स्तु॒व॒ते । वरू॑थम् ॥६
यः । आपिः । नित्यः । वरुण । प्रियः । सन् । त्वाम् । आगांसि । कृणवत् । सखा । ते ।
मा । ते । एनस्वन्तः । यक्षिन् । भुजेम । यन्धि । स्म । विप्रः । स्तुवते । वरूथम् ॥६
हे "वरुण "यः वसिष्ठः "नित्यः धुवः “आपिः बन्धुः। औरसः पुत्र इत्यर्थः । यः पूर्वं "प्रियः “सन् “त्वां प्रति “आगांसि अपराधान् "कृणवत् अकरोत् स इदानीं "ते तव "सखा समानख्यानः प्रियोऽस्तु । हे “यक्षिन् यजनीय वरुण “ते तव स्वभूता वयम् “एनस्वन्तः एनसा पापेन युक्ताः सन्तः “मा "भुजेम मा भुज्महि । त्वत्प्रसादात् पापरहिता एव सन्तो भोगान् भुनजामहै। "विप्रः मेधावी त्वं च “स्तुवते स्तोत्रं कुर्वते वसिष्ठाय “वरूथम् अनिष्टनिवारकं वरणीयं वा गृहं “यन्धि प्रयच्छ । "स्म इति पूरकः ।।
अत्र ऋग्विधानं – ध्रुवासु त्वासु क्षितिषु जपन् बन्धात्प्रमुच्यते । तिष्ठन्रात्रौ जपेदेतां पिशाचस्तं न गच्छति ' ( ऋग्वि. २. ३१९) इति ।
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।
अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७
ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् ।
अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७
ध्रुवासु । त्वा । आसु । क्षितिषु । क्षियन्तः । वि । अस्मत् । पाशम् । वरुणः । मुमोचत् ।
अवः । वन्वानाः । अदितेः । उपऽस्थात् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
“ध्रुवासु नित्यासु "आसु दृश्यमानासु "क्षितिषु भूमिषु "क्षियन्तः निवसन्तो वयं हे वरुण “त्वा त्वां स्तुम इति शेषः । स च “वरुणः “अस्मत् अस्मत्तः “पाशं बन्धकं पापं “वि “मुमोचत् मोचयेत् । तथा “अदितेः अखण्डनीयायाः पृथिव्याः “उपस्थात् उपस्थानात् "अवः रक्षणं वरुणेन दत्तं “वन्वानाः संभजमाना वयं स्याम । अन्यद्गतम् ॥ ॥ १० ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|