ऋग्वेदः सूक्तं ७.७०
← सूक्तं ७.६९ | ऋग्वेदः - मण्डल ७ सूक्तं ७.७० मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.७१ → |
दे. अश्विनौ। त्रिष्टुप्। |
आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् ।
अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥१॥
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥२॥
यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥३॥
चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥४॥
शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥५॥
यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥६॥
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥७॥
सायणभाष्यम्
‘आ विश्ववारा' इति सप्तर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् । अनुक्रम्यते च-- ’आ विश्ववारा सप्त' इति । प्रातरनुवाक आश्विनशस्त्रे च विनियोग उक्तः । आद्यस्तृचस्तृतीये छन्दोमे प्रउगशस्त्रे विनियुक्तः । विश्ववाराश्विना गतं नोऽयं सोम इन्द्र' (आश्व. श्रौ. ८. ११ ) इति सूत्रितत्वात् ॥
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्यां ।
अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनिं॑ ॥१
आ । वि॒श्व॒ऽवा॒रा॒ । अ॒श्वि॒ना॒ । ग॒त॒म् । नः॒ । प्र । तत् । स्थान॑म् । अ॒वा॒चि॒ । वा॒म् । पृ॒थि॒व्याम् ।
अश्वः॑ । न । वा॒जी । शु॒नऽपृ॑ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः॑ । ध्रु॒वसे॑ । न । योनि॑म् ॥१
आ । विश्वऽवारा । अश्विना । गतम् । नः । प्र । तत् । स्थानम् । अवाचि । वाम् । पृथिव्याम् ।
अश्वः । न । वाजी । शुनऽपृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम् ॥१
हे “विश्ववारा सर्वैर्वरणीयौ “अश्विना अश्विनौ “नः अस्माकं यत् यं यागम् “आ “गतम् आगच्छतं “वां युवथोः तत्स्थानं “पृथिव्यां वेद्यां “प्र “अवाचि प्रोच्यते । तदर्थं “शुनपृष्ठः सुखकरपृष्ठभागः । अत्यन्तविपुलत्वात् आरूढानां सुखकरपृष्ठभाग इत्यर्थः। “वाजी वेगवान् “अश्वः “अस्थात् तिष्ठतु युवयोः समीपे । “यत् । यमित्यर्थः । यमश्वम् “आ “सेदथुः आसीदथः सोऽश्वः । यद्वा । यत्स्थानमासीदथः तत्स्थानमश्व आश्रयत्वितो गमनाय । स्थितौ दृष्टान्तः । “ध्रुवसे धुवाय निवासाय “योनिं “न योनिं स्थानमिव ॥
सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।
यो वां॑ समु॒द्रान्त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥२
सिस॑क्ति । सा । वा॒म् । सु॒ऽम॒तिः । चनि॑ष्ठा । अता॑पि । घ॒र्मः । मनु॑षः । दु॒रो॒णे ।
यः । वा॒म् । स॒मु॒द्रान् । स॒रितः॑ । पिप॑र्ति । एत॑ऽग्वा । चि॒त् । न । सु॒ऽयुजा॑ । यु॒जा॒नः ॥२
सिसक्ति । सा । वाम् । सुऽमतिः । चनिष्ठा । अतापि । घर्मः । मनुषः । दुरोणे ।
यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एतऽग्वा । चित् । न । सुऽयुजा । युजानः ॥२
“सा "सुमतिः अस्माभिः क्रियमाणा शोभना स्तुतिः "चनिष्ठा कमनीयतमातिशयेनान्नवती वा “वां युवां “सिषक्ति सेवते । किंच “घर्मः प्रवर्ग्यश्च “मनुषः मनुष्यस्य यजमानस्य “दुरोणे यागग्रहे “अतापि तप्तोऽभूत् । यत् घ्राँ इत्यपतत्तद्घर्मस्य घर्मत्वम् ' (तै. आ. ५. १. ५) इति श्रुतिः । यज्ञस्य शिरःस्थानीयत्वादस्य । “यः घर्मः “वां युवां प्राप्नुवन्निति शेषः । “समुद्रान् “सरितः च “पिपर्ति पूरयति वृष्टिद्वारा । “एतग्वा “चिन्न । चिदिति पूरणः । अश्वाविव यथा “सुयुजा सुष्ठु युक्तौ रथे भवतस्तथेत्यर्थः। नेत्युपमार्थे । तद्वद्युवां यज्ञे युजानः योजयन् यज्ञः । स एवं करोति ॥
यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
नि पर्व॑तस्य मू॒र्धनि॒ सदं॒तेषं॒ जना॑य दा॒शुषे॒ वहं॑ता ॥३
यानि॑ । स्थाना॑नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति॑ । दि॒वः । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।
नि । पर्व॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य । दा॒शुषे॑ । वह॑न्ता ॥३
यानि । स्थानानि । अश्विना । दधाथे इति । दिवः । यह्वीषु । ओषधीषु । विक्षु ।
नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता ॥३
हे “अश्विना युवां “दिवः द्युलोकादागत्य “यानि "स्थानानि “दधाथे कुरुथः । कुत्रेति उच्यते । “यह्वीषु महतीषु “ओषधीषु “विक्षु यजमानेषु च । तौ युवां “पर्वतस्य मेघस्यान्तरिक्षस्य वा "मूर्धनि स्थाने “नि “सदन्ता निषीदन्तौ “इषम् अन्नं “दाशुषे हविर्दात्रे “जनाय यजमानाय “वहन्ता प्रापयन्तौ भवतमिति शेषः ॥
च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णां ।
पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥४
च॒नि॒ष्टम् । दे॒वौ॒ । ओष॑धीषु । अ॒प्ऽसु । यत् । यो॒ग्याः । अ॒श्नवै॑थे॒ इति॑ । ऋषी॑णाम् ।
पु॒रूणि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूर्वा॑णि । च॒ख्य॒थुः॒ । यु॒गानि॑ ॥४
चनिष्टम् । देवौ । ओषधीषु । अप्ऽसु । यत् । योग्याः । अश्नवैथे इति । ऋषीणाम् ।
पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि ॥४
हे “देवा देवौ युवाम् “ओषधीषु ओषधिविकारांश्चरुपुरोडाशादिकान् “अप्सु सोमरसान् “चनिष्टम् । अत्यन्तकमनीयतमं कामयेथामित्यर्थः। “यत् यस्मात् "योग्याः युवयोरुचिता ओषधीरपश्च “ऋषीणां संबन्धिनीः “अश्नवैथे व्याप्नुथः तस्मादस्मदीया अपि कामयेथामित्यर्थः । यद्वा । ऋषीणामस्माकमिति पूजार्थं बहुवचनम् । यद्यस्मादोषधीष्वप्सु च चनिष्टं योग्याः स्तुतीश्चाश्नवैथे तस्मात् “अस्मे अस्मासु “पुरूणि बहूनि “रत्ना रमणीयानि धनानि “नि “दधतौ “पूर्वाणि "युगानि मिथुनानि जायापतिरूपाणि "अनु “चख्यथुः ख्यातवन्तौ । अनुकृष्टवन्तावनुग्रहार्थम् ॥
शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णां ।
प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥५
शु॒श्रु॒ऽवांसा॑ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि॑ । अ॒भि । ब्रह्मा॑णि । च॒क्षा॒थे॒ इति॑ । ऋषी॑णाम् ।
प्रति॑ । प्र । या॒त॒म् । वर॑म् । आ । जना॑य । अ॒स्मे इति॑ । वा॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥५
शुश्रुऽवांसा । चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथे इति । ऋषीणाम् ।
प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सुऽमतिः । चनिष्ठा ॥५
हे “अश्विना अश्विनौ । “चित् इति पूरणः । युवां “शुश्रुवांसा श्रुतवन्तौ सन्तौ “पुरूणि बहूनि “ब्रह्माणि परिवृढानि कर्माणि स्तुतिलक्षणानि “ऋषीणाम् अस्माकं संबन्धीनि “अभि “चक्षाथे अभिपश्यथो युवाम् । अतः “जनाय जनस्य यजमानस्य मम “वरं यज्ञं “प्रति “प्र “यातम् । “वां युवयोः “चनिष्ठा उक्तलक्षणा “सुमतिः अनुग्रहमतिः “अस्मे अस्मासु “अस्तु भवतु ॥
यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।
उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यंते यु॒वभ्यां॑ ॥६
यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति ।
उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥६
यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृतऽब्रह्मा । सऽमर्यः । भवाति ।
उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवऽभ्याम् ॥६
हे “नासत्या अश्विनौ “वां युवयोः “यः यज्ञः यजमानः “समर्यः ऋत्विग्रूपैर्मर्त्यैः सहितः सन् "हविष्मान् हविषा युक्तः “कृतब्रह्मा कृतस्तोत्ररूपकर्मा “भवाति भवति तं “वरं वरणीयं "वसिष्ठम् “आ “उप “प्र “यातं प्रकर्षेणोपागच्छतम् । “इमा इमानि “ब्रह्माणि मन्त्रजातानि “युवभ्यां युवाभ्यामर्थायागमनाय “ऋच्यन्ते स्तूयन्ते । क्रियन्त इत्यर्थः ।।
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७
इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७
इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
अथ सप्तम्या स्तुतिमुपसंहरति । हे “अश्विना अश्विनौ “इयं “मनीषा स्तुतिर्युवयोः कृतेति शेषः । तदेवादरार्थं पुनरुच्यते । “इयं “गीः स्तुतिः कृता । हे “वृषणा कामानां वर्षको "इमाम् अस्मत्कृतां “सुवृक्तिं शोभनां स्तुतिं "जुषेथां सेवेथाम् । “इमा इमानि “ब्रह्माणि कर्माणि स्तुतिरूपाणि युवयूनि युवां कामयमानानि सन्ति “अग्मन् गच्छन्तु युवाम् । यूयं पातेति सिद्धम् ॥ ॥ १७ ॥ ॥ ४ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|