प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.८१ ऋग्वेदः - मण्डल ७
सूक्तं ७.८२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.८३ →
दे. इन्द्रावरुणौ। जगती।


इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् ।
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥१॥
सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू ।
विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥२॥
अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् ।
इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥३॥
युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥४॥
इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना ।
क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥५॥
महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् ।
अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥६॥
न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन ।
यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥७॥
अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।
युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥८॥
अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।
यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥९॥
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥१०॥


सायणभाष्यम्

‘इन्द्रावरुणा' इति दशर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं जागतम् । इदमादीनि चत्वारि सूक्तानीन्द्रावरुणदेवतानि । तथा चानुक्रान्तम् - ‘इन्द्रावरुणा, दशैन्द्रावरुणं ह जागतं तु' इति । तृतीये सवन उक्थ्ये प्रशास्तुः शस्त्र एतत्सूक्तम् । सूत्रितं च -' इन्द्रावरुणा युवमा वां राजानौ' (आश्व. श्रौ. ६. १) इति ॥


इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।

दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्य॑ः ॥१

इन्द्रा॑वरुणा । यु॒वम् । अ॒ध्व॒राय॑ । नः॒ । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ।

दी॒र्घऽप्र॑यज्युम् । अति॑ । यः । व॒नु॒ष्यति॑ । व॒यम् । ज॒ये॒म॒ । पृत॑नासु । दुः॒ऽध्यः॑ ॥१

इन्द्रावरुणा । युवम् । अध्वराय । नः । विशे । जनाय । महि । शर्म । यच्छतम् ।

दीर्घऽप्रयज्युम् । अति । यः । वनुष्यति । वयम् । जयेम । पृतनासु । दुःऽध्यः ॥१

हे “इन्द्रावरुणा इन्द्रावरुणौ “युवं युवां “नः अस्माकं “विशे निवेशयित्रे परिचारकाय “जनाय पुत्रपौत्रादिलक्षणाय “अध्वराय यज्ञानुष्ठानार्थं "महि महत् “शर्म गृहं सुखं वा “यच्छतं प्रयच्छतम् । अपि च "दीर्घप्रयज्युं दीर्घप्रततयज्ञमस्मदीयं जनं “यः शत्रुः अति "वनुष्यति अतिजिघांसति “पृतनासु संग्रामेषु “दूढ्यः दुर्धियो दुष्टाभिसंधींस्ताञ्छत्रून् “वयं “जयेम अभिभवेम ॥


स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू ।

विश्वे॑ दे॒वास॑ः पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥२

स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू ।

विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥२

सम्ऽराट् । अन्यः । स्वऽराट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसू इति महाऽवसू ।

विश्वे । देवासः । परमे । विऽओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः ॥२

द्वितीयः पादः परोक्षकृतः शिष्टाः प्रत्यक्षकृताः । हे इन्द्रावरुणौ “वां युवयोर्मध्ये “अन्यः एको वरुणः “सम्राट् सम्यग्राजमान इति “उच्यते । ‘ता सम्राजा घृतासुती' (ऋ. सं. २, ४१. ६ ) इत्यादिषु कीर्त्यते । “अन्यः इन्द्रः “स्वराट् स्वयमेवान्यनिरपेक्षयैव राजमान इत्युच्यते । “स्वराळिन्द्रो दमे ' (ऋ. सं. १. ६१. ९) इत्यादिषु कीर्त्यते । तथाविधौ “इन्द्रावरुणा इन्द्रावरुणौ “महान्तौ गुणैरधिकौ "महावसू महाधनौ च भवतः । हे “वृषणा कामानां वर्षिताराविन्द्रावरुणौ “वां युवां “परमे “व्योमनि उत्कृष्टे आकाशे “विश्वे “देवासः सर्वे देवाः “ओजः “सं “दधुः समयोजयन् शरीरदार्ढ्याय । तद्धेतुभूतं तदोज इत्युच्यते । स्मर्यते च - ‘ओजो नामाष्टमी दशा ' इति । तथा "बलं वृत्रवधादेः कार्यस्य हेतुभूतं सामर्थ्यं च युवाभ्यां "सं दधुः समयोजयन् ॥


अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् ।

इन्द्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पित॒ः पिन्व॑तं॒ धिय॑ः ॥३

अनु॑ । अ॒पाम् । खानि॑ । अ॒तृ॒न्त॒म् । ओज॑सा । आ । सूर्य॑म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒ऽभुम् ।

इन्द्रा॑वरुणा । मदे॑ । अ॒स्य॒ । मा॒यिनः॑ । अपि॑न्वतम् । अ॒पितः॑ । पिन्व॑तम् । धियः॑ ॥३

अनु । अपाम् । खानि । अतृन्तम् । ओजसा । आ । सूर्यम् । ऐरयतम् । दिवि । प्रऽभुम् ।

इन्द्रावरुणा । मदे । अस्य । मायिनः । अपिन्वतम् । अपितः । पिन्वतम् । धियः ॥३

हे इन्द्रावरुणौ “अपाम् उदकानां “खानि द्वाराणि वृत्रेण पिहितानि “ओजसा बलेन “अनु “अतृन्तम् अन्वविध्यतम् । आवरकस्य वृत्रस्य वधेन वृष्टिप्रतिबन्धं निराकृतवन्तावित्यर्थः। तथा “सूर्यं सर्वस्य प्रेरकमादित्यं “दिवि अन्तरिक्षे “प्रभुं प्रभूतं सन्तम् “आ “ऐरयतम् अभ्यगमयतम् । स्वर्भानुनावृतं सूर्यं तद्वधेन प्रकाशितवन्तावित्यर्थः । हे "इन्द्रावरुणा इन्द्रावरुणौ “मायिनः प्रज्ञाकरस्य “अस्य सोमस्य पानेन “मदे हर्षे सति “अपितः जलरहिता नदीः “अपिन्वतं जलेनापूरयतम् । तथा च निवित्पदमाम्नायते-- अस्य मदे जरितरिन्द्रोऽजिन्वदजुवोऽपिन्वदपितः' (शां. श्रौ. ८. २५. १) इति । अपि च “धियः कर्माण्यस्माभिरनुष्ठितानि कर्माणि “पिन्वतं सिञ्चतं फलेन पूरयतम् ॥


यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः ।

ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा॑वरुणा सु॒हवा॑ हवामहे ॥४

यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः ।

ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥४

युवाम् । इत् । युत्ऽसु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्रऽसवे । मितऽज्ञवः ।

ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सुऽहवा । हवामहे ॥४

हे इन्द्रावरुणौ "वह्नयः हविषां स्तोत्राणां वा वोढार ऋत्विजः "युत्सु युद्धेषु "पृतनासु शत्रुसेनासु रक्षणार्थं “युवामित् युवामेव हवन्ते आह्वयन्ति । “मितज्ञवः संकुचितजानुका अङ्गिरसोऽपि “क्षेमस्य रक्षणस्य “प्रसवे उत्पादने निमित्तभूते सति “युवाम् एव हवन्ते । अतः कारणात् हे इन्द्रावरुणौ “कारवः स्तोतारो वयमपि “उभयस्य दिव्यस्य पार्थिवस्य च “वस्वः वसुनो धनस्य “ईशाना ईश्वरौ "सुहवा सुखेन ह्वातव्यौ युवामेव “हवामहे आह्वयामहे ।।


इन्द्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ ।

क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥५

इन्द्रा॑वरुणा । यत् । इ॒मानि॑ । च॒क्रथुः॑ । विश्वा॑ । जा॒तानि॑ । भुव॑नस्य । म॒ज्मना॑ ।

क्षेमे॑ण । मि॒त्रः । वरु॑णम् । दु॒व॒स्यति॑ । म॒रुत्ऽभिः॑ । उ॒ग्रः । शुभ॑म् । अ॒न्यः । ई॒य॒ते॒ ॥५

इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना ।

क्षेमेण । मित्रः । वरुणम् । दुवस्यति । मरुत्ऽभिः । उग्रः । शुभम् । अन्यः । ईयते ॥५

हे इन्द्रावरुणौ “यत् यौ युवां “भुवनस्य लोकस्य संबन्धीनि “इमानि परिदृश्यमानानि “विश्वा सर्वाणि “जातानि जनिमन्ति भूतजातानि “मज्मना आत्मीयेन बलेन “चक्रथुः कृतवन्तौ तयोर्युवयोर्मध्य एकं “वरुणं “क्षेमेण रक्षणहेतुना “मित्रः देवः “दुवस्यति परिचरति । मित्रावरुणौ हि परस्परं प्राप्तसख्यौ । अत एव सहचरौ दृश्येते। “अन्यः एक इन्द्रः “मरुद्भिः मरुद्गणैः “उग्रः उद्गूर्णबलः सन् “शुभं शोभनमलंकारम् “ईयते प्राप्नोति । यद्वा । मरुद्भिर्मध्यस्थानैर्देवगणैः सार्धमुग्र ओजस्वीन्द्रः शुभमुदकमीयते प्रेरयति ॥ ॥ २ ॥


म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् ।

अजा॑मिम॒न्यः श्न॒थय॑न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥६

म॒हे । शु॒ल्काय॑ । वरु॑णस्य । नु । त्वि॒षे । ओजः॑ । मि॒मा॒ते॒ इति॑ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।

अजा॑मिम् । अ॒न्यः । श्न॒थय॑न्तम् । आ । अति॑रत् । द॒भ्रेभिः॑ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय॑सः ॥६

महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमाते इति । ध्रुवम् । अस्य । यत् । स्वम् ।

अजामिम् । अन्यः । श्नथयन्तम् । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोति । भूयसः ॥६

“वरुणस्य । उपलक्षणमेतत् । इन्द्रस्य वरुणस्य च “त्विषे दीप्त्यर्थम् "ओजः बलं “नु क्षिप्रं “मिमाते स्तोत्रेण निर्मिमाते यजमानपत्न्यौ। स्तोत्रेण हि बलं जायते । किमर्थम् । “महे महते “शुल्काय धनाय । ईदृशस्य धनस्य लाभार्थम् । “अस्य इन्द्रस्य वरुणस्य च “ध्रुवं नित्यं “स्वं स्वकीयमसाधारणं “यत् ओजः विद्यते तदोजो मिमात इत्यन्वयः। तयोरिन्द्रावरुणयोः “अन्यः एको वरुणः “अजामिम् अबन्धुमस्तुवन्तं “श्नथयन्तं हिंसन्तं कर्माण्यकुर्वन्तमस्तोतारमयजमानं च “आतिरत् अभिहन्ति । “अन्यः एक इन्द्रः “दभ्रेभिः अल्पैरेवोपायैः “भूयसः बहुतराञ्छत्रून् “प्र “वृणोति प्रकर्षेणावृतान् बाधितान् करोति । यद्वा । भूयसो यजमानान् प्र वृणोति प्रवरानुत्कृष्टान् करोति ॥


न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा॑वरुणा॒ न तप॒ः कुत॑श्च॒न ।

यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥७

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तानि॑ । मर्त्य॑म् । इन्द्रा॑वरुणा । न । तपः॑ । कुतः॑ । च॒न ।

यस्य॑ । दे॒वा॒ । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त॑स्य । न॒श॒ते॒ । परि॑ऽह्वृतिः ॥७

न । तम् । अंहः । न । दुःऽइतानि । मर्त्यम् । इन्द्रावरुणा । न । तपः । कुतः । चन ।

यस्य । देवा । गच्छथः । वीथः । अध्वरम् । न । तम् । मर्तस्य । नशते । परिऽह्वृतिः ॥७

हे "इन्द्रावरुणा इन्द्रावरुणौ “तं "मर्त्यं मनुष्यम् “अंहः पापं “न “नशते न व्याप्नोति । “न च “दुरितानि दुर्गमनानि पापफलानि च प्राप्नुवन्ति । “कुतश्चन कस्मादपि निमित्तात् “तपः संतापश्च तं “न प्राप्नोति । हे देवा देवौ दानादिगुणयुक्ताविन्द्रावरुणौ “यस्य “मर्त्यस्य मनुष्यस्य “अध्वरं यज्ञं “गच्छथः प्राप्नुथो युवां “वीथः कामयेथे च यस्य हवींषि “तं मनुष्यं “परिह्वृतिः परिबाधा “न नशते उक्तप्रकारेण न व्याप्नोति ॥


अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।

यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमि॑न्द्रावरुणा॒ नि य॑च्छतम् ॥८

अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः ।

यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥८

अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः ।

युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम् ॥८

हे “नरा नेताराविन्द्रावरुणौ “दैव्येन देवसंबन्धिना “अवसा रक्षणेन सह “अर्वाक् अस्मदभिमुखम् "आ “गतम् आगच्छतम् । आगत्य च मदीयं “हवं स्तोत्रं शृणुतम् । “यदि “मे मम “जुजोषथः प्रीयेथे । मयि प्रीतिरस्ति चेत् युवाभ्यामागन्तव्यं मदीयं स्तोत्रं श्रोतव्यं च भवतीत्यर्थः । “युवोर्हि युवयोः खलु यत् “सख्यं सखित्वम् "उत “वा अपि च “यत् "आप्यम् अपित्वं बान्धवं “मार्डीकं मृडीकस्य सुखस्य साधनं तदुभयं हे इन्द्रावरुणौ “नि “यच्छतम् अस्मभ्यं प्रयच्छतम् ॥


अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा ।

यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥९

अ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ ।

यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥९

अस्माकम् । इन्द्रावरुणा । भरेऽभरे । पुरःऽयोधा । भवतम् । कृष्टिऽओजसा ।

यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु ॥९

हे "कृष्ट्योजसा शत्रूणां कर्षकमोजो बलं ययोस्तादृशौ हे इन्द्रावरुणौ “भरेभरे संग्रामे संग्रामे “अस्माकं “पुरोयोधा पुरस्ताद्योद्धारौ “भवतम् । “यत् यौ “वाम् युवाम् “उभये उभयविधाः पूर्वकालीना इदानींतनाश्च “नरः नेतारः स्तोतारः “स्पृधि युद्धे यौ युवां “हवन्ते । “अध अपि च “तोकस्य पुत्रस्य “तनयस्य पौत्रस्य “सातिषु संभजनीयेषु निमित्तभूतेषु च यौ युवां हवन्ते । तावस्माकं पुरोयोधा भवंतमित्यन्वयः ॥


अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑ः ।

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥१०

अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।

अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥१०

अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।

अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥१०

“अस्मे अस्मभ्यमिन्द्रादयः “द्युम्नं द्योतमानं धनं “यच्छन्तु प्रयच्छन्तु । तथा “महि महत् “सप्रथः सर्वतः पृथु विस्तीर्णं “शर्म गृहं च प्रयच्छन्तु । अपि च "ऋतावृधः ऋतस्य यज्ञस्य वर्धयित्र्याः “अदितेः अदीनाया देवमातुः "ज्योतिः तेजश्च नोऽस्माकम् “अवध्रम् अहिंसकमस्तु । वयं च "देवस्य दानादिगुणयुक्तस्य “सवितुः सर्वस्य प्रेरकस्य “श्लोकं स्तोत्रं “मनामहे जानीमः । कुर्म इत्यर्थः। यद्वा । देवेन सवित्रास्मभ्यं देयं श्लोकं यशो मनामहे याचामहे ॥ ॥ ३ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८२&oldid=201264" इत्यस्माद् पुनः प्राप्तिः