ऋग्वेदः सूक्तं ७.८०
← सूक्तं ७.७९ | ऋग्वेदः - मण्डल ७ सूक्तं ७.८० मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.८१ → |
दे. उषसः। त्रिष्टुप्। |
प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।
विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥१॥
एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥२॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥३॥
सायणभाष्यम्
‘प्रति स्तोमेभिः' इति तृचात्मकं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यम् । ‘प्रति तृचम् इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् ।
वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥१
प्रति॑ । स्तोमे॑भिः । उ॒षस॑म् । वसि॑ष्ठाः । गीः॒ऽभिः । विप्रा॑सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् ।
वि॒ऽव॒र्तय॑न्तीम् । रज॑सी॒ इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । आ॒विः॒ऽकृ॒ण्व॒तीम् । भुव॑नानि । विश्वा॑ ॥१
प्रति । स्तोमेभिः । उषसम् । वसिष्ठाः । गीःऽभिः । विप्रासः । प्रथमाः । अबुध्रन् ।
विऽवर्तयन्तीम् । रजसी इति । समन्ते इति सम्ऽअन्ते । आविःऽकृण्वतीम् । भुवनानि । विश्वा ॥१
“विप्रासः मेधाविनः “वसिष्ठाः वसिष्ठगोत्राः “स्तोमेभिः स्तोतृभिः प्रयुज्यमानाः “गीर्भिः स्तुतिभिः “प्रथमाः इतरयजमानेभ्यः पूर्वभूताः सन्तः “उषसं “प्रति “अबुध्रन् प्रतिबोधयन्ति । कीदृशीमुषसं च । “रजसी द्यावापृथिव्यौ "समन्ते समानपर्यन्ते एकीभूतप्रान्ते “विवर्तयन्तीं व्यावर्तयन्तीं “विश्वा सर्वाणि “भुवनानि भूतजातानि “आविष्कृण्वतीं प्रकटीकुर्वतीं स्वभासा ॥
ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि ।
अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥२
ए॒षा । स्या । नव्य॑म् । आयुः॑ । दधा॑ना । गू॒ढ्वी । तमः॑ । ज्योति॑षा । उ॒षाः । अ॒बो॒धि॒ ।
अग्रे॑ । ए॒ति॒ । यु॒व॒तिः । अह्र॑याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् ॥२
एषा । स्या । नव्यम् । आयुः । दधाना । गूढ्वी । तमः । ज्योतिषा । उषाः । अबोधि ।
अग्रे । एति । युवतिः । अह्रयाणा । प्र । अचिकितत् । सूर्यम् । यज्ञम् । अग्निम् ॥२
“एषा “उषाः "स्या सा गतदिवसेषु प्रसिद्धा दृश्यमानैषा “नव्यं नवतरम् “आयुः आयुष्यम् । यौवनमित्यर्थः। तादृशं “दधाना धारयन्ती “गूढ़्वी गूढं “तमः अन्धकारं “ज्योतिषा स्वतेजसा निवारयन्ती “अबोधि बुध्यते । “अग्रे पुरोदेशे सूर्यस्य पुरस्ताद्देवानामग्रे वा । इतरदेवेभ्यः पूर्वमित्यर्थः । “युवतिः नित्यतरुणी सर्वत्र मिश्रयन्ती वा अह्रयाणा । लुप्तोपमैषा । अलज्जा युवतिरिव । सा यथा पत्युरग्रे संचरति तद्वत् सूर्यस्य पुरस्तात् “एति । एवंभूता सती “सूर्यं “यज्ञमग्निं च “प्राचिकितत् प्रज्ञापयति ।।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒ः सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒ः प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥३
अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३
अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः । सदम् । उच्छन्तु । भद्राः ।
घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३
“अश्वावतीः बहुभिरस्मभ्यं प्रदेयैरश्वैस्तद्वत्यः तथा “गोमतीः गोमत्यो गोप्रदाः “वीरवतीः वीरवत्यः पुत्रप्रदा अत एव “भद्राः स्तुत्याः “उषासः उषसः “सदं सर्वदा “उच्छन्तु। पुनः कीदृश्यः । “घृतम् उदकं “दुहानाः दोग्ध्र्यः “विश्वतः “प्रपीताः सर्वतः प्रवृद्धाः । यूयं पातेति गतम् ॥ ॥२७॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टमे पञ्चमोऽध्यायः समाप्तः ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|