ऋग्वेदः सूक्तं ७.१०
← सूक्तं ७.९ | ऋग्वेदः - मण्डल ७ सूक्तं ७.१० मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.११ → |
दे. अग्निः। त्रिष्टुप्। |
उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥१॥
स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।
अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥२॥
अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥३॥
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् ।
आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥४॥
मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।
स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥५॥
सायणभाष्यम्
‘उषो न जारः' इति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रान्तम्’ उषो न पञ्च' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः ।
वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥१
उ॒षः । न । जा॒रः । पृ॒थु । पाजः॑ । अ॒श्रे॒त् । दवि॑द्युतत् । दीद्य॑त् । शोशु॑चानः ।
वृषा॑ । हरिः॑ । शुचिः॑ । आ । भा॒ति॒ । भा॒सा । धियः॑ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति॑ ॥१
उषः । न । जारः । पृथु । पाजः । अश्रेत् । दविद्युतत् । दीद्यत् । शोशुचानः ।
वृषा । हरिः । शुचिः । आ । भाति । भासा । धियः । हिन्वानः । उशतीः । अजीगरिति ॥१
अग्निः “उषो “न “जारः उषसो जारः सूर्यस्तद्वत् "पृथु विस्तीर्णं “पाजः तेजः “अश्रेत् श्रयति । किंच “दविद्युतत् "दीद्यत् "शोशुचानः इति त्रयोऽपि शब्दा यद्यपि दीप्तिकर्माणः तथापि दीप्तेः भूयस्त्वज्ञापनाय प्रयुक्ता इति न पुनरुक्तिः । अत्यन्तं दीप्यमान इत्यर्थः । “वृषा कामानां वर्षिता “हरिः हविषां प्रेरकः “शुचिः शुद्धिकृदग्निः “धियः कर्माणि “हिन्वानः प्रेरयन् “भासा दीप्त्या “आ “भाति प्रकाशते । अपि च “उशतीः कामयमानाः "अजीगः जागरयति । तमसा तिरोहिताः प्रजा उद्गिरति वा ॥
स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ ।
अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वांद्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥२
स्वः॑ । न । वस्तोः॑ । उ॒षसा॑म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः॑ । न । मन्म॑ ।
अ॒ग्निः । जन्मा॑नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒ऽयावा॑ । वनि॑ष्ठः ॥२
स्वः । न । वस्तोः । उषसाम् । अरोचि । यज्ञम् । तन्वानाः । उशिजः । न । मन्म ।
अग्निः । जन्मानि । देवः । आ । वि । विद्वान् । द्रवत् । दूतः । देवऽयावा । वनिष्ठः ॥२
अग्निः “वस्तोः अहनि । “वस्तोः द्युः' इत्यहर्नामसु पाठात् । “उषसाम् अग्रे “स्वर्ण आदित्य इव । तथा च यास्कः----‘स्वरादित्यो भवति सु अरणः सु ईरणः ' ( निरु. २:१४ ) इति । “अरोचि दीप्यते । “उशिजो “न ऋत्विजश्च “यज्ञं “तन्वानाः विस्तारयन्तः “मन्म मन्मानि मननीयानि स्तोत्राणि पठन्तीति शेषः । नेति संप्रत्यर्थे । अपि च “विद्वान् जानन् “दूतः देवानां "देवयावा देवान् प्रति गच्छन् “वनिष्ठः दातृतमः “अग्निः वि “आ “द्रवत् विविधमाद्रवति ।।
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यंती॑र॒ग्निं यं॑ति॒ द्रवि॑णं॒ भिक्ष॑माणाः ।
सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वंचं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणां ॥३
अच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः ।
सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥३
अच्छ । गिरः । मतयः । देवऽयन्तीः । अग्निम् । यन्ति । द्रविणम् । भिक्षमाणाः ।
सुऽसन्दृशम् । सुऽप्रतीकम् । सुऽअञ्चम् । हव्यऽवाहम् । अरतिम् । मानुषाणाम् ॥३
“मतयः स्तुतिरूपाः “देवयन्तीः देवानिच्छन्त्यः “द्रविणं धनं “भिक्षमाणाः याचमानाः “गिरः वाचः “सुसंदृशं कल्याणसंदर्शनं “सुप्रतीकं सुरूपं शोभनाङ्गं वा “स्वञ्चं सुष्ुु गच्छन्तं “हव्यवाहं हव्यानां वोढारं “मानुषाणाम् “अरतिं स्वामिनम् “अग्निम् “अच्छ अभि "यन्ति अभिगच्छन्ति ॥
इंद्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हंतं॑ ।
आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रं ॥४
इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥४
इन्द्रम् । नः । अग्ने । वसुऽभिः । सऽजोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् ।
आदित्येभिः । अदितिम् । विश्वऽजन्याम् । बृहस्पतिम् । ऋक्वऽभिः । विश्वऽवारम् ॥४
हे “अग्ने “वसुभिः देवैः “सजोषाः संगतस्त्वं “नः अस्मदर्थम् “इन्द्रम् “आ “वह। “रुद्रेभिः रुदैर्देवैः संगतः “बृहन्तं महान्तं “रुद्रं चा वह। “आदित्येभिः आदित्यैर्देवैः संगतः “विश्वजन्यां विश्वजनहिताम् “अदितिं चा वह । “ऋक्वभिः स्तुत्यैः अङ्गिरोभिर्देवैः संगतः “विश्ववारं विश्वैः संभजनीयं “बृहस्पतिं चा वह ॥
मं॒द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।
स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामतं॑द्रो दू॒तो य॒जथा॑य दे॒वान् ॥५
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । यवि॑ष्ठम् । अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु॑ ।
सः । हि । क्षपा॑ऽवान् । अभ॑वत् । र॒यी॒णाम् । अत॑न्द्रः । दू॒तः । य॒जथा॑य । दे॒वान् ॥५
मन्द्रम् । होतारम् । उशिजः । यविष्ठम् । अग्निम् । विशः । ईळते । अध्वरेषु ।
सः । हि । क्षपाऽवान् । अभवत् । रयीणाम् । अतन्द्रः । दूतः । यजथाय । देवान् ॥५
“उशिजः कामयमानाः “विशः मनुष्याः “मन्द्रं स्तुत्यं “होतारम् आह्वातारं “यविष्ठं युवतमम् “अग्निम् “अध्वरेषु यागेषु “ईळते स्तुवन्ति । “हि यस्मात् कारणात् “सः अग्निः “क्षपावान् रात्रिमान् । रात्रौ खल्वग्नयेऽग्निहोत्रं हूयते । “रयीणां रयिमतां हविष्मतां यजमानानां “देवान् “यजथाय यष्टुम् “अतन्द्रः तन्द्रारहितः “दूतः “अभवत् । तथा च श्रूयते – यस्माद्दूतोऽभवत्तस्माद्विशस्तमध्वर ईळते' इति ॥ ॥ १३ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|