प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.१९ ऋग्वेदः - मण्डल ७
सूक्तं ७.२०
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२१ →
दे. इन्द्रः। त्रिष्टुप्।


उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् ।
जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥१॥
हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती ।
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥
युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः ।
व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥३॥
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः ।
नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥४॥
वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव ।
प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥५॥
नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् ।
यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥६॥
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् ।
अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥७॥
यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते ।
वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥८॥
एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट ।
रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥९॥
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ तृतीयोऽध्याय आरभ्यते । “उग्रो जज्ञे' इति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते- उग्रो दश' इति । आभिप्लविके चतुर्थेऽहनि निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च -- चतुर्थस्योग्रो जज्ञ इति निष्केवल्यम्' (आश्व. श्रौ. ७. ७ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम्- उग्रो जज्ञे वीर्याय स्वधावानुदु ब्रह्माण्यैरत श्रवस्या' (ऐ. आ. ५. २. २.) इति । सौमिकचातुर्मास्येषु वैश्वदेवस्य स्थाने प्रथमं पृष्ठ्यमहः । तत्रापि निष्केवल्य एतत्सूक्तं निविद्धानम्। सूत्रितं च - ‘जनिष्ठा उग्र उग्रो जज्ञ इति मध्यंदिनः' (आश्व. श्रौ. ९:२) इति ॥


उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।

जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ॥१

उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् ।

जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥१

उग्रः । जज्ञे । वीर्याय । स्वधाऽवान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् ।

जग्मिः । युवा । नृऽसदनम् । अवःऽभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥१

“स्वधावान् बलवान् उग्रः ओजस्वी उद्गूर्णो वा “इन्द्रः "वीर्याय वीर्यं कर्तुं "जज्ञे बभूव । “नर्यः नरहितः सन् यत् कर्म करिष्यन् भवति तत् "अपः कर्म चक्रिः कर्तैव ॥ चक्रिः इति किन्प्रत्ययस्य लिड्वद्भावात् ‘न लोकाव्ययनिष्ठाखलर्थतृनाम् ' इति षष्ठीप्रतिषेधः ॥ अपि च “नृषदनं यज्ञगृहं “युवा नित्यतरुणः सन् “अवोभिः रक्षणैः सार्धं "जग्मिः गन्ता "महश्चित् महतोऽपि “एनसः पापात् "नः अस्माकं “त्राता रक्षिता च भवेति ।।


हन्ता॑ वृ॒त्रमिन्द्र॒ः शूशु॑वान॒ः प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।

कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥२

हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती ।

कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥२

हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती ।

कर्ता । सुऽदासे । अह । वै । ऊं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥२

“इन्द्रः “शूशुवानः वर्धमानः सन् "वृत्रम् असुरम् “हन्ता भवति ॥ तृन्नन्तत्वादत्र षष्ठ्यभावः ॥ “वीरः वीरः सन् “जरितारं स्तोतारं “नु क्षिप्रम् “ऊती ऊत्या रक्षया “प्रावीत् प्रारक्षञ्च । “सुदासे राज्ञे “लोकं जनपदं “कर्ता च । यद्वा । सुदासे कल्याणदानाय यजमानाय लोकं कर्ता च भवति ॥ इहाप्युत्तरत्रापि तृन्नन्तत्वात् षष्ठ्यभावः ॥ “अह “वा “उ इति त्रयः पूरणाः । “दाशुषे यजमानाय “वसु धनं "मुहुः भूयो भूयः “दाता च “भूत् अभूत् । “आ इति चार्थे ।


यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूर॑ः सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः ।

व्या॑स॒ इन्द्र॒ः पृत॑ना॒ः स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यन्तं॑ जघान ॥३

यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । शूरः॑ । स॒त्रा॒षाट् । ज॒नुषा॑ । ई॒म् । अषा॑ळ्हः ।

वि । आ॒से॒ । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । अध॑ । विश्व॑म् । श॒त्रु॒ऽयन्त॑म् । ज॒घा॒न॒ ॥३

युध्मः । अनर्वा । खजऽकृत् । समत्ऽवा । शूरः । सत्राषाट् । जनुषा । ईम् । अषाळ्हः ।

वि । आसे । इन्द्रः । पृतनाः । सुऽओजाः । अध । विश्वम् । शत्रुऽयन्तम् । जघान ॥३

"युध्मः योद्धा “अनर्व अभिगन्तृरहितो युद्धेष्वपराङ्मुखो वा “खजकृत् युद्धकृत् । ‘खले खजे ' इति युद्धनामसु पाठात् । “समद्वा । समत् कलहः। तद्वान् “शूरः शौर्योपेतः "जनुषा जन्मना स्वभावत एव सत्राषाट् बहूनामभिभविता “अषाळ्हः स्वयं च केनाप्यनभिभूतः “स्वोजाः सुबलः "ईम् अयम् “इन्द्रः “पृतनाः शत्रूणां सेनाः “व्यासे विक्षिपति । "अध अपि च "शत्रूयन्तं शात्रवमाचरन्तं “विश्वं सर्वं “जघान हन्ति ।


उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः ।

नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥४

उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ ।

नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥४

उभे इति । चित् । इन्द्र । रोदसी इति । महिऽत्वा । आ । पप्राथ । तविषीभिः । तुविष्मः ।

नि । वज्रम् । इन्द्रः । हरिऽवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥४

हे "तुविष्मः बहुधन “इन्द्र “महित्वा महत्त्वेन “तविषीभिः बलैश्च “उभे “चित् उभे अपि "रोदसी द्यावापृथिव्यौ “आ "पप्राथ आपूरितवानसि। अथ परोक्षस्तुतिः। "हरिवान् अश्ववान् “इन्द्रः “वज्रं “नि “मिमिक्षन् शत्रुषु प्रापयन् “मदेषु यज्ञेषु निवित्सु वा “अन्धसा सोमेन “सम् “उवोच संसेव्यते संगच्छते वा ॥ ‘उच समवाये' इति धातुः । "वै इति पूरणः ॥


वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव ।

प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑ण॒ः स धृ॒ष्णुः ॥५

वृषा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑य । तम् । ऊं॒ इति॑ । चि॒त् । नारी॑ । नर्य॑म् । स॒सू॒व॒ ।

प्र । यः । से॒ना॒ऽनीः । अध॑ । नृऽभ्यः॑ । अस्ति॑ । इ॒नः । सत्वा॑ । गो॒ऽएष॑णः । सः । धृ॒ष्णुः ॥५

वृषा । जजान । वृषणम् । रणाय । तम् । ऊं इति । चित् । नारी । नर्यम् । ससूव ।

प्र । यः । सेनाऽनीः । अध । नृऽभ्यः । अस्ति । इनः । सत्वा । गोऽएषणः । सः । धृष्णुः ॥५

“वृषा सेक्ता पिता कश्यपः “वृषणं कामानां वर्षितारमिन्द्रं “रणाय युद्धार्थं “जजान । ‘जन जनने ' इति धातुः । “नर्यं नरहितं “तमु तमेवेन्द्रं “नारी “चित् अदितिरपि “ससूव सुषुवे। “अध अपि च “यः इन्द्रः “नृभ्यः नृणां “सेनानीः सेनानां नेता सन् “प्र “अस्ति प्रभवति “सः इन्द्रः “इनः सर्वस्य जगत ईश्वरो भवति । ' नियुत्वान् इनः' इति ईश्वरनामसु पाठात् । “सत्वा शत्रूणां सादकश्च “गवेषणः गवामन्वेष्टा च “धृष्णुः शत्रूणां धर्षकश्च भवतीति शेषः ॥ ॥ १ ॥


नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।

य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥६

नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् ।

य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥६

नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आऽविवासात् ।

यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतऽपाः । ऋतेऽजाः ॥६

"यः जनः “अस्य इन्द्रस्य “घोरं शत्रूणां बाधकं “मनः “यज्ञैः "आविवासात् परिचरति “सः “जनः । नु इति प्रतिषेधे वर्तते । चिदित्येवकारार्थे । "नू “चित् नैव “भ्रेषते स्थानान्न भ्रश्यति । “न “रेषत् नैव क्षीयेत । अपि च “यः जनः “दुवांसि परिचरणसाधनानि स्तोत्रशस्त्राणि “इन्द्रे “दधते निधत्ते तस्मै जनाय “ऋतपाः यज्ञपाता “ऋतेजाः यज्ञे जातश्च “सः इन्द्रः “राये धनाय “क्षयत् निवसति । भवेदित्यर्थः ॥


यदि॑न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णम् ।

अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं न॑ः ॥७

यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शिक्ष॑न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् ।

अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥७

यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् ।

अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥७

हे “चित्र चायनीय "इन्द्र “यत् धनं "पूर्वः पिता ज्येष्ठो भ्राता वा “अपराय पुत्राय कनीयसे वा “शिक्षन् प्रयच्छन् । शिक्षतिर्दानकर्मा ‘प्रीणाति शिक्षति' इति दानकर्मसु पाठात् । भवतीति शेषः। यच्च "देष्णं देयं धनं "ज्यायान् ज्येष्ठः “कनीयसः "अयत् प्राप्नुयात् । यच्चापि धनं पितृतो लब्ध्वा पुत्रः “अमृत “इत् अमृत एव सन् पितृगृहं विहाय “दूरं “पर्यासीत आस्ते तत्त्रिविधं “चित्र्यं चायनीयं “रयिं धनं "नः अस्मभ्यम् “आ “भर आहर ॥


यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिव॒ः सखा॑ ते ।

व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठा॒ः स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥८

यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ ।

व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्याम॑ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥८

यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रिऽवः । सखा । ते ।

वयम् । ते । अस्याम् । सुऽमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृऽपीतौ ॥८

हे “इन्द्र “यः "ते तुभ्यं “प्रियः सखा “जनः “ददाशत् हवींषि दद्यात् हे “अद्रिवः सः “सखा “ते तव “निरेके दाने “असत् स्यात् । “वयं च वसिष्ठाः “अघ्नतः अहिंसतः “ते तव “अस्यां "सुमतौ अनुग्रहबुद्धौ वर्तमानाः “चनिष्ठाः स्तुतिमत्तरा अतिशयेनान्नवन्तो वा । चनोऽन्नम्। "नृपीतौ नृणां रक्षके “वरूथे गृहे वरणीये वा धने “स्याम वसेम भवेम वा ॥


ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट ।

रा॒यस्कामो॑ जरि॒तारं॑ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ॥९

ए॒षः । स्तोमः॑ । अ॒चि॒क्र॒द॒त् । वृषा॑ । ते॒ । उ॒त । स्ता॒मुः । म॒घ॒ऽव॒न् । अ॒क्र॒पि॒ष्ट॒ ।

रा॒यः । कामः॑ । ज॒रि॒तार॑म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः॑ । आ । श॒कः॒ । नः॒ ॥९

एषः । स्तोमः । अचिक्रदत् । वृषा । ते । उत । स्तामुः । मघऽवन् । अक्रपिष्ट ।

रायः । कामः । जरितारम् । ते । आ । अगन् । त्वम् । अङ्ग । शक्र । वस्वः । आ । शकः । नः ॥९

हे “मघवन् धनवन्निन्द्र "ते त्वदर्थं “वृषा सेक्ता “एषः “स्तोमः सोमः सूयमानः “अचिक्रदत् क्रन्दति । "उत अपि च "स्तामुः स्तोता “अक्रपिष्ट अस्तौत् । अपि च हे “शक्र “ते तव “जरितारं स्तोतारं मां “रायः धनस्य “कामः अभिलाषः “आगन् आगतः । अतः “त्वं “वस्वः धनम् । कर्मणि षष्ठी । “नः अस्मभ्यम् “अङ्ग क्षिप्रम् “आ “शकः धेहि ॥


स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।

वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१०

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।

वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१०

सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।

वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०

हे "इन्द्र "सः त्वं “त्वयताया “इषे त्वया दत्तमन्नं भोक्तुं “नः अस्मान् “धाः धारय । "ये "च “मघवानः हविष्मन्तः “त्मना स्वयमेव “जुनन्ति हवींषि त्वां प्रति प्रेरयन्ति तानपि त्वयताया इषे धाः । अपि च वस्वीषु अत्यन्तं प्रशस्तासु स्तुतिषु “ते तव "जरित्रे स्तोत्रे मह्यं “शक्तिः सामर्थ्यम् “अस्तु । यद्वा । जरित्रे मह्यं ते तव वस्वी षु प्रशस्ता शक्तिर्दानमस्तु । स्पष्टमन्यत् ॥ ॥ २ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२०&oldid=189284" इत्यस्माद् पुनः प्राप्तिः