← सूक्तं ७.९६ ऋग्वेदः - मण्डल ७
सूक्तं ७.९७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९८ →
दे. १ इन्द्रः, २, ४-८ बृहस्पतिः, ३, ९ इन्द्राब्रह्मणस्पती, १० इन्द्राबृहस्पती। त्रिष्टुप्।


यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥१॥
आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः ।
यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥२॥
तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे ।
इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥३॥
स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥४॥
तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥५॥
तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥६॥
स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः ।
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥७॥
देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा ।
दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥८॥
इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि ।
अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥९॥
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१०॥

सायणभाष्यम्

‘यज्ञे दिवः' इति दशर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम् । प्रथमैन्द्री तृतीयानवम्योरिन्द्राब्रह्मणस्पती देवता दशम्या इन्द्राबृहस्पती शिष्टानां तु बृहस्पतिः । तथा चानुक्रान्तं - यज्ञे दशैन्द्र्यादि बार्हस्पत्यमन्त्यैन्द्री च तृतीयानवम्यावैन्द्राब्राह्मणस्पत्ये' इति। आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदमुत्तरं च सूक्तमावापार्थम् । सूत्रितं च–“यज्ञे दिवः' (आश्व. श्रौ. ७. ९) इति ॥


य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।

इन्द्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥१

य॒ज्ञे । दि॒वः । नृ॒ऽसद॑ने । पृ॒थि॒व्याः । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।

इन्द्रा॑य । यत्र॑ । सव॑नानि । सु॒न्वे । गम॑त् । मदा॑य । प्र॒थ॒मम् । वयः॑ । च॒ ॥१

यज्ञे । दिवः । नृऽसदने । पृथिव्याः । नरः । यत्र । देवऽयवः । मदन्ति ।

इन्द्राय । यत्र । सवनानि । सुन्वे । गमत् । मदाय । प्रथमम् । वयः । च ॥१

"यत्र यस्मिन् यज्ञे "देवयवः देवान् कामयमानाः "नरः नेतार ऋत्विजः "मदन्ति हृष्यन्ति "यत्र यस्मिंश्च "सवनानि अभिषोतव्याः सोमाः “इन्द्राय इन्द्रार्थं "सुन्वे अभिषूयन्ते "पृथिव्याः संबन्धिनि "नृषदने नृणां नेतॄणां सदनभूते तस्मिन् "यज्ञे “प्रथमं सर्वेभ्यो देवेभ्यः पूर्वं "दिवः द्युलोकात् "गमत् आगच्छतु । किमर्थम् । "मदाय मदार्थम् । सोमं पातुमित्यर्थः। तथा “वयश्च गन्तारस्तदीया अश्वाश्च गमत् आगच्छन्तु ॥


आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः ।

यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥२

आ । दैव्या॑ । वृ॒णी॒म॒हे॒ । अवां॑सि । बृह॒स्पतिः॑ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ ।

यथा॑ । भवे॑म । मी॒ळ्हुषे॑ । अना॑गाः । यः । नः॒ । दा॒ता । प॒रा॒ऽवतः॑ । पि॒ताऽइ॑व ॥२

आ । दैव्या । वृणीमहे । अवांसि । बृहस्पतिः । नः । महे । आ । सखायः ।

यथा । भवेम । मीळ्हुषे । अनागाः । यः । नः । दाता । पराऽवतः । पिताऽइव ॥२

हे "सखायः समानख्यानाः स्तोतारो वयं "दैव्या दैव्यानि देवसंबन्धीनि "अवांसि रक्षणानि “आ “वृणीमहे अभिभजामहे प्रार्थयामहे । “नः अस्माकं हविः “बृहस्पतिः बृहतां पालयिता देवः “आ “महे । महतिर्दानार्थः । आमहते आदत्ते । लोपस्त आत्मनेपदेषु' इति तलोपः। "यः बृहस्पतिः “परावतः दूरदेशाद्धनान्याहृत्य पुत्रेभ्यः "पितेव "नः अस्मभ्यं "दाता भवति तस्मै “मीळ्हुषे सेक्त्रे बृहस्पतये "अनागाः अनागस अनपराधाः "यथा वयं "भवेम हे सखायस्तथा यूयं परिचरतेति शेषः ।।


तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।

इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥३

तम् । ऊं॒ इति॑ । ज्येष्ठ॑म् । नम॑सा । ह॒विःऽभिः॑ । सु॒ऽशेव॑म् । ब्रह्म॑णः । पति॑म् । गृ॒णी॒षे॒ ।

इन्द्र॑म् । श्लोकः॑ । महि॑ । दैव्यः॑ । सि॒स॒क्तु॒ । यः । ब्रह्म॑णः । दे॒वऽकृ॑तस्य । राजा॑ ॥३

तम् । ऊं इति । ज्येष्ठम् । नमसा । हविःऽभिः । सुऽशेवम् । ब्रह्मणः । पतिम् । गृणीषे ।

इन्द्रम् । श्लोकः । महि । दैव्यः । सिसक्तु । यः । ब्रह्मणः । देवऽकृतस्य । राजा ॥३

"ज्येष्ठं प्रशस्यतमं "सुशेवं सुसुखं “ब्रह्मणः मन्त्रस्य “पतिं पालयितारमेतत्संज्ञं “तमु तमेव देवं "नमसा नमस्कारेण "हविर्भिः चरुपुरोडाशादिभिश्च सार्धं "गृणीषे गृणे स्तुवे । अपि च "महि महान्तम् "इन्द्रं दैव्यः देवार्हः “श्लोकः अस्मदीयः स्तावको मन्त्रः "सिषक्तु सेवताम् । “ब्रह्मणः अन्नस्य मन्त्रस्य वा “देवकृतस्य देवैः स्तोतृभिः कृतस्य “यः इन्द्रो ब्रह्मणस्पतिर्वा “राजा ईश्वरः भवति । तमिन्द्रं तं ब्रह्मणस्पतिमिति संबन्धः ॥


स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।

कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥४

सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ ।

कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥४

सः । आ । नः । योनिम् । सदतु । प्रेष्ठः । बृहस्पतिः । विश्वऽवारः । यः । अस्ति ।

कामः । रायः । सुऽवीर्यस्य । तम् । दात् । पर्षत् । नः । अति । सश्चतः । अरिष्टान् ॥४

“प्रेष्ठः प्रियतमः "सः “बृहस्पतिः "नः अस्माकं "योनिं स्थानं वेदिलक्षणम् "आ "सदतु आसीदतु आगत्योपविशतु । "यः बृहस्पतिः "विश्ववारः विश्वैर्वरणीयः "अस्ति भवति । अपि च “रायः धनस्य "सुवीर्यस्य शोभनवीर्यस्य च यः "कामः अस्माकमभिलाषोऽस्ति "तं काममस्मभ्यं "दात् ददातु । काम्यमानं प्रयच्छत्वित्यर्थः । तथा "सश्चतः उपद्रवैः संसक्तान् "नः अस्मान् “अरिष्टान् अहिंसितान् कृत्वा "अति "पर्षत् अतिपारयति शत्रून् ।


तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः ।

शुचि॑क्रन्दं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥५

तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता॑य । जुष्ट॑म् । इ॒मे । धा॒सुः॒ । अ॒मृता॑सः । पु॒रा॒ऽजाः ।

शुचि॑ऽक्रन्दम् । य॒ज॒तम् । प॒स्त्या॑नाम् । बृह॒स्पति॑म् । अ॒न॒र्वाण॑म् । हु॒वे॒म॒ ॥५

तम् । आ । नः । अर्कम् । अमृताय । जुष्टम् । इमे । धासुः । अमृतासः । पुराऽजाः ।

शुचिऽक्रन्दम् । यजतम् । पस्त्यानाम् । बृहस्पतिम् । अनर्वाणम् । हुवेम ॥५

"तं सर्वत्र भोक्तव्यतया प्रसिद्धम् "अमृताय अमरणत्वाय जीवनाय "जुष्टं पर्याप्तम् "अर्कम् अर्चनसाधनमन्नं “पुराजाः पुरा जाताः “इमे “अमृतासः अमरणा देवा बृहस्पतेराज्ञया "नः अस्मभ्यम् "आ “धासुः प्रदद्युः । वयं च "शुचिक्रन्दं शुद्धस्तोत्रं "पस्त्यानाम् । पस्त्यमिति गृहनाम । तेन तद्वन्तो लक्ष्यन्ते । गृहिणां "यजतं यष्टव्यम् "अनर्वाणम् अप्रत्यृतं केनाप्यप्रतिगतं "बृहस्पतिं बृहतां पालकं देवं “हुवेम आह्वयाम स्तुयेम वा ॥ ॥ २१ ॥


तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति ।

सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥६

तम् । श॒ग्मासः॑ । अ॒रु॒षासः॑ । अश्वाः॑ । बृह॒स्पति॑म् । स॒ह॒ऽवाहः॑ । व॒ह॒न्ति॒ ।

सहः॑ । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धऽस्थ॑म् । नभः॑ । न । रू॒पम् । अ॒रु॒षम् । वसा॑नाः ॥६

तम् । शग्मासः । अरुषासः । अश्वाः । बृहस्पतिम् । सहऽवाहः । वहन्ति ।

सहः । चित् । यस्य । नीलऽवत् । सधऽस्थम् । नभः । न । रूपम् । अरुषम् । वसानाः ॥६

"शग्मासः शग्माः सुखकराः शक्ता वा "अरुषासः आरोचमानाः "सहवाहः संहत्य वाहकाः “अश्वाः “तं "बृहस्पतिं "वहन्ति वहन्तु । "यस्य बृहस्पतेः "सहश्चित् बलं च भवति । "नीलवत् । नीलं निलयो निवासः । तद्युक्तं "सधस्थं सहस्थानं च यस्य । तं बृहस्पतिमित्यन्वयः । कीदृशा अश्वाः । "नभो “न आदित्यमिव "अरुषम् आरोचमानं "रूपं “वसानाः धारयन्तः ।


स हि शुचिः॑ श॒तप॑त्र॒ः स शु॒न्ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः ।

बृह॒स्पति॒ः स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥७

सः । हि । शुचिः॑ । श॒तऽप॑त्रः । सः । शु॒न्ध्युः । हिर॑ण्यऽवाशीः । इ॒षि॒रः । स्वः॒ऽसाः ।

बृह॒स्पतिः॑ । सः । सु॒ऽआ॒वे॒शः । ऋ॒ष्वः । पु॒रु । सखि॑ऽभ्यः । आ॒ऽसु॒तिम् । करि॑ष्ठः ॥७

सः । हि । शुचिः । शतऽपत्रः । सः । शुन्ध्युः । हिरण्यऽवाशीः । इषिरः । स्वःऽसाः ।

बृहस्पतिः । सः । सुऽआवेशः । ऋष्वः । पुरु । सखिऽभ्यः । आऽसुतिम् । करिष्ठः ॥७

“स “हि स खलु बृहस्पतिः "शुचिः शुद्धः "शतपत्रः बहुविधवाहनः । "सः एव “शुन्ध्युः सर्वेषां शोधयिता “हिरण्यवाशीः । ‘वाशी' इति वाङ्नाम । हितरमणीयवाक् । यद्वा ।' वाशीभिस्तक्षताश्मन्मयीभिः' (ऋ. सं. १०, १०१. १०) इति निगमाद्वाश्यायुधम् । स्वर्णमयायुधः । “इषिरः गन्ताभ्येषणीयो वा "स्वर्षाः स्वर्गस्य संभक्ता । यद्वा सरणशीलस्योदकस्य सनिता दाता । “स एव बृहस्पतिः “स्वावेशः सुनिवासः “ऋष्वः दर्शनीयः । ईदृशो देवः "सखिभ्यः स्तोतृभ्यः “पुरु बहुलम् "आसुतिम् अन्नं "करिष्ठः कर्तृतमो दातृतमो भवति ॥


दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा ।

द॒क्षाय्या॑य दक्षता सखाय॒ः कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥८

दे॒वी इति॑ । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । व॒वृ॒ध॒तुः॒ । म॒हि॒ऽत्वा ।

द॒क्षाय्या॑य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर॑त् । ब्रह्म॑णे । सु॒ऽतरा॑ । सु॒ऽगा॒धा ॥८

देवी इति । देवस्य । रोदसी इति । जनित्री इति । बृहस्पतिम् । ववृधतुः । महिऽत्वा ।

दक्षाय्याय । दक्षत । सखायः । करत् । ब्रह्मणे । सुऽतरा । सुऽगाधा ॥८

“देवी देव्यौ दानादिगुणयुक्ते "देवस्य बृहस्पतेः "जनित्री जनयित्र्यौ "रोदसी द्यावापृथिव्यौ “महित्वा महत्त्वेन युक्तं बृहस्पतिं “ववृधतुः वर्धयामासतुः । हे "सखायः यूयमपि “दक्षाय्याय वर्धनीयाय । द्वितीयार्थे चतुर्थी। वर्धनीयं तं बृहस्पतिं "दक्षत वर्धयत । स च बृहस्पतिः “ब्रह्मणे बृंहिताय प्रभूतायान्नाय तदर्थं "सुतरा सुतरणानि सुखेन तरणीयानि "सुगाधा सुखेनावगाहनीयान्युदकानि "करत् करोतु ।।


इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥९

इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥९

इयम् । वाम् । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥९

हे “ब्रह्मणस्पते तुभ्यं "वज्रिणे वज्रवते “इन्द्राय च “वां युवाभ्याम् । तादर्थ्ये चतुर्थी । "ब्रह्म मन्त्ररूपा "इयं "सुवृक्तिः सुप्रवृत्ता स्तुतिः "अकारि मया कृताभूत् । तौ युवां "धियः अस्मदीयानि कर्माणि "अविष्टं रक्षतम् । तथा “पुरंधीः पुरुधीर्बह्वीः स्तुतीः "जिगृतं निगिरतम्। शृणुतमिति यावत् । “अर्यः अरीरभिगन्त्रीः “वनुषां संभक्तॄणामस्माकम् "अरातीः शत्रुसेनाः "जजस्तम् उपक्षपयतम् ॥


तृतीयसवन उक्थ्ये ब्राह्मणाच्छंसिनः ‘बृहस्पते युवम्' इति शस्त्रयाज्या। सूत्रितं च-- ‘ बृहस्पते युवमिन्द्रश्च वस्व इति याज्या' (आश्व. श्रौ . ६. १) इति । वाजपेयेऽतिरिक्तोक्थस्यैषैव परिधानीया। सूत्रितं च- बृहस्पते युवमिन्द्रश्च वस्व इति परिधानीया' (आश्व. श्रौ. ९. ९) इति ॥

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१०

बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।

ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१०

बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।

धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०

हे "बृहस्पते त्वं च "इन्द्रश्च "युवं युवां "दिव्यस्य दिवि भवस्य “वस्वः वसुनो धनस्य “ईशाथे। अतः कारणात् "स्तुवते स्तोत्रं कुर्वते "कीरये । स्तोतृनामैतत् । स्तोत्रे "रयिं धनं "धत्तं दत्तम् । "चित् इति पूरणः । अन्यद्गतम् ॥ ॥ २२ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९७&oldid=200999" इत्यस्माद् प्रतिप्राप्तम्