← सूक्तं ७.९८ ऋग्वेदः - मण्डल ७
सूक्तं ७.९९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१०० →
दे. विष्णुः, ४-६ इन्द्राविष्णू। त्रिष्टुप्।


परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥१॥
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।
उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥२॥
इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥३॥
उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् ।
दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥४॥
इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥५॥
इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥६॥
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘परो मात्रया ' इति सप्तर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम्। 'उरुं यज्ञाय ' इत्याद्यास्तिस्र ऐन्द्रावैष्णव्यः शिष्टाः केवलविष्णुदेवताकाः। तथा चानुक्रान्तं -- परो वैष्णवं तूरुमित्यैन्द्र्यश्च तिस्रः ' इति । गतः सूक्तविनियोगः । विष्णुदेवताके पशौ ‘परो मात्रया' इति पुरोडाशस्य याज्या । सूत्रितं च - परो मात्रया तन्वा वृधानेरावती धेनुमती हि भूतम्' ( आश्व. श्रौ. ३. ८) इति ॥


प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।

उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥१

प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।

उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥१

परः । मात्रया । तन्वा । वृधान । न । ते । महिऽत्वम् । अनु । अश्नुवन्ति ।

उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥१

पर इति सकारान्तं परस्तादित्यस्यार्थे । परशब्दाच्छान्दसोऽसिप्रत्ययः ‘परो दिवा पर एना पृथिव्या ' (ऋ. सं. १०. ८२.५) इति यथा। मात्रयेति व्यत्ययेन तृतीया। “मात्रया “परः परस्ताद्वर्तमानयापरिमितया “तन्वा शरीरेण “वृधान वर्धमान हे विष्णो “ते तव “महित्वं महत्त्वं “न “अन्वश्नुवन्ति नानुव्याप्नुवन्ति । त्रैविक्रमसमये यत्तव माहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं न शक्यत इत्यर्थः । “ते तव “उभे “रजसी उभौ लोकौ “पृथिव्याः आरभ्य पृथिवीमन्तरिक्षं च “विद्म जानीमः । वयं चक्षुषोपलभामहे नान्यत् । हे “देव द्योतमान “विष्णो “त्वम् एव “परमस्य स्वर्गादेरुत्कृष्टलोकस्य । द्वितीयार्थे षष्ठी। परमं लोकं “वित्से जानासि । अतस्तव महत्त्वं न केनापि व्याप्तुं शक्यमिति भावः ॥


पूर्वोक्त एव पशौ न ते विष्णो' इति वपाया अनुवाक्या। सूत्रितं च - न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्याम् ' (आश्व. श्रौ. ३. ८) इति ॥

न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।

उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥२

न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ ।

उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥२

न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप ।

उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥२

हे "देव दानादिगुणयुक्त “विष्णो "ते तव “महिम्नः महत्त्वस्य “परं विप्रकृष्टम् “अन्तम् अवसानं “जायमानः प्रादुर्भवञ्जनः “न "आप न प्राप्नोति । तथा "जातः प्रादुर्भूतोऽपि जनः “न एव प्राप्नोति । तव महत्त्वस्यावसानं नास्ति । अत एव सर्वैर्न ज्ञायत इति भावः । कोऽसौ महिमा तमाह। “ऋष्वं दर्शनीयं "बृहन्तं महान्तं “नाकं द्युलोकम् “उदस्तभ्नाः त्वमूर्ध्वमधारयः । यथाधो न पतति तथा । “पृथिव्याः भूमेः संबन्धिनीं “प्राचीं “ककुभं च "दाधर्थ धारितवानसि । उपलक्षणमेतत् सर्वस्य भूतजातस्य । तथा च मन्त्रान्तरं- य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा' (ऋ. सं. १. १५४. ४ ) इति ॥


पूर्वोक्त एव पशौ ‘ इरावती ' इति हविषो याज्या । सूत्रितं च - इरावती धेनुमती हि भूतं विश्वकर्मन्हविषा वावृधान इति द्वे ' (आश्व. श्रौ. ३. ८) इति ॥

इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।

व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॑ः ॥३

इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या ।

वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥३

इरावती इतीराऽवती । धेनुमती इति धेनुऽमती । हि । भूतम् । सुयवसिनी इति सुऽयवसिनी । मनुषे । दशस्या ।

वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥३

हे द्यावापृथिव्यौ “मनुषे स्तुवते मनुष्याय "दशस्या दित्सया युक्ते युवाम् “इरावती अन्नवत्यौ “धेनुमती गोमत्यौ “सूयवसिनी शोभनयवसे च “भूतम् अभूतम् । हिशब्दः प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतमित्यर्थः । हे “विष्णो “एते इमे “रोदसी द्यावापृथिव्यौ “व्यस्तभ्नाः विविधमधारयः। पृथिवीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम्। अपि च “पृथिवीं प्रथितामिमां भूमिम् “अभितः सर्वत्र स्थितैः “मयूखैः पर्वतैः “दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानित्यर्थः । पर्वता हि विष्णोः स्वभूताः । ‘ विष्णुः पर्वतानामधिपतिः ' ( तै. सं. ३. ४. ५. १ ) इति श्रुतेः ॥


उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् ।

दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥४

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् ।

दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥४

उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् ।

दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥४

हे इन्द्राविष्णू “यज्ञाय यजमानाय “उरु विस्तीर्णं “लोकं स्वर्गाख्यं “चक्रथुरु कृतवन्तौ खलु युवाम् । किं कुर्वन्तौ । सूर्यं सर्वस्य प्रेरकमादित्यम् “उषसं तमोनिवारकमुषःकालम् अग्निं चासुरैरावृतं जनयन्तौ पुनः प्रादुर्भावयन्तौ। हे “नरा नेताराविन्द्राविष्णू “वृषशिप्रस्य एतत्संज्ञस्य “दासस्य “चित् उपक्षपयितुरसुरस्य “मायाः “पृतनाज्येषु संग्रामेषु “जघ्नथुः जिहिंसथुः । युवां सूर्यादिकं जनयन्तावित्युच्यते ॥


इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् ।

श॒तं व॒र्चिन॑ः स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥५

इन्द्रा॑विष्णू॒ इति॑ । दृं॒हि॒ताः । शम्ब॑रस्य । नव॑ । पुरः॑ । न॒व॒तिम् । च॒ । श्न॒थि॒ष्ट॒म् ।

श॒तम् । व॒र्चिनः॑ । स॒हस्र॑म् । च॒ । सा॒कम् । ह॒थः । अ॒प्र॒ति । असु॑रस्य । वी॒रान् ॥५

इन्द्राविष्णू इति । दृंहिताः । शम्बरस्य । नव । पुरः । नवतिम् । च । श्नथिष्टम् ।

शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥५

हे “इन्द्राविष्णू “दृंहिताः दृढीकृताः “नव “नवतिं “च नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “शम्बरस्य स्वभूतानि “श्नथिष्टम् अहिंसिष्टम्। 'श्नथ हिंसायाम्। अपि च “शतं “सहस्रं “च “वर्चिनः “असुरस्य “वीरान् “अप्रति प्रतिद्वन्द्विनो यथा न भवन्ति तथा “साकं सह संघश एव “हथः अहिंसिष्टम् । 'यो वर्चिनः शतमिन्द्रः सहस्रम् '। (ऋ. सं. २. १४. ६) इति हि निगमान्तरम् ॥


इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती ।

र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥६

इ॒यम् । म॒नी॒षा । बृ॒ह॒ती । बृ॒हन्ता॑ । उ॒रु॒ऽक्र॒मा । त॒वसा॑ । व॒र्धय॑न्ती ।

र॒रे । वा॒म् । स्तोम॑म् । वि॒दथे॑षु । वि॒ष्णो॒ इति॑ । पिन्व॑तम् । इषः॑ । वृ॒जने॑षु । इ॒न्द्र॒ ॥६

इयम् । मनीषा । बृहती । बृहन्ता । उरुऽक्रमा । तवसा । वर्धयन्ती ।

ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र ॥६

"बृहती महती "इयं "मनीषा मननीया स्तुतिः “बृहन्ता बृहन्तौ महान्तौ "उरुक्रमा विस्तीर्णविक्रमौ । विष्णुना सहैकार्थीभावादिन्द्रस्याप्युरुक्रमत्वम् । “तवसा । तव इति बलस्य वृद्धेर्वा नामधेयम् । तद्वन्तावेवंभूतौ युवां “वर्धयन्ती प्रवृद्धौ कुर्वत्यस्माभिः कृता । हे “विष्णो हे “इन्द्र “विदथेषु यज्ञेषु “वां युवाभ्यां “स्तोमम् उक्तलक्षणं स्तोत्रं “ररे ददे । ‘रा दाने ' इति धातुः । तौ युवां “वृजनेषु “इषः अन्नानि “पिन्वतम् अस्मभ्यं वर्धयतम् ॥


अभ्युदयेष्टौ विष्णोः शिपिविष्टस्य ‘ वषट् ते ' इत्येषानुवाक्या । सूत्रितं च -- भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आ कृणोमि ' (आश्व. श्रौ. ३. १३) इति ॥

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।

वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।

वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।

वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

हे “विष्णो “ते तुभ्यम् “आसः "आस्यात् “आ अभिमुखं “वषट् “कृणोमि करोमि। वषट्कारेण हविराह्ववयामि (हविर्हावयामि - पाठः) । हे “शिपिविष्ट । शिपयो रश्मयः । तैराविष्ट विष्णो “तत् वषट्कृतं “मे मदीयं “हव्यं हविः "जुषस्व सेवस्व । “सुष्टुतयः शोभनस्तुत्यात्मिका: "गिरः वाचश्च त्वां “वर्धन्तु वर्धयन्तु । अन्यद्गतम् ॥ ॥ २४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९९&oldid=351467" इत्यस्माद् प्रतिप्राप्तम्