ऋग्वेदः सूक्तं ७.३८
← सूक्तं ७.३७ | ऋग्वेदः - मण्डल ७ सूक्तं ७.३८ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.३९ → |
दे. १-६ सविता, ६ उत्तरार्धस्य भगो वा, ७-८ वाजिनः। त्रिष्टुप्। |
उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।
नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥१॥
उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।
व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥२॥
अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति ।
स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥३॥
अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।
अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥४॥
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥५॥
अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।
भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥६॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥७॥
वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥८॥
सायणभाष्यम्
‘उदु ष्य देवः' इत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सवितृदेवताकम् । सप्तम्यष्टम्यौ वाजिदेवताके। ‘भगमुग्रोऽवसे ' इत्यर्धर्चो भगदेवत्यः सावित्रो वा । तथा चानुक्रमणिका - उदु ष्य सावित्रमन्त्ये वाजिन्यौ भगमिति भागो वार्धर्चः' इति । गतः सूक्तविनियोगः ॥
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥१
उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।
नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥१
उत् । ऊं इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।
नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरुऽवसुः । दधाति ॥१
“सविता सर्वस्य प्रेरकः “स्यः सः “देवः “हिरण्ययीं सुवर्णमयीं “याम् "अमतिम् । रूपनामैतत् । रूपं प्रभामित्यर्थः । “अशिश्रेत् आश्रयति ताममतिम् “उत् “ययाम उद्यच्छति उद्गमयति । “उ इति पादपूरणः । “नूनम् अद्य “भगः भजनीयो यः सविता “मानुषेभिः मनुष्यैः स्तोतृभिः “हव्यः हवनीयः स्तोतव्यो भवति । पुरूवसुः बहुधनः “यः देवः स्तोतृभ्यः “रत्ना रत्नानि रमणीयानि धनानि “वि “दधाति करोति । स सविता देवः ताममतिमुद्ययामेति पूर्वेण संबन्धः ॥
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।
व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥२
उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ ।
वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥२
उत् । ऊं इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्यऽपाणे । प्रऽभृतौ । ऋतस्य ।
वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृऽभ्यः । मर्तऽभोजनम् । सुवानः ॥२
हे “सवितः सर्वस्य प्रेरयितर्देव त्वम् “उत् “तिष्ठ ऊर्ध्वं गच्छ । ततो हे “हिरण्यपाणे हे सुवर्णहस्त त्वमस्मदभीप्सितप्रदानाय “ऋतस्य यज्ञस्य “प्रभृतौ प्रणयने “अस्य अस्मदीयमिदं स्तोत्रं “श्रुधि शृणु । “उ इति पूरणः । कीदृशस्त्वम् । “उर्वी विस्तीर्णां “पृथ्वीं प्रथिताम् “अमतिं रूपं प्रभां “वि “सृजानः विसृजन “नृभ्यः नेतृभ्यः स्तोतृभ्यः “मर्तभोजनं मनुष्याणां भोगयोग्यं धनम् “आ “सुवानः प्रेरयन् । एवंभूतस्त्वमिदं स्तोत्रं शृण्विति संबन्धः ॥
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ ।
स न॒ः स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥३
अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।
सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥३
अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति ।
सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुऽभिः । नि । सूरीन् ॥३
“अपि च “सविता “देवः अस्माभिः "स्तुतः “अस्तु । अस्मदीयाः स्तुतीः शृणोत्वित्यर्थः । “विश्वे “वसवः “चित् सर्वे देवा अपि “यं सवितारम् “आ “गृणन्ति अभिष्टुवन्ति “नमस्यः सर्वैर्नमस्करणीयः “सः देवः “स्तोमान् “नः अस्मदीयानि स्तोत्राणि “चनः अन्नं “धात् दधातु । अन्नफलानि करोतु । “विश्वेभिः विश्वैः सर्वैः "पायुभिः पालनैः “सूरीन् स्तोतॄनस्मान् “नि “पातु नितरां पालयतु ॥
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।
अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषा॑ः ॥४
अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा ।
अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥४
अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा ।
अभि । सम्ऽराजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । सऽजोषाः ॥४
“देवी द्योतमाना “अदितिः अदीना देवमाता “यं सवितारम् “अभि “गृणाति अभिष्टौति । कीदृशी । “सवितुः “देवस्य एव “सवं प्रसवमनुज्ञां “जुषाणा सेवमाना। “सम्राजः सम्यग्राजमानाः “वरुणः । उपलक्षणमेतत् । वरुणादयो देवाः यं सवितारम् “अभि “गृणन्ति अभिष्टुवन्ति । “मित्रासः मित्रादयश्च “सजोषाः समानप्रीतिः “अर्यमा एतत्संज्ञको देवश्च यम् "अभि गृणन्ति । स नः स्तोमांश्चनो धादिति पूर्वयर्चा संबन्धः ।
अ॒भि ये मि॒थो व॒नुष॒ः सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाच॑ः पृथि॒व्याः ।
अहि॑र्बु॒ध्न्य॑ उ॒त न॑ः शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥५
अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् । दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः ।
अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥५
अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् । दिवः । रातिऽसाचः । पृथिव्याः ।
अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुऽभिः । नि । पातु ॥५
"रातिषाचः दानसेविनः “वनुषः संभक्तारः "ये यजमानाः “मिथः परस्परं संहता भूत्वा सवितारमभिलक्ष्य "सपन्ते परिचरन्ति । कीदृशम् । “दिवः द्युलोकस्य “पृथिव्याः भूमेश्च “रातिं मित्रभूतम् । “उत अपि च “अहिर्बुध्न्यः । बुध्नेऽन्तरिक्षे भवो बुध्न्यः । एतीत्यहिः। एतत्पदद्वयाभिधो मध्यमस्थानोऽग्निरहिर्बुध्न्य इत्युच्यते । सवितुर्मित्रभूतः सोऽपि तेषां “नः अस्माकं सवितृविषयं स्तोत्रं “शृणोतु । तथा “वरूत्री वाग्देवी च सवितृसहिता सती “एकधेनुभिः मुख्याभिर्गोभिः “नि “पातु नितरामस्मान् पालयतु । ।
अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।
भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥६
अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः ।
भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥६
अनु । तत् । नः । जाःऽपतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः ।
भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम् ॥६
“इयानः अस्माभिर्याच्यमानः “जास्पतिः प्रजानां पालकः सविता देवः “सवितुः “देवस्य स्वस्य संबन्धि “रत्नं रमणीयं “तत् प्रसिद्धं धनं “नः अस्माकम् “अनु “मंसीष्ट अनुमन्यताम् । “उग्रः ओजस्वी स्तोता “भगं भजनीयं सवितारं भगसंज्ञकं देवं वा “अवसे नोऽस्माकं रक्षणाय “जोहवीति भृशं ह्वयति । “अध अपि च “अनुग्रः असमर्थः स्तोता “भगम् एतत्संज्ञकं सवितारं वा “रत्नं रमणीयं तत्प्रसिद्धं धनं “याति याचते ॥
वैश्वदेवे पर्वणि वाजिनस्य हविषः शं नो भवन्तु ' इत्यादिके द्वे याज्यानुवाक्ये । सूत्रितं च -- ‘ शं नो भवन्तु वाजिनो हवेषु वाजेवाजेऽवत वाजिनो न इत्यूर्ध्वज्ञुरनवानं याज्याम् ' (आश्व. श्रौ. २. १६ ) इति ।
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥७
शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः ।
ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥७
शम् । नः । भवन्तु । वाजिनः । हवेषु । देवऽताता । मितऽद्रवः । सुऽअर्काः ।
जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । सनेमि । अस्मत् । युयवन् । अमीवाः ॥७
"देवताता देवतातौ यज्ञे “हवेषु अस्मदीयेषु स्तोत्रेषु “मितद्रवः मितद्रवणा मितमार्गाः “स्वर्काः शोभनान्नाः “वाजिनः एतदभिधायका देवाः “नः अस्माकं “शं सुखाय “भवन्तु । अपि च “अहिम् आगत्य हन्तारं “वृकं वसूनामादातारम् । चोरमिति शेषः । "रक्षांसि च “जम्भयन्तः हिंसन्तो वाजिनो देवाः “सनेमि। पुराणनामैतत् । पुरातनाः “अमीवाः रोगान् “अस्मत् अस्मत्तः "युयवन् पृथक्कुर्वन्तु ॥
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑ः पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑ः ॥८
वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।
अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥८
वाजेऽवाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋतऽज्ञाः ।
अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथिऽभिः । देवऽयानैः ॥८
हे “वाजिनः एतन्नामका देवाः “विप्राः मेधाविनः “अमृताः अमरणधर्माणः “ऋतज्ञाः सत्यं जानन्त एवंभूताः सन्तो यूयं “वाजेवाजे सर्वेषु युद्धेषु “नः अस्मान् “धनेषु धननिमित्तेषु “अवत पालयत । ततो यूयम् “अस्य "मध्वः मधुरोपेतमिमं सोमं “पिबत । सोमपानानन्तरं “मादयध्वं यूयं तृप्ता भवत। ततः “तृप्ताः यूयं “देवयानैः देवगमनसाधनैः “पथिभिः मार्गैः “यात गच्छत ॥ ॥५॥
टिप्पणी
७.३८.२ -- उदु तिष्ठ सवितः श्रुध्यस्य
७.३८.६ --
मण्डल ७ | ||||||
---|---|---|---|---|---|---|