← सूक्तं ७.१०३ ऋग्वेदः - मण्डल ७
सूक्तं ७.१०४
मैत्रावरुणिर्वसिष्ठः।
दे. (राक्षोघ्नं) इन्द्रासोमौ, ८, १६, १९-२२ इन्द्रः, ९, १२-१३ सोमः, १०, १४ अग्निः, ११ देवाः, १७ ग्रावाणः, १८ मरुतः, २३ (पूर्वार्धस्य) वसिष्ठाशीः, (उत्तरार्धस्य) पृथिव्यन्तरिक्षे। त्रिष्टुप्, १ - त्र, २१, २३ जगती, ७ जगती त्रिष्टुब्वा, २५ अनुष्टुप्।


इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥१॥
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥६॥
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥७॥
यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥८॥
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥९॥
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥
परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥११॥
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥१२॥
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥१४॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना ।
वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन ।
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि ।
प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥१९॥
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥२०॥
इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥२१॥
उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम् ॥२४॥
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥

सायणभाष्यम्

‘इन्द्रासोमा' इति पञ्चविंशत्यृचं पञ्चदशं सूक्तं वसिष्ठस्यार्षम् । आद्याः षट् जगत्यः सप्तमी जगती त्रिष्टुब्वाष्टादश्येकविंशीत्रयोविंश्यो जगत्योऽन्त्या प्रति चक्ष्व' इत्यनुष्टुप् शिष्टाश्चतुर्दश त्रिष्टुभः । नवमीद्वादशीत्रयोदश्यः सोमदेवत्या एकादशी देवदेवत्याष्टमीषोडश्याविन्द्रदेवताके सप्तदशी ग्रावदेवत्याष्टादशी मरुद्देवताका दशमीचतुर्दश्यावग्निदेवताके ‘प्र वर्तय' इत्याद्याः पञ्चर्च इन्द्रदेवताकाः । ‘मा नो रक्ष' इति त्रयोविंश्याः पूर्वोऽर्धर्चो वसिष्ठस्य प्रार्थनापरः । अतस्तद्देवताकः । उत्तरोऽर्धर्चः पृथिव्यन्तरिक्षदेवत्यः । शिष्टानां रक्षोहणाविन्द्रासोमौ देवता । तथा चानुक्रान्तम्’ -- इन्द्रासोमा पञ्चाधिकैन्द्रासोमं राक्षोघ्नं शापाभिशापप्रायं षट् सप्त वाद्या जगत्य एकविंशीत्रयोविंश्यौ चाष्टादशी मारुती च दशमीचतुर्दश्यावाग्नेय्यौ दैव्येकादश्यन्त्यानुष्टुन्नवमी द्वादशी त्रयोदशी सौम्यः सप्तदशी ग्राव्ण्यष्टमीषोळश्यावैन्द्र्यौ प्र वर्तयेति पञ्चैन्द्र्यो मा नो रक्ष इत्यृषेरात्मन आशीरुत्तरोऽर्धर्चः पृथिव्यन्तरिक्षदेवतः' इति । अत्र बृहद्देवतायामनुक्रम्यते- संवत्सरं तु मण्डूकानैन्द्रासोमं परं तु यत् ॥ ऋषिर्ददर्श रक्षोघ्नं पुत्रशोकपरिप्लुतः । हते पुत्रशते क्रुद्धः सौदासैर्दुःखितस्तदा ॥ (बृहद्दे. ६. २७-२८) इति । अतो रक्षोनिबर्हणार्थमेतत्सूक्तं जप्यम् ॥


इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृध॑ः ।

परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिण॑ः ॥१

इन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ ।

परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥१

इन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःऽवृधः ।

परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥१

हे "इन्द्रासोमा । इन्द्रश्च सोमश्चेन्द्रासोमौ । ‘देवताद्वन्द्वे च ' इति पूर्वपदस्थानङ्। आमन्त्रिताद्युदात्तत्वम् । "रक्षः रक्षांसि । जातावेकवचनम् । युवां “तपतं संतापयतम् ।' आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्वात् तपतमिति तिङन्तस्य निघाताभावः । तथा “उब्जतं हिंस्तम् । उब्जतिर्हिंसाकर्मा । तिङः परत्वान्निघाताभावः । हे "वृषणा वृषणौ कामानां वर्षितारौ “न्यर्पयतं रक्षांसि नीचैष्ट्वं प्रापयतम् । "तमोवृधः तमसावरकेणान्धकारेण मायारूपेण वर्धमानान् तमसि रात्रौ वर्धमानान् वा “अचितः ज्ञानरहितान् मूढान् राक्षसान् "परा “शृणीतम् । पराङ्मुखा यथा भवन्ति तथा हिंस्तम्। तथा "न्योषतं नितरां दहतम्।' उष दाहे'। “हतं तान् मारयतम्। "नुदेथाम् अस्मत्तो हतांस्तान् प्रेरयेथाम् । "अत्रिणः अदनशीलांस्तान् राक्षसान् "नि "शिशीतं नितरां तनूकुरुतम् ॥


इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व ।

ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥२

इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् । अ॒भि । अ॒घम् । तपुः॑ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व ।

ब्र॒ह्म॒ऽद्विषे॑ । क्र॒व्य॒ऽअदे॑ । घो॒रऽच॑क्षसे । द्वेषः॑ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥२

इन्द्रासोमा । सम् । अघऽशंसम् । अभि । अघम् । तपुः । ययस्तु । चरुः । अग्निवान्ऽइव ।

ब्रह्मऽद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेषः । धत्तम् । अनवायम् । किमीदिने ॥२

हे इन्द्रासोमौ "अघशंसम् अघस्यानर्थस्य शंसितारम् "अघम् आगत्य हन्तारं राक्षसं "सं सहैव । "अभि इति श्रुतेर्योग्यक्रियाध्याहारः । अभिभवतम् । स च "तपुः युवयोस्तेजसा तप्यमानो राक्षसः "अग्निवानिव अग्नियुक्तोऽग्नौ प्रक्षिप्तः “चरुः इव "ययस्तु । ‘ यसु प्रयत्ने'। केवलोऽप्ययमाङ्पूर्वार्थो द्रष्टव्यः । आयस्यतु आयासं प्राप्नोतु । उपक्षीयतामित्यर्थः । अपि च “ब्रह्मद्विषे ब्राह्मणेभ्योऽस्मभ्यं द्वेष्ट्रे “क्रव्यादे क्रव्यं मांस भक्षयित्रे “घोरचक्षसे घोरदर्शनाय परुषभाषिणे वा “किमीदिने किमिदानीमिति चरते पिशुनाय “द्वेषः द्वेष्यभावम् "अनवायम् अव्यवायमनवयवं नैरन्तर्येण यथा भवति तथा “धत्तं दत्तम् ॥


इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् ।

यथा॒ नात॒ः पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छव॑ः ॥३

इन्द्रा॑सोमा । दुः॒ऽकृतः॑ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् ।

यथा॑ । न । अतः॑ । पुनः॑ । एकः॑ । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शवः॑ ॥३

इन्द्रासोमा । दुःऽकृतः । वव्रे । अन्तः । अनारम्भणे । तमसि । प्र । विध्यतम् ।

यथा । न । अतः । पुनः । एकः । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शवः ॥३

हे इन्द्रासोमौ "दुष्कृतः दुष्कर्मकारिणः राक्षसान् “वव्रे वारके “अन्तः मध्ये "अनारम्भणे आलम्बनरहिते “तमसि अन्धकारे “प्र “विध्यतं प्रवेश्य ताडयतम् । "यथा येन प्रकारेणैषां मध्ये “एकश्चन एकोऽपि राक्षसः "अतः अस्मात्तमसः “पुनः “न “उदयत् उद्गच्छेत् । तथा विध्यतमित्यर्थः । एतेर्लेट्यडागमः । इतश्च लोपः' इतीकारलोपः । गुणावादेशौ । "तत् प्रसिद्धं "मन्युमत् क्रोधयुक्तं "वां युवयोः "शवः बलं "सहसे रक्षसामभिभवनाय "अस्तु भवतु ॥


इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् ।

उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥४

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घऽशं॑साय । तर्ह॑णम् ।

उत् । त॒क्ष॒त॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षः॑ । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थः ॥४

इन्द्रासोमा । वर्तयतम् । दिवः । वधम् । सम् । पृथिव्याः । अघऽशंसाय । तर्हणम् ।

उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्यः । येन । रक्षः । ववृधानम् । निऽजूर्वथः ॥४

हे इन्द्रासोमौ "दिवः अन्तरिक्षात् द्युलोकाद्वा "वधं हननसाधनमायुधं “सं "वर्तयतम् उत्पादयतम् । “पृथिव्याः अस्मादपि लोकात् “तर्हणं हिंसकमायुधम् "अघशंसाय अघशंसमनर्थस्याशंसकं राक्षसं हन्तुमुत्पादयतम् । तथा “पर्वतेभ्यः पर्ववद्भ्यो मेघेभ्यः सकाशात् स्वर्यम्। ‘स्वृ शब्दोपतापयोः'। उपतापकमशनिम् "उत्तक्षतम् उद्धृतं कुरुतम् । "येन अशनिना “वावृधानं वर्धमानं प्रवृद्धं वा "रक्षः राक्षसं निजूर्वथः निहथः। ‘जुर्वी हिंसायाम् । तमशनिमुत्तक्षतमित्यर्थः ॥


इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः ।

तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥५

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽत॒प्तेभिः॑ । यु॒वम् । अश्म॑हन्मऽभिः ।

तपुः॑ऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिणः॑ । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥५

इन्द्रासोमा । वर्तयतम् । दिवः । परि । अग्निऽतप्तेभिः । युवम् । अश्महन्मऽभिः ।

तपुःऽवधेभिः । अजरेभिः । अत्रिणः । नि । पर्शाने । विध्यतम् । यन्तु । निऽस्वरम् ॥५

हे इन्द्रासोमौ "दिवः अन्तरिक्षात् परितः सर्वतः "वर्तयतम् आयुधानि प्रेरयतम् । "युवं तौ युवाम् "अग्नितप्तेभिः अग्निना संतप्तैः “तपुर्वधेभिः तापकप्रहारैः "अजरेभिः जरारहितैर्दृढैः "अश्महन्मभिः अश्मसारभूतस्यायसो विकारैर्हननसाधनैस्तैरायुधैः "अत्रिणः राक्षसस्य “पर्शाने पार्श्वस्थाने "नि "विध्यतं निहतम् । ते च राक्षसाः "निःस्वरं निःशब्दं "यन्तु अपयन्तु निर्गच्छन्तु ॥ ॥५॥


इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ ।

यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥६

इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वतः॑ । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव । वा॒जिना॑ ।

याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् ॥६

इन्द्रासोमा । परि । वाम् । भूतु । विश्वतः । इयम् । मतिः । कक्ष्या । अश्वाऽइव । वाजिना ।

याम् । वाम् । होत्राम् । परिऽहिनोमि । मेधया । इमा । ब्रह्माणि । नृपती इवेति नृपतीऽइव । जिन्वतम् ॥६

हे इन्द्रासोमौ "इयम् अस्माभिः क्रियमाणा “मतिः मननीया स्तुतिः "वाजिना वाजिनौ बलवन्तौ "वां युवां "विश्वतः सर्वतः "परि "भूतु परिगृह्णातु व्याप्नोतु वा । तत्र दृष्टान्तः । "कक्ष्या कक्षबन्धनी रज्जुः "अश्वेव यथाश्वं परिगृह्णाति तद्वत् । "यां “होत्रां वाचं "वां युवाभ्यां “मेधया "परिहिनोमि प्रेरयामि । सेयं मतिरिति संबन्धः। अपि च “इमा इमान्यस्माभिः कृतानि “ब्रह्माणि स्तोत्राणि --- यथा धनैः पूरयन्ति तथा "जिन्वतं फलैः पूरयतम् ॥


प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः ।

इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो न॑ः क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥७

प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः ।

इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥७

प्रति । स्मरेथाम् । तुजयत्ऽभिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुरऽवतः ।

इन्द्रासोमा । दुःऽकृते । मा । सुऽगम् । भूत् । यः । नः । कदा । चित् । अभिऽदासति । द्रुहा ॥७

हे इन्द्रासोमौ "तुजयद्भिः त्वरमाणैः "एवैः गन्तृभिरश्वैः “प्रति "स्मरेथाम् अभिगच्छतम् । उपसर्गवशेन स्मरतिरत्रार्थान्तरे वर्तते । यथा प्रस्मरणं प्रस्थानमिति । अभिगत्य च "द्रुहः द्रोग्धॄन् “भङ्गुरावतः भञ्जनकर्मवतः "रक्षसः राक्षसान् "हतं हिंस्तम् । हे इन्द्रासोमौ “दुष्कृते पापकारिणे राक्षसाय "सुगं सुखं “मा "भूत् मा भवतु । "द्रुहा द्रोहेण युक्तः "यः "नः अस्मान् "कदा "चित् अपि "अभिदासति अभिहन्ति तस्मै दुष्कृत इत्यन्वयः ॥


यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः ।

आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥८

यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभिः । वचः॑ऽभिः ।

आपः॑ऽइव । का॒शिना॑ । सम्ऽगृ॑भीताः । अस॑न् । अ॒स्तु॒ । अस॑तः । इ॒न्द्र॒ । व॒क्ता ॥८

यः । मा । पाकेन । मनसा । चरन्तम् । अभिऽचष्टे । अनृतेभिः । वचःऽभिः ।

आपःऽइव । काशिना । सम्ऽगृभीताः । असन् । अस्तु । असतः । इन्द्र । वक्ता ॥८

“पाकेन पक्वेन शुद्धेन "मनसा "चरन्तं वर्तमानं सत्यवादिनं "यः मां राक्षसः "अनृतेभिः अनृतैरसत्यैः “वचोभिः वचनैः "अभिचष्टे अभिशंसति मय्यसत्यवचनमारोपयति हे "इन्द्र "काशिना मुष्टिना "संगृभीताः सम्यग्गृहीताः "आपइव यथापो विशीर्णा भवन्ति तथा “असतः असत्यस्य “वक्ता स राक्षसः "असन्नस्तु अविद्यमानो भवतु । नश्यत्वित्यर्थः ॥


ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑ः ।

अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥९

ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवैः॑ । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभिः॑ ।

अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोमः॑ । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥९

ये । पाकऽशंसम् । विऽहरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभिः ।

अहये । वा । तान् । प्रऽददातु । सोमः । आ । वा । दधातु । निःऽऋतेः । उपऽस्थे ॥९

"ये राक्षसाः "पाकशंसं परिपक्ववचनं सत्यभाषिणं माम् "एवैः एतव्यैः प्राप्तव्यैरात्मीयैः कामैर्हेतुभूतैः "विहरन्ते विशेषेण हरन्ति उपक्षपयन्ति । यथाकामं परिवदन्तीत्यर्थः। "ये "वा “स्वधाभिः बलैर्युक्ताः "भद्रं कल्याणवर्तनं मां "दूषयन्ति दुष्टं कुर्वन्ति "तान् सर्वान् "सोमः "अहये “वा सर्पाय वा "प्रददातु । “निर्ऋतेः पापदेवतायाः "उपस्थे उत्सङ्गे “वा “आ "दधातु प्रक्षिपतु ॥


यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् ।

रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥१०

यः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् ।

रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥१०

यः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् ।

रिपुः । स्तेनः । स्तेयऽकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥१०

हे "अग्ने "यः राक्षसः "नः अस्माकं "पित्वः अन्नस्य “रसं सारं "दिप्सति जिघांसति । "यः च "अश्वानाम् अस्मदीयानां रसं दिसति । "यः च “गवां रसं दिप्सति। "यः च "तनूनाम् अस्मदीयानां शरीराणां रसं दिप्सति । “रिपुः बाधकः “स्तेनः चौरः "स्तेयकृत् धनस्यापहर्ता सः सर्वो जनः "दभ्रं हिंसाम् “एतु प्राप्नोतु । अपि च "सः बाधकः “तन्वा स्वकीयेन शरीरेण “तना “च तनयेन च "नि “हीयतां निहीनो भवतु ॥ ॥ ६ ॥


प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वा॑ः ।

प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥११

प॒रः । सः । अ॒स्तु॒ । त॒न्वा॑ । तना॑ । च॒ । ति॒स्रः । पृ॒थि॒वीः । अ॒धः । अ॒स्तु॒ । विश्वाः॑ ।

प्रति॑ । शु॒ष्य॒तु॒ । यशः॑ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा॑ । दिप्स॑ति । यः । च॒ । नक्त॑म् ॥११

परः । सः । अस्तु । तन्वा । तना । च । तिस्रः । पृथिवीः । अधः । अस्तु । विश्वाः ।

प्रति । शुष्यतु । यशः । अस्य । देवाः । यः । नः । दिवा । दिप्सति । यः । च । नक्तम् ॥११

“सः राक्षसः “तन्वा “तना “च । व्यत्ययेन तृतीया । तन्वाः शरीरस्य तनयस्य च "परः परस्तात् "अस्तु वर्तमानो भवतु । उभाभ्यां वियुक्तो भवत्वित्यर्थः । "विश्वाः व्याप्ताः "तिस्रः “पृथिवीः त्रीँल्लोकान् "अधो ”अस्तु अधस्ताद्भवतु । लोकत्रयादपि प्रच्युतो भवत्वित्यर्थः । हे "देवाः “अस्य शत्रोः "यशः अन्नं कीर्तिर्वा “प्रति “शुष्यतु । "यः राक्षसः "नः अस्मान् "दिवा अहनि “दिप्सति जिघांसति "यश्च "नक्तं रात्रौ जिघांसति अस्योभयविधस्य यशः प्रति शुष्यत्विति संबन्धः॥


सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते ।

तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥१२

सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ ।

तयोः॑ । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑यः । तत् । इत् । सोमः॑ । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥१२

सुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति ।

तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत् ॥१२

प्रायेणेदमादिभिर्ऋग्भी राक्षसेन सहर्षिणा शपथः क्रियते । अत्र केचिदाहुः-- हत्वा पुत्रशतं पूर्वं वसिष्ठस्य महात्मनः । वसिष्ठं राक्षसोऽसि त्वं वासिष्ठं रूपमास्थितः ॥ अहं वसिष्ठ इत्येवं जिघांसू राक्षसोऽब्रवीत् । अत्रोत्तरा ऋचो दृष्टा वसिष्ठेनेति नः श्रुतम् ॥ इति । "चिकितुषे विदुषे "जनाय इदं "सुविज्ञानं विज्ञातुं सुशकं भवति । किं तत् । "सच्च सत्यं च "असच्च असत्यं च । "वचसी सत्यासत्यरूपे वचने "पस्पृधाते मिथः स्पर्धेते । "तयोः सदसतोर्मध्ये "यत्सत्यं यथार्थं वचनं “यतरत् यच्च “ऋजीयः ऋजुतममकुटिलं ”तदित् तदेवाकुटिलं सत्यभाषणं "सोमः "अवति रक्षति । "असत् उक्तविलक्षणमसत्यं "हन्ति हिनस्ति। एवं सत्यावयोर्मध्ये कतरोऽनृतभाषीति विद्वद्भिः सुविज्ञानमित्यर्थः ॥


न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम् ।

हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥१३

न । वै । ऊं॒ इति॑ । सोमः॑ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् ।

हन्ति॑ । रक्षः॑ । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥१३

न । वै । ऊं इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् ।

हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥१३

“वृजिनं पापकारिणं राक्षसं "सोमः देवः "न "वा "उ न खलु “हिनोति प्रेरयति । गच्छ त्वमिति न मुञ्चति । तथा "क्षत्रियम् । क्षत्रं बलम् । तद्वन्तं "मिथुया मिथ्याभूतं वचनं “धारयन्तं बिभ्रतमसत्यवादिनं पुरुषं "न च हिनोति न विसृजति । अपि तु "रक्षः राक्षसं हन्ति । "असत् असत्यं "वदन्तं च "हन्ति हिनस्ति । "उभौ राक्षसानृतवादिनौ तौ सोमेन हतौ "इन्द्रस्य संबन्धिनि “प्रसितौ बन्धने "शयाते निवसतः । यद्वा । इन्द्रस्येति तृतीयार्थे षष्ठी । इन्द्रेणेश्वरेण सोमेन प्रसितौ बद्धौ। ‘षिञ् बन्धने' । अस्मात् कर्मणि निष्ठा ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥


यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने ।

किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥१४

यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । आस॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ ।

किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒ऽवाचः॑ । ते॒ । निः॒ऽऋ॒थम् । स॒च॒न्ता॒म् ॥१४

यदि । वा । अहम् । अनृतऽदेवः । आस । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने ।

किम् । अस्मभ्यम् । जातऽवेदः । हृणीषे । द्रोघऽवाचः । ते । निःऽऋथम् । सचन्ताम् ॥१४

"यदि "वा “अहमनृतदेवः अनृता असत्यभूता देवा यस्य तादृशो यद्यहम् "आस अस्मि । अथवा "मोघं "वा निष्फलं वा "देवान् "अप्यूहे उपगच्छामि । अहं यद्युक्तरूपोऽस्मि हे "अग्ने तर्हि मां बाधस्व । न ह्यहं तथाविधोऽस्मि । एवं सति हे "जातवेदः जातानां वेदितरग्ने "अस्मभ्यं किं कारणं "हृणीषे क्रुध्यसि । तव क्रोधोऽस्मासु न जायतामित्यर्थः । "द्रोघवाचः अनृतवाचो राक्षसाः “ते तव "निर्ऋथम् । निष्पूर्वोऽर्तिर्हिंसायां वर्तते । निर्ऋथं निःशेषेणार्तिं हिंसां "सचन्तां सेवन्ताम् ॥


अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य ।

अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥१५

अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधानः॑ । अस्मि॑ । यदि॑ । वा॒ । आयुः॑ । त॒तप॑ । पुरु॑षस्य ।

अध॑ । सः । वी॒रैः । द॒शऽभिः॑ । वि । यू॒याः॒ । यः । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ । आह॑ ॥१५

अद्य । मुरीय । यदि । यातुऽधानः । अस्मि । यदि । वा । आयुः । ततप । पुरुषस्य ।

अध । सः । वीरैः । दशऽभिः । वि । यूयाः । यः । मा । मोघम् । यातुऽधान । इति । आह ॥१५

इयमपि शपथरूपैव । "यदि अहं वसिष्ठः "यातुधानः राक्षसः "अस्मि "अद्य अस्मिन्नेव दिने “गुरीय म्रियेय । अपि "वा “पुरुषस्य मनुष्यस्य “आयुः जीवितं "यदि अहं राक्षसो भूत्वा "ततप हिंसितवानस्मि तर्ह्यप्यहमद्य म्रियेयेत्यन्वयः । "अध अथैवं स्यात् अहं वसिष्ठस्त्वं राक्षस इति तर्हि “सः त्वं "दशभिः "वीरैः पुत्रैः । उपलक्षणमेतत् । सर्वैर्बन्धुजनैः “वि "यूयाः वियुक्तो भवेः । "यः राक्षसः “मा मां "मोघं मृषैव हे "यातुधान हे राक्षस “इति संबोध्य "आह ॥ ॥ ७ ॥


यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ ।

इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥१६

यः । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । यः । वा॒ । र॒क्षाः । शुचिः॑ । अ॒स्मि॒ । इति॑ । आह॑ ।

इन्द्रः॑ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥१६

यः । मा । अयातुम् । यातुऽधान । इति । आह । यः । वा । रक्षाः । शुचिः । अस्मि । इति । आह ।

इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट ॥१६

“यः राक्षसो माम् "अयातुम् अराक्षसं सन्तं हे “यातुधान हे राक्षस “इति संबोध्य “आह ब्रूते "यो “वा यश्च "रक्षाः राक्षसः "शुचिरस्मि शुद्धो भवामि न राक्षसोऽस्मि “इत्याह ब्रूते “तम् उभयविधं राक्षसम् "इन्द्रः “महता प्रौढेन “वधेन आयुधेन वज्रेण "हन्तु हिनस्तु । स च “विश्वस्य सर्वस्य "जन्तोः जनस्य “अधमः निकृष्टः सन् “पदीष्ट पततु ॥


प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना ।

व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥१७

प्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हा । त॒न्व॑म् । गूह॑माना ।

व॒व्रान् । अ॒न॒न्तान् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑णः । घ्न॒न्तु॒ । र॒क्षसः॑ । उ॒प॒ब्दैः ॥१७

प्र । या । जिगाति । खर्गलाऽइव । नक्तम् । अप । द्रुहा । तन्वम् । गूहमाना ।

वव्रान् । अनन्तान् । अव । सा । पदीष्ट । ग्रावाणः । घ्नन्तु । रक्षसः । उपब्दैः ॥१७

“या राक्षसी "नक्तं रात्रौ “द्रुहा द्रोहेण युक्ता "खर्गलेव उलूकीव “प्र “जिगाति प्रगच्छति । किं कुर्वती । “तन्वं स्वकीयं शरीरम् "अप "गूहमाना अपवृण्वती प्रकाशयन्ती । “सा राक्षसी “अनन्तान् अपर्यन्तान् "वव्रान् गर्तान् "अव "पदीष्ट अवाङ्मुखी पततु । "ग्रावाणः सोमाभिषवार्थाः पाषाणाश्च "उपब्दैः अभिषवशब्दैः "रक्षसः राक्षसान् “घ्नन्तु हिंसन्तु ॥


वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षस॒ः सं पि॑नष्टन ।

वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥१८

वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षसः॑ । सम् । पि॒न॒ष्ट॒न॒ ।

वयः॑ । ये । भू॒त्वी । प॒तय॑न्ति । न॒क्तऽभिः॑ । ये । वा॒ । रिपः॑ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥१८

वि । तिष्ठध्वम् । मरुतः । विक्षु । इच्छत । गृभायत । रक्षसः । सम् । पिनष्टन ।

वयः । ये । भूत्वी । पतयन्ति । नक्तऽभिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे ॥१८

हे "मरुतः यूयं "विक्षु प्रजासु "वि “तिष्ठध्वं विविधं तिष्ठत । तत्र गूढान् राक्षसान् हन्तुम् “इच्छत अन्विच्छत । तदनन्तरं "रक्षसः तान् राक्षसान् "गृभायत गृभ्णीत गृह्णीत । गृहीत्वा च "सं “पिनष्टन चूर्णयत । "ये राक्षसाः “वयः पक्षिणः “भूत्वी भूत्वा "नक्तभिः रात्रिभी रात्रिषु “पतयन्ति आगच्छन्ति । "ये “वा ये च "देवे दीप्ते "अध्वरे यागे "रिपः हिंसाः "दधिरे विदधिरे । तान् राक्षसान् सं पिनष्टनेत्यन्वयः ॥


प्र व॑र्तय दि॒वो अश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्सं शि॑शाधि ।

प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षस॒ः पर्व॑तेन ॥१९

प्र । व॒र्त॒य॒ । दि॒वः । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ ।

प्राक्ता॑त् । अपा॑क्तात् । अ॒ध॒रात् । उद॑क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः॑ । पर्व॑तेन ॥१९

प्र । वर्तय । दिवः । अश्मानम् । इन्द्र । सोमऽशितम् । मघऽवन् । सम् । शिशाधि ।

प्राक्तात् । अपाक्तात् । अधरात् । उदक्तात् । अभि । जहि । रक्षसः । पर्वतेन ॥१९

हे "इन्द्र "दिवः अन्तरिक्षात् "अश्मानम् अशनिं “प्र “वर्तय प्रेरय राक्षसान् हन्तुम् । तथा "सोमशितं सोमेन तीक्ष्णीभूतं यजमानं हे “मघवन् धनवन्निन्द्र “सं “शिशाधि संस्कुरु । अपि च "प्राक्तात् प्राच्याः "अपाक्तात् प्रतीच्याः "अधरात् अवाच्याः उदक्तात् उत्तरतः सर्वस्मादपि दिग्भागात् "रक्षसः राक्षसान "पर्वतेन पर्ववता वज्रेण "अभि "जहि मारय ॥


ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् ।

शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्य॑ः ॥२०

ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सवः॑ । अदा॑भ्यम् ।

शिशी॑ते । श॒क्रः । पिशु॑नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥२०

एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातवः । इन्द्रम् । दिप्सन्ति । दिप्सवः । अदाभ्यम् ।

शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्यः ॥२०

“त्ये ते एते राक्षसाः “श्वयातवः श्वभिः परिकरभूतैर्हिंसन्तः श्वभिः सह यान्तो वा "पतयन्ति पतन्ति । ये "दिप्सवः जिघांसवः सन्तः "अदाभ्यम् अहिंस्यम् "इन्द्रं “दिप्सन्ति जिघांसन्ति तेभ्यः “पिशुनेभ्यः पिशुनान् कपटान् हन्तुं "शक्रः शक्त इन्द्रः “वधम् आयुधमशनिरूपं “शिशीते तीक्ष्णीकरोति । "यातुमद्भ्यः राक्षसेभ्यः "नूनं क्षिप्रम् "अशनिं "सृजत् विसृजतु हननार्थम् ॥ ॥ ८ ॥


इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् ।

अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्स॒त ए॑ति र॒क्षस॑ः ॥२१

इन्द्रः॑ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒विः॒ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् ।

अ॒भि । इत् । ऊं॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः॑ ॥२१

इन्द्रः । यातूनाम् । अभवत् । पराऽशरः । हविःऽमथीनाम् । अभि । आऽविवासताम् ।

अभि । इत् । ऊं इति । शक्रः । परशुः । यथा । वनम् । पात्राऽइव । भिन्दन् । सतः । एति । रक्षसः ॥२१

“यातूनां हिंसकानां रक्षसामयम् "इन्द्रः "पराशरः पराशातयिता हिंसिता “अभवत् । कीदृशानाम् । "हविर्मथीनां हवींषि मथ्नतामभिमुखम् "आविवासताम् आगच्छताम् । अपि चायं “शक्रः इन्द्रः “वनं वृक्षजातं “परशुर्यथा छिन्दन् कुठार इव "पात्रेव मृन्मयानि पात्राणि "भिन्दन् मुद्गर इव च "सतः । प्राप्तनामैतत् । यदाह यास्कः-’ तिरः सत इति प्राप्तस्य ' (निरु. ३. २०) इति । प्राप्तान् "रक्षसः राक्षसान् भिन्दन् हिंसन् "अभि "एति अभिगच्छति । इदू पूरणौ ॥


उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् ।

सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥२२

उलू॑कऽयातुम् । शु॒शु॒लूक॑ऽयातुम् । ज॒हि । श्वऽया॑तुम् । उ॒त । कोक॑ऽयातुम् ।

सु॒प॒र्णऽया॑तुम् । उ॒त । गृध्र॑ऽयातुम् । दृ॒षदा॑ऽइव । प्र । मृ॒ण॒ । रक्षः॑ । इ॒न्द्र॒ ॥२२

उलूकऽयातुम् । शुशुलूकऽयातुम् । जहि । श्वऽयातुम् । उत । कोकऽयातुम् ।

सुपर्णऽयातुम् । उत । गृध्रऽयातुम् । दृषदाऽइव । प्र । मृण । रक्षः । इन्द्र ॥२२

"उलुकयातुम् । उलूकैः परिकरभूतैः सह यातयति हिनस्तीति याति गच्छतीति वोलूकया यद्वा उलूकरूपी यातीत्युलुकयातुः । हे इन्द्र तादृशं राक्षसं "जहि विनाशय । तथा च बृहद्देवतामुक्तम्- उलूकयातुं जह्येतान्नानारूपान्निशाचरान् ॥ स्त्रीपुंरूपांश्च तिर्यञ्चो जिघांसूनिन्द्र मे जहि (बृहद्दे. ६. ३२) इति । एवमुत्तरत्रापि योज्यम् । "शुशुलूकयातुम् । उलूका द्विविधा बृहदुलूक अल्पोलूकाश्चेति । तत्रोलूकयातुमिति बृहदुलूकाभिप्रायेणोक्तम् । शिशुरल्प उलूकः शुशुलूकः । तद्रूपे वर्तमानं राक्षसं “श्वयातुं श्वरूपेण वर्तमानं राक्षसम् "उत अपि च "कोकयातुम् । कोकश्चक्रवाकः तद्रूपेण वर्तमानं राक्षसं "सुपर्णयातुम् । सुपर्णः श्येनः । तदाकारं यातुधानम् "उत अपि च "गृध्रयातुं गृध्ररूपं च यातुधानम् । एतान् सर्वान्नानाकारान् हे “इन्द्र जहि। किं बहुना “दृषदेव पाषाणेनेव वज्रेण "रक्षः राक्षसमात्रं “प्र “मृण मारय ।।


मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ ।

पृ॒थि॒वी न॒ः पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥२३

मा । नः॒ । रक्षः॑ । अ॒भि । न॒ट् । या॒तु॒ऽमाव॑ताम् । अप॑ । उ॒च्छ॒तु॒ । मि॒थु॒ना । या । कि॒मी॒दिना॑ ।

पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥२३

मा । नः । रक्षः । अभि । नट् । यातुऽमावताम् । अप । उच्छतु । मिथुना । या । किमीदिना ।

पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥२३

“रक्षः राक्षसजातिः "नः अस्मान् “मा "अभि "नट् माभिव्याप्नोतु । नशतेर्व्याप्तिकर्मणो लुङि 'मन्त्रे घस' इति च्लेर्लुक्। 'न माङ्योगे' इत्यडभावः। तथा "यातुमावतां यातनावतां राक्षसानां "मिथुना मिथुनानि स्त्रीपुंसरूपाणि युगलानि “अपोच्छतु । उषा अपि विवासयतु अपवर्जयतु । “या यानि मिथुनानि “किमीदिना किमीदिनानि किमिदं किमिदमिति जिघांसया वर्तमानानि भवन्ति । अपि च "पृथिवी प्रथितेयं भूमिश्च “नः अस्मान् "पार्थिवात् पृथिव्या अन्तरिक्षस्य संबन्धिनः "अंहसः पापात् "पातु रक्षतु । "अन्तरिक्षं च "दिव्यात् दिविभवात् पापात् “अस्मान् "पातु रक्षतु ।।


इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् ।

विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्सूर्य॑मु॒च्चर॑न्तम् ॥२४

इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् ।

विऽग्री॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥२४

इन्द्र । जहि । पुमांसम् । यातुऽधानम् । उत । स्त्रियम् । मायया । शाशदानाम् ।

विऽग्रीवासः । मूरऽदेवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥२४

हे "इन्द्र “पुमांसं पुंरूपधारिणं "यातुधानं राक्षसं "जहि मारय । "उत अपि च "मायया वञ्चनया “शाशदानां हिंसन्तीं “स्त्रियं राक्षसीं च जहि । अपि च मूरदेवाः मारणक्रीडा राक्षसाः “विग्रीवासः विच्छिन्नग्रीवाः सन्तः “ऋदन्तु नश्यन्तु । "ते तथाविधा राक्षसाः “उच्चरन्तम् उद्यन्तं "सूर्यम् आदित्यं "मा “दृशन् मा द्राक्षुः ।।


प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् ।

रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्य॑ः ॥२५

प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्रः॑ । च॒ । सो॒म॒ । जा॒गृ॒त॒म् ।

रक्षः॑ऽभ्यः । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥२५

प्रति । चक्ष्व । वि । चक्ष्व । इन्द्रः । च । सोम । जागृतम् ।

रक्षःऽभ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्ऽभ्यः ॥२५

हे "सोम त्वम् "इन्द्रश्च “प्रति “चक्ष्व प्रत्येकं पश्य राक्षसान् । तथा “वि “चक्ष्व विविधं पश्य । यथास्मान्न बाधेरन् तथा पश्येत्यर्थः । युवां च संहतौ "जागृतम्। जागरूकौ रक्षोवधोद्युक्तौ भवतम् । "यातुमद्भ्यः हिंसावद्यःजर “रक्षोभ्यः राक्षसेभ्यः “अशनिम् अशनिरूपं “वधम् आयुधम् “अत्यतं क्षिपतम् ॥ ॥ ९ ॥


॥ इति सप्तमे मण्डले षष्ठोऽनुवाकः । सप्तमं मण्डलं समाप्तम् ॥


टिप्पणी

७.१०४.१६ यो मायातुं यातुधानेति --

ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु । याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।।बृहद्देवता १.४९ ।।


७.१०४.२२ उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् । सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥

ऋचि उलूक, शुशुलूकादियातूनां हननकृत्यस्य तुलना इन्द्रेण दृषदस्य हननेनसह कृतमस्ति। इन्द्रः दृषदस्य हननं केन प्रकारेण कर्तुं शक्यते, अस्मिन् संदर्भे अथर्ववेदे मन्त्रमस्ति - इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥ - शौ.अ. २.३१.१ । इन्द्रः केनापि प्रकारेण दृषदस्य मह्नं कर्तुं समर्थः भवति। ऋ. ८.७२.४ मध्ये कथनं अस्ति - दृषदं जिह्वयावधीत् ॥ यदा जिह्वा बन्धनतः मुक्ता भूत्वा कपालकुहरे प्रविष्टुं समर्था भवति, तदा दिव्यरसानां आस्वादनकर्तुं शक्ता भवति। तदा हनूरूपा या दृषदस्ति, तस्याः हननं भवति, इति कथितुं शक्यन्ते। द्र. दृषदोपरि टिप्पणी

ये उलूक, शुशुलूकादि यातूनि सन्ति, एका व्याख्या एवंप्रकारेण कर्तुं शक्यन्ते यत् एतानि कटुवाक्यानि सन्ति ये उरसि विक्षोभं उत्पद्यन्ते। तेषां चिकित्सा केन प्रकारेण भवेत्। मृतकस्य उरसि दृषदस्य स्थापनस्य निर्देशमस्ति। द्र. उर उपरि टिप्पणी

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१०४&oldid=401028" इत्यस्माद् प्रतिप्राप्तम्