प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← सूक्तं ७.८९ ऋग्वेदः - मण्डल ७
सूक्तं ७.९०
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९१ →
दे. वायुः, ५-७ इन्द्रवायू। त्रिष्टुप्।


प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥१॥
ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो ।
कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥२॥
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥३॥
उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः ।
गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥४॥
ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति ।
इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥५॥
ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।
इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥६॥
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

षष्ठेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘प्र वीरया' इति सप्तर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम्। यासु पञ्चम्याद्यासु द्विवचनमस्ति ता ऐन्द्रवायव्यः । तथा चानुक्रान्तं - प्र वीरया सप्त वायव्यं ह्यैन्द्र्यश्च या द्विवदुक्ताः' इति ।


तृतीये छन्दोमे प्रउगशस्त्रे ‘प्र वीरया' इति वायव्यस्तृचः । सूत्रितं च - प्र वीरया शुचयो दद्रिरे वां ते सत्येन मनसा दीध्यानाः' (आश्व. श्रौ. ८. ११) इति ॥

प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑ः ।

वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥१

प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रि॒रे॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ ।

वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥१

प्र । वीरऽया । शुचयः । दद्रिरे । वाम् । अध्वर्युऽभिः । मधुऽमन्तः । सुतासः ।

वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥१

हे वायो "वीरया वीराय विविधमीरयित्रे ॥ ‘सुपां सुलुक्' इति चतुर्थ्या याजादेशः ।। “वां ते । व्यत्ययेन द्विवचनम् । तुभ्यं “शुचयः शुद्धाः "मधुमन्तः माधुर्योपेताः "सुतासः अभिषुताः सोमा ऐतरेयिभिर्नवमेऽहनि प्रउगे “अध्वर्युभिः अध्वरस्य नेतृभिर्ऋत्विग्भिः “प्र “दद्रिरे प्रदीयन्ते । “दद दाने' इत्यस्यैतद्रूपम् । यत एवमतः कारणात् हे "वायो “नियुतः वडवाः "वह रथं प्रापय । तेन च रथेन "अच्छ “याहि । अस्मद्यज्ञमभिगच्छ । अभिगत्य च “सुतस्य अभिषुतस्य "अन्धसः अन्नस्य सोमलक्षणस्य स्वकीयं भागं "पिब । किमर्थम् । "मदाय मदोत्पत्यर्थम् ॥


शुनासीरीये पर्वणि वायव्यस्य हविषः ‘ईशानाय' इति याज्या। सूत्रितं च -- स त्वं नो देव मनसेशानाय प्रहुतिं यस्त आनट् ' (आश्व. श्रौ. २. २०) इति । वायव्ये पशावेषैव पशुपुरोडाशस्य याज्या। सूत्रितं च - ईशानाय प्रहुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वम् ( आश्व. श्रौ. ३. ८) इति ।।

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।

कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥२

ई॒शा॒नाय॑ । प्रऽहु॑तिम् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ ।

कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तःऽजा॑तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥२

ईशानाय । प्रऽहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिऽपाः । तुभ्यम् । वायो इति ।

कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाजी । अस्य ॥२

हे “वायो “ईशानाय ईश्वराय “ते तुभ्यं त्वदर्थं “प्रहुतिं प्रकृष्टामाहुतिं चरुपुरोडाशादिसाध्यां “यः यजमानः "आनट् प्राप्नोत् । दद्यादित्यर्थः । तथा हे “शुचिपाः शुद्धस्य सोमस्य पातर्वायो "तुभ्यं “शुचिं शुद्धं "सोमं च यः प्रयच्छति “मर्त्येषु मनुष्येषु मध्ये "तं यजमानं “प्रशस्तं मुख्यं "कृणोषि करोषि । स च "जातोजातः सर्वत्र प्रादुर्भूतः प्रख्यातः सन् “वाज्यस्य प्राप्तव्यस्य धनस्य प्राप्तये “जायते अवकल्पते । सर्वं धनं लभत इत्यर्थः ॥


नियुत्वद्गुणविशिष्टवायुदेवताके पशौ ‘राये नु यम्' इति पुरोडाशस्य याज्या। सूत्रितं च - राये नु यं जज्ञत् रोदसीमे प्र वायुमच्छा बृहती मनीषा' (आश्व. श्रौ. ३. ८) इति ॥

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।

अध॑ वा॒युं नि॒युत॑ः सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥३

रा॒ये । नु । यम् । ज॒ज्ञतुः॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । रा॒ये । दे॒वी । धि॒षणा॑ । धा॒ति॒ । दे॒वम् ।

अध॑ । वा॒युम् । नि॒ऽयुतः॑ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु॑ऽधितिम् । नि॒रे॒के ॥३

राये । नु । यम् । जज्ञतुः । रोदसी इति । इमे इति । राये । देवी । धिषणा । धाति । देवम् ।

अध । वायुम् । निऽयुतः । सश्चत । स्वाः । उत । श्वेतम् । वसुऽधितिम् । निरेके ॥३

“इमे “रोदसी द्यावापृथिव्यौ "यं वायुं “राये धनार्थं "नु क्षिप्रं "जज्ञतुः जनयामासतुः तं "देवं दानादिगुणयुक्तं वायुं "देवी द्योतमाना “धिषणा स्तुतिः "राये धनार्थं “धाति धारयति । धनं यथा लभ्यते तथा प्रेरयतीत्यर्थः । "अध अधुनैवं स्तुतौ प्रवृत्तायां "स्वाः स्वकीयाः "नियुतः वडवा रथवाहाः "वायुं “सश्चत सचन्ते सेवन्ते । "उत अपि च "श्वेतं शुभ्रवर्णं "निरेके । नितरां रेको रिक्तता निरेकः । दारिद्र्यमित्यर्थः । तस्मिन् सति "वसुधितिं वसूनां धातारं प्रदातारं तं वायुं नियुतोऽस्मद्यज्ञं प्रापयन्तीति शेषः ॥


द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य ‘उच्छन्नुषसः' इति तृतीया । सूत्रितं च - ‘ उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्यः' (आश्व. श्रौ. ८. १०) इति ॥

उ॒च्छन्नु॒षस॑ः सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।

गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिव॑ः सस्रु॒राप॑ः ॥४

उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः ।

गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । स॒स्रुः॒ । आपः॑ ॥४

उच्छन् । उषसः । सुऽदिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः ।

गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रऽदिवः । सस्रुः । आपः ॥४

येऽङ्गिरसो वायुमस्तोषत तेषाम् "अरिप्राः पापरहिताः "उषसः "सुदिनाः शोभनदिनस्य हेतुभूताः सत्यः "उच्छन् औच्छन् व्यवासयन् । ते च “दीध्यानाः दीप्यमानाः सन्तः "उरु विस्तीर्णं "ज्योतिः सूर्याख्यं “विविदुः वायोः प्रसादादलभन्त । अपि च "उशिजः कामयमानास्तेऽङ्गिरसः “गव्यं “चित् गोसंघरूपमपि “ऊर्वं धनं पणिभिरपहृतं "वि “वव्रुः व्यवृण्वन् अलभन्त । तथा “तेषाम् अङ्गिरसामर्थाय “प्रदिवः पुराण्यः “आपः "अनु सस्रुः अन्वसरन् अन्वगच्छन् । हिताचरणपरा आसन्नित्यर्थः । आवरकस्यासुरस्य वायुना हननादसुरेणाहृतानुषःप्रभृतीन् पुनर्लब्धवन्त इत्यर्थः ॥


तृतीये छन्दोमे प्रउगशस्त्रे ते सत्येन' इत्यैन्द्रवायवस्तृचः । सूत्रितं च -- ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्याम्' (आश्व. श्रौ. ८. ११) इति ॥

ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒ः स्वेन॑ यु॒क्तास॒ः क्रतु॑ना वहन्ति ।

इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्ष॑ः सचन्ते ॥५

ते । स॒त्येन॑ । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ ।

इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥५

ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति ।

इन्द्रवायू इति । वीरऽवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥५

“ते प्रसिद्धाः "सत्येन यथार्थेन "मनसा मननीयेन स्तोत्रेण युक्ताः "दीध्यानाः दीप्यमानाः “स्वेन स्वकीयेन विहितेन "क्रतुना कर्मणा नित्यनैमित्तिकात्मना “युक्तासः युक्ता एवंभूता यजमाना हे "इन्द्रवायू "वीरवाहं वीरैर्विशेषेणेरयितृभिः स्तोतृभिर्वहनीयं प्रापणीयम् । यद्वा वीरैः अश्वैर्वहनीयम् । तम् ईशानयोः ईश्वरयोः "वां युवयोः स्वभूतं "रथं "वहन्ति स्वं स्वं यज्ञं प्रापयन्ति । तत्र च “पृक्षः अन्नानि हविर्लक्षणानि “अभि "सचन्ते युवामभिसेवन्ते ॥


ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।

इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥६

ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः ।

इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥६

ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसुऽभिः । हिरण्यैः ।

इन्द्रवायू इति । सूरयः । विश्वम् । आयुः । अर्वत्ऽभिः । वीरैः । पृतनासु । सह्युः ॥६

हे “इन्द्रवायू “ईशानासः ईश्वराः प्रभवः “ये जनाः “नः अस्मभ्यं “गोभिः “अश्वेभिः अश्वैः “वसुभिः निवासकैः “हिरण्यैः च सहितं “स्वः सुष्ठ्वरणीयं सुखं “दधते ददति प्रयच्छन्ति । यद्वा । हिरण्यव्यतिरिक्तानि धनानि वसूनि । तैर्हिरण्यैश्च सहेत्यर्थः । ते “सूरयः दातारः “विश्वं व्याप्तम् “आयुः अन्नं जीवनं वा शत्रूणां स्वभूतं “पृतनासु संग्रामेषु अर्वद्भिः अश्वैः “वीरैः शूरभटैश्च साधनभूतैः “सह्युः अभिभवेयुः । यद्वा सहार्थे तृतीया । अर्वद्भिर्वीरैः पुत्रैश्च सहितं शत्रूणामायुरभिभवेयुरित्यर्थः ॥


अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।

वा॒ज॒यन्त॒ः स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।

वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।

वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

“अर्वन्तो “न अश्वा इव हविषां वोढारः “श्रवसः अन्नस्य । द्वितीयार्थे षष्ठी । अन्नं “भिक्षमाणाः याचमानाः “वाजयन्तः वाजं बलमात्मन इच्छन्तः “वसिष्ठाः वयं “स्ववसे शोभनरक्षणाय सुष्ठु तर्पणाय वा "सुष्टुतिभिः शोभनाभिः स्तुतिभिः “इन्द्रवायू इन्द्रं वायुं च "हुवेम आह्वयेमहि । अन्यद्गतम् ॥ ॥ १२ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९०&oldid=201428" इत्यस्माद् पुनः प्राप्तिः