ऋग्वेदः सूक्तं ७.६१
← सूक्तं ७.६० | ऋग्वेदः - मण्डल ७ सूक्तं ७.६१ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.६२ → |
दे. मित्रावरुणौ। त्रिष्टुप्। |
उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् ।
अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥१॥
प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति ।
यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥२॥
प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू ।
स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥३॥
शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।
अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥४॥
अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् ।
द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥५॥
समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः ।
प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥६॥
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥७॥
सायणभाष्यम्
“उद्वां चक्षुः' इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मैत्रावरुणम्। 'उद्वां सप्त ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।
अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥१
उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् ।
अ॒भि । यः । विश्वा॑ । भुव॑नानि । चष्टे॑ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥१
उत् । वाम् । चक्षुः । वरुणा । सुऽप्रतीकम् । देवयोः । एति । सूर्यः । ततन्वान् ।
अभि । यः । विश्वा । भुवनानि । चष्टे । सः । मन्युम् । मर्त्येषु । आ । चिकेत ॥१
हे “वरुणा मित्रावरुणौ “देवयोः द्योतमानयोः “वां युवयोः “चक्षुः प्रकाशकं तेजः “सुप्रतीकं शोभनरूपमेवंरूपः “सूर्यः “ततन्वान् तेजो विस्तारयन् “उत् “एति उद्गच्छति । अथोदितः “यः देवः “विश्वा सर्वाणि “भुवनानि भूतजातानि “अभि “चष्टे अभिपश्यति “सः देवः “मर्त्येषु प्रवृत्तं “मन्युं स्तोत्रं कर्म वा “आ “चिकेत आजानाति ॥
प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति ।
यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रद॑ः पृ॒णैथे॑ ॥२
प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तऽवा॑ । विप्रः॑ । मन्मा॑नि । दी॒र्घ॒ऽश्रुत् । इ॒य॒र्ति॒ ।
यस्य॑ । ब्रह्मा॑णि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू । अवा॑थः । आ । यत् । क्रत्वा॑ । न । श॒रदः॑ । पृ॒णैथे॒ इति॑ ॥२
प्र । वाम् । सः । मित्रावरुणौ । ऋतऽवा । विप्रः । मन्मानि । दीर्घऽश्रुत् । इयर्ति ।
यस्य । ब्रह्माणि । सुक्रतू इति सुऽक्रतू । अवाथः । आ । यत् । क्रत्वा । न । शरदः । पृणैथे इति ॥२
हे मित्रावरुणौ "वां युवयोः “मन्मानि मननीयानि स्तोत्राणि "सः प्रसिद्धः “विप्रः मेधावी “ऋतावा यज्ञवान् “दीर्घश्रुत् चिरकालं श्रोता एवमुक्तलक्षणो वसिष्ठः “इयर्ति प्रेरयति । “यस्य ऋषेः “ब्रह्माणि परिवृढानि स्तोत्राणि हे "सुक्रतू शोभनकर्माणौ “अवाथः रक्षथः । “यत् कर्म “शरदः बहून् संवत्सरान् “आ “पृणैथे आपूरयेथे स उदियर्ति ।।
प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू ।
स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥३
प्र । उ॒रोः । मि॒त्रा॒व॒रु॒णा॒ । पृ॒थि॒व्याः । प्र । दि॒वः । ऋ॒ष्वात् । बृ॒ह॒तः । सु॒दा॒नू॒ इति॑ सुऽदानू ।
स्पशः॑ । द॒धा॒थे॒ इति॑ । ओष॑धीषु । वि॒क्षु । ऋध॑क् । य॒तः । अनि॑ऽमिषम् । रक्ष॑माणा ॥३
प्र । उरोः । मित्रावरुणा । पृथिव्याः । प्र । दिवः । ऋष्वात् । बृहतः । सुदानू इति सुऽदानू ।
स्पशः । दधाथे इति । ओषधीषु । विक्षु । ऋधक् । यतः । अनिऽमिषम् । रक्षमाणा ॥३
हे “मित्रावरुणा मित्रावरुणौ युवाम् “उरोः विस्तीर्णायाः “पृथिव्याः अपि “प्र प्ररिरिचाथे । ‘ अस्येदेव प्र रिरिचे' (ऋ. सं. १. ६१. ९) इत्यादिषु प्रशब्दस्य रिरिच इत्यनेन सह संबन्धदर्शनादत्राप्युचितक्रियाध्याहारेण रिरिच इति योज्यम् । तथा “ऋष्वात् गुणैर्महतः “बृहतः स्वरूपतोऽतिमहतः “दिवः द्युलोकादपि “प्र रिरिचाथे हे “सुदानू शोभनदानौ। किंच “ओषधीषु “विक्षु प्रजासु निमित्तभूतासु प्रजासु चेति वा “स्पशः रूपं “दधाथे धारयेथे । किं कुर्वन्तौ । “ऋधग्यतः ऋधक्सत्येन यतो विवेकात् सत्येन गच्छतो जनान् “अनिमिषम् अव्यवधानेन सर्वदा “रक्षमाणा पालयन्तौ ।।
शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा ।
अय॒न्मासा॒ अय॑ज्वनाम॒वीरा॒ः प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥४
शंस॑ । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । शुष्मः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धे॒ । म॒हि॒ऽत्वा ।
अय॑न् । मासाः॑ । अय॑ज्वनाम् । अ॒वीराः॑ । प्र । य॒ज्ञऽम॑न्मा । वृ॒जन॑म् । ति॒रा॒ते॒ ॥४
शंस । मित्रस्य । वरुणस्य । धाम । शुष्मः । रोदसी इति । बद्बधे । महिऽत्वा ।
अयन् । मासाः । अयज्वनाम् । अवीराः । प्र । यज्ञऽमन्मा । वृजनम् । तिराते ॥४
हे ऋषे “मित्रस्य “वरुणस्य च ”धाम तेजःस्थानं "शंस स्तुहि। ययोर्दैवयोः “शुष्मः बलं “रोदसी द्यावापृथिव्यौ सह वर्तमाने "महित्वा स्वमहत्त्वेन “बद्बधे बध्नाति पृथक् स्थापयति इयं पृथिवीयं द्यौरिति पृथक्करोति । ‘द्यावापृथिवी सहास्ताम् ' (तै. ब्रा. १. १. ३. २) इति श्रुतेः । “अयज्वनाम् अननुष्ठातॄणां “मासाः कालावयवाः “अवीराः अपुत्रा एव “अयन् यन्तु गच्छन्तु । तद्विपरीतः “यज्ञमन्मा यज्ञार्थं मतिमान् यज्वा “वृजनं बलं “प्र “तिराते प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥
अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् ।
द्रुह॑ः सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥५
अमू॑रा । विश्वा॑ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु॑ । चि॒त्रम् । ददृ॑शे । न । य॒क्षम् ।
द्रुहः॑ । स॒च॒न्ते॒ । अनृ॑ता । जना॑नाम् । न । वा॒म् । नि॒ण्यानि॑ । अ॒चिते॑ । अ॒भू॒व॒न् ॥५
अमूरा । विश्वा । वृषणौ । इमाः । वाम् । न । यासु । चित्रम् । ददृशे । न । यक्षम् ।
द्रुहः । सचन्ते । अनृता । जनानाम् । न । वाम् । निण्यानि । अचिते । अभूवन् ॥५
हे "अमूरा अमूढौ हे “विश्वा व्याप्तौ हे “वृषणौ वर्षितारौ “वां युवाभ्याम् “इमाः इमानि स्तुतिवचांसि क्रियन्ते । "यासु स्तुतिषु “चित्रम् आश्चर्यं “न “ददृशे न दृश्यते “न "यक्षं न पूजा दृश्यते । युवाभ्यां महिम्नोऽपि महत्त्वात् प्रयत्नेन क्रियमाणमपि स्तोत्रं न चमत्करोतीत्यर्थः । “जनानाम् “अनृता अस्तुत्यविषयाणि स्तोत्राणि “द्रुहः द्रोग्धारः “सचन्ते सेवन्ते । न महान्तः । “वां युवाभ्यां क्रियमाणानि “निण्यानि अन्तर्हितानि रहस्यान्यपि स्तोत्राणि "अचिते अज्ञानाय “न "अभूवन् न भवन्ति ।।
समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाध॑ः ।
प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥६
सम् । ऊं॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः॑ऽभिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒ऽबाधः॑ ।
प्र । वा॒म् । मन्मा॑नि । ऋ॒चसे॑ । नवा॑नि । कृ॒तानि॑ । ब्रह्म॑ । जु॒जु॒ष॒न् । इ॒मानि॑ ॥६
सम् । ऊं इति । वाम् । यज्ञम् । महयम् । नमःऽभिः । हुवे । वाम् । मित्रावरुणा । सऽबाधः ।
प्र । वाम् । मन्मानि । ऋचसे । नवानि । कृतानि । ब्रह्म । जुजुषन् । इमानि ॥६
हे मित्रावरुणौ “वां युवयोः “यज्ञं “नमोभिः नमस्कारैः स्तुतिभिः “समु “महयं संपूजयाम्यहम् । तदर्थं हे "मित्रावरुणा मित्रावरुणौ “वां “सबाधः बाधायुक्तोऽहं “हुवे आह्वयामि बाधापरिहाराय । “वां युवाम् "ऋचसे सेवितुं “नवानि नूतनानि स्तुत्यानि वा “मन्मानि स्तोत्राणि “प्र भवन्वित्यध्याहारः। “कृतानि मया समूहीकृतानि “इमानि इदानीं क्रियमाणानि “ब्रह्म परिवृढानि स्तोत्राणि युवां “जुजुषन् प्रीणयन्तु ।।
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७
इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७
इयम् । देव । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।
विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
‘ इयं देव ' इति सप्तमी गता ॥ ॥ ३ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|