ऋग्वेदः सूक्तं ७.२६
← सूक्तं ७.२५ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२६ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.२७ → |
दे. इन्द्रः। त्रिष्टुप् । |
न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥१॥
उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः ।
यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥२॥
चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु ।
जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥३॥
एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् ।
मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥४॥
एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति ।
सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘ न सोम इन्द्रम्' इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते-- ’ न सोमः पञ्च' इति । महाव्रत उक्तो विनियोगः ॥
न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तास॑ः ।
तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥१
न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ ।
तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥१
न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघऽवानम् । सुतासः ।
तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृऽवत् । नवीयः । शृणवत् । यथा । नः ॥१
“मघवानं धनवन्तम् “इन्द्रम् “असुतः नाभिषुतः “सोमः “न “ममाद न तर्पयति । "सुतासः अभिषुता अपि सोमाः "अब्रह्माणः स्तोत्रहीनाः “न ममदुः । ममाद इत्येतदाख्यातं बहुवचनान्ततया विपरिणतं सदत्र संबध्यते । अत एव त्रिष्वपि सवनेषु पावमानैः स्तोत्रैः स्तुता एव सोमा हूयन्ते । अपि च “नः अस्मदीयं “यत् "उक्थम् इन्द्रः "जुजोषत् सेवेत "यथा च "नृवत् राजेवादरेण “शृणवत् शृणुयात् तथा "नवीयः नवतरम्' उक्थं शस्त्रं “तस्मै इन्द्राय “जनये । पठामीत्यर्थः ॥
उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तास॑ः ।
यदीं॑ स॒बाध॑ः पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥२
उ॒क्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ ।
यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥२
उक्थेऽउक्थे । सोमः । इन्द्रम् । ममाद । नीथेऽनीथे । मघऽवानम् । सुतासः ।
यत् । ईम् । सऽबाधः । पितरम् । न । पुत्राः । समानऽदक्षाः । अवसे । हवन्ते ॥२
“यत् यस्मात् "उक्थेउक्थे शस्त्रेशस्त्रे क्रियमाणे “सोमः "मघवानम् “इन्द्रं 'ममाद मादयति “नीथेनीथे स्तोत्रेस्तोत्रे क्रियमाणे “सुतासः अभिषुताः सोमाः मादयन्ति तस्मात् “ईम् एनमिन्द्रं “सबाधः परस्परं मिलिताः “समानदक्षाः समानोत्साहा ऋत्विजः “पुत्राः “पितरं “न पितरमिव “अवसे तर्पणाय स्वरक्षणाय वा "हवन्ते । शस्त्रैः स्तोत्रैश्च स्तुवन्ति ॥
च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धस॑ः सु॒तेषु॑ ।
जनी॑रिव॒ पति॒रेक॑ः समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्र॒ः सु सर्वा॑ः ॥३
च॒कार॑ । ता । कृ॒णव॑त् । नू॒नम् । अ॒न्या । यानि॑ । ब्रु॒वन्ति॑ । वे॒धसः॑ । सु॒तेषु॑ ।
जनीः॑ऽइव । पतिः॑ । एकः॑ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः॑ । इन्द्रः॑ । सु । सर्वाः॑ ॥३
चकार । ता । कृणवत् । नूनम् । अन्या । यानि । ब्रुवन्ति । वेधसः । सुतेषु ।
जनीःऽइव । पतिः । एकः । समानः । नि । ममृजे । पुरः । इन्द्रः । सु । सर्वाः ॥३
“वेधसः स्तोत्राणां विधातारः “सुतेषु सोमेष्वभिषुतेषु “यानि कर्माणि “ब्रुवन्ति तानि वृत्रवधादीनि कर्माणीन्द्रः पूर्वस्मिन् काले “चकार । “नूनं संप्रत्यपि “अन्या अन्यानि कर्माणि “कृणवत् कुर्यात् । अपि च सः “इन्द्रः “सर्वाः “पुरः शत्रुनगरीः “समानः समवृत्तिः “एकः असहायः “पतिः “जनीरिव जाया इव "सु “नि “मामृजे सम्यक् शोधयेत् ॥
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म् ।
मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥४
ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् ।
मि॒थः॒ऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥४
एव । तम् । आहुः । उत । शृण्वे । इन्द्रः । एकः । विऽभक्ता । तरणिः । मघानाम् ।
मिथःऽतुरः । ऊतयः । यस्य । पूर्वीः । अस्मे इति । भद्राणि । सश्चत । प्रियाणि ॥४
“यस्य इन्द्रस्य “मिथः परस्परं “तुरः बाधमानाः संश्लिष्टा वा “पूर्वीः पूर्व्यो बह्व्यः “ऊतयः रक्षाः सन्ति “तम् “एव एवमुक्तगुणम् “आहुः पूर्वे ऋषयः। “उत अपि चाद्यापि सः “इन्द्रः "मघानां मंहनीयानां धनानां “विभक्ता दाता इति “तरणिः आपदस्तारयितेति “शृण्वे श्रूयते । तस्य च प्रसादात् “अस्मे अस्मान् “प्रियाणि “भद्राणि कल्याणानि "सश्चत सेवन्ताम् ॥
ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।
स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति ।
सहस्रिणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
“वसिष्ठः "नॄन् नृणाम् । षष्ठ्यर्थे द्वितीया । "ऊतये रक्षायै "कृष्टीनां प्रजानां “वृषभं कामानां वर्षितारम् “इन्द्रम् “एव एवं पूर्वोक्तप्रकारेण "गृणाति स्तौति । अथ प्रत्यक्षस्तुतिः । हे इन्द्र नः अस्मभ्यं “सहस्रिणः सहस्रसंख्याकान् “वाजान् अन्नानि “उप “माहि । प्रयच्छेत्यर्थः । स्पष्टमन्यत् ॥ ॥ १० ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|