ऋग्वेदः सूक्तं ७.७३
← सूक्तं ७.७२ | ऋग्वेदः - मण्डल ७ सूक्तं ७.७३ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.७४ → |
दे. अश्विनौ। त्रिष्टुप्। |
अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥१॥
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥२॥
अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥३॥
उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी ।
समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥४॥
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘अतारिष्म ' इति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् । अतारिष्म' इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।।
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यंतो॒ दधा॑नाः ।
पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥१
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तः॑ । दधा॑नाः ।
पु॒रु॒ऽदंसा॑ । पु॒रु॒ऽतमा॑ । पु॒रा॒ऽजा । अम॑र्त्या । ह॒व॒ते॒ । अ॒श्विना॑ । गीः ॥१
अतारिष्म । तमसः । पारम् । अस्य । प्रति । स्तोमम् । देवऽयन्तः । दधानाः ।
पुरुऽदंसा । पुरुऽतमा । पुराऽजा । अमर्त्या । हवते । अश्विना । गीः ॥१
“अस्य “तमसः अज्ञानस्य तत्कार्यस्य जननमरणवतः संसारदुःखस्य अथवा प्रकृतत्वात् प्रयोगविषयाज्ञानस्य “पारम् “अतारिष्म तीर्णाः स्म । किं कुर्वन्तः । “देवयन्तः देवकामाः “स्तोमं स्तुतिं "प्रति “दधानाः देवेषु कुर्वाणाः । “पुरुदंसा बहुकर्माणौ “पुरुतमा प्रभूततमौ “पुराजा पूर्वजातौ अत एव “अमर्त्या अमरणधर्माणौ “अश्विना अश्विनौ “गीः गरिता स्तोता वसिष्ठः “हवते स्तौति आह्वयति वा ।।
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वंद॑ते च ।
अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥२
नि । ऊं॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ ।
अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥२
नि । ऊं इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च ।
अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥२
“प्रियः युवयोः प्रियभूतः “मनुषः मानुषो मनुषः सकाशाज्जातो वा “होता देवानामाह्वाता स्तोतायं “नि “षादि न्यसादि निषण्णो भवति । युवयोः कर्मणि वर्तत इत्यर्थः । हे “नासत्या अश्विनौ “यः “यजते यागं करोति “वन्दते स्तौति “च तस्य संबन्धिनं “मध्वः मधुरं सोमरसं हे “अश्विना अश्विनौ “उपाके अन्तिक एव समीपे स्थित्वैव “अश्नीतम् । पिबतमित्यर्थः । “विदथेषु यज्ञेषु “वां युवा “प्रयस्वान् अन्नवान् सन् "आ “वोचे आह्वये ॥
अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥३
अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥३
अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥३
"उराणाः उरु स्तोत्रं कुर्वाणाः स्तोतारो वयं “पथां पततामागच्छतां देवानामर्थाय “यज्ञं यागं तत्साधनं हविर्वा “अहेम वर्धयेम । हे “वृषणा वर्षकौ कामानाम् “इमां “सुवृक्तिं शोभनस्तुतिं “जुषेथां सेवेथाम् । “वां युवां “श्रुष्टीवेव। श्रुष्टीति क्षिप्रनाम । क्षिप्रगन्ता दूत इव “प्रेषितः अहम् "अबोधि । बोधयति शीघ्रं गन्तव्यमिति । किं कुर्वन् । “स्तोमैः स्तोत्रैः “प्रति "जरमाणः प्रतिस्तुवन् । कः। “वसिष्ठः अहमबोधीति ॥
उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ संभृ॑ता वी॒ळुपा॑णी ।
समंधां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥४
उप॑ । त्या । वह्नी॒ इति॑ । ग॒म॒तः॒ । विश॑म् । नः॒ । र॒क्षः॒ऽहना॑ । सम्ऽभृ॑ता । वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी ।
सम् । अन्धां॑सि । अ॒ग्म॒त॒ । म॒त्स॒राणि॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन॑ ॥४
उप । त्या । वह्नी इति । गमतः । विशम् । नः । रक्षःऽहना । सम्ऽभृता । वीळुपाणी इति वीळुऽपाणी ।
सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन ॥४
“त्या त्यौ तौ “वह्नी हविषां वोढारौ "नः अस्माकं “विशं प्रजामृत्विजम् “उप “गमतः उपगच्छताम् । कीदृशौ तौ। “रक्षोहणा रक्षसां हन्तारौ “संभृता सम्यग्भृतौ पुष्टाङ्गौ “वीळुपाणी दृढपाणी । यद्वा । अयमर्धर्चोऽश्वपरतया व्याख्येयः । तथा सति तौ रथस्य वोढारौ दृढपादावश्विनोरश्वावुपगच्छतामिति तस्यार्थः। “अन्धांसि अन्नानि “मत्सराणि मदकराणि सोमान् “सम् “अग्मत समगच्छतं युवाम् । “नः अस्मान् “मा “मर्धिष्टं मा हिंस्तम्। किंतु “शिवेन मङ्गलेन धनेन सार्धम् “आ “गतम् आगच्छतम् ॥ १.
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५
आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
‘आ पश्चातात्' इति पञ्चम्या विनियोगो व्याख्या च गता ॥ ॥२०॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|