← सूक्तं ७.२१ ऋग्वेदः - मण्डल ७
सूक्तं ७.२२
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२३ →
दे. इन्द्रः। विराट्, ९ त्रिष्टुप्।


पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ॥३॥
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
कृष्वा दुवांस्यन्तमा सचेमा ॥४॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
सदा ते नाम स्वयशो विवक्मि ॥५॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
मारे अस्मन्मघवञ्ज्योक्कः ॥६॥
तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
त्वं नृभिर्हव्यो विश्वधासि ॥७॥
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
न वीर्यमिन्द्र ते न राधः ॥८॥
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ।
अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥९॥


सायणभाष्यम्

‘ पिबा सोममिन्द्र मन्दतु त्वा' इति नवर्चं पञ्चमं सूक्तम् । अनुक्रम्यते च -- पिब नव वैराजमृतेऽन्त्याम्' इति । वसिष्ठ ऋषिः । आदितोऽष्टौ विराजो नवमी त्रिष्ट्रप् । इन्द्रो देवता । दशरात्रे चतुर्थेऽहनि निष्केवल्यशस्त्रे ‘ पिबा सोममिन्द्र' इति षट् स्तोत्रियानुरूपौ । सूत्रितं च-- ’ वैराजं चेत्पृष्ठं पिबा सोममिन्द्र मन्दतु त्वेति षट् स्तोत्रियानुरूपौ' (आश्व. श्रौ. ७. ११) इति । महाव्रतेऽपि निष्केवल्य आद्याः षडृचः । सूत्रितं च--’ पिबा सोममिन्द्र मन्दतु त्वेति षट्' (ऐ. आ. ५. ३. १ ) इति । आद्या निष्केवल्यशस्त्रयाज्या । सूत्रितं च -- पिबा सोममिन्द्र मन्दतु त्वेति याज्या' (आश्व. श्रौ. ५. १५) इति । चतुर्थेऽहनि माध्यंदिनसवने होत्रकशस्त्रेषु सप्त विराजस्त्रींस्तृचान् कृत्वैकैकस्तृचः शंसनीयः । तत्र ‘न ते गिरः' इत्याद्याश्चतस्र ऋचः । सूत्रितं च -’ न ते गिरो अपि मृष्ये तुरस्य प्र वो महे महिवृधे भरध्वम्' (आश्व. श्रौ. ७. ११) इति ॥


पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रि॑ः ।

सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥१

पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽअ॒श्व॒ । अद्रिः॑ ।

सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥१

पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुसाव । हरिऽअश्व । अद्रिः ।

सोतुः । बाहुऽभ्याम् । सुऽयतः । न । अर्वा ॥१

हे "इन्द्र “सोमं “पिब । स सोमः “त्वा त्वां “मन्दतु मादयतु । हे “हर्यश्व "ते त्वदर्थं “सोतुः अभिषवकर्तुः "बाहुभ्याम् “अर्वा “न रश्मिभ्यामश्व इव "सुयतः सुष्ठु परिगृहीतः “अद्रिः ग्रावा “यं सोमं “सुषाव ॥


यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।

स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥२

यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ।

सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥२

यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ।

सः । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥२

हे “हर्यश्व "ते तव “यः “युज्यः अनुगुणः “चारुः समीचीनः “मदः मदकरः सोमः “अस्ति विद्यते “येन च पीतेन सोमेन “वृत्राणि “हंसि हे “प्रभूवसो प्रभूतंधन “इन्द्र “त्वां “सः सोमः “ममत्तु मादयतु ।


बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् ।

इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥३

बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् ।

इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒ ॥३

बोध । सु । मे । मघऽवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रऽशस्तिम् ।

इमा । ब्रह्म । सधऽमादे । जुषस्व ॥३

हे "मघवन् धनवन्निन्द्र "ते तव "प्रशस्तिं स्तुतिरूपां "यां "वाचं "वसिष्ठः “अर्चति वदति ताम् “इमां "मे वसिष्ठस्य संबन्धिनीं वाचं "सु "आ “बोध सुष्ठु अभिबुध्यस्व । किंच “इमा इमानि “ब्रह्म ब्रह्माणि "सधमादे यज्ञे "जुषस्व सेवस्व ॥


श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् ।

कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥४

श्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॑स्य । अर्च॑तः । म॒नी॒षाम् ।

कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥४

श्रुधि । हवम् । विऽपिपानस्य । अद्रेः । बोध । विप्रस्य । अर्चतः । मनीषाम् ।

कृष्व । दुवांसि । अन्तमा । सचा । इमा ॥४

हे इन्द्र “विपिपानस्य विपीतवतो विपिबतो वा मस “अद्रेः ग्राव्णः "हवम् आह्वानं "श्रुधि शृणु । तथा च निगमान्तरं--’ ग्रावभ्यो वाचं वदता वदद्यः् ' (ऋ. सं. १०. ९४. १ ) इति । “विप्रस्य प्राज्ञस्य वसिष्ठस्य "अर्चतः स्तुवतः "मनीषां स्तुतिं "बोध बुध्यस्व च। "इमा इमानि क्रियमाणानि “दुवांसि परिचरणानि “अन्तमा अन्तिकतमानि बुद्धिस्थानि “सचा सह सहायभूतः सन् वा "कृष्व कुरु च ॥


न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् ।

सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥५

न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् ।

सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥५

न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुऽस्तुतिम् । असुर्यस्य । विद्वान् ।

सदा । ते । नाम । स्वऽयशः । विवक्मि ॥५

हे इन्द्र “तुरस्य शत्रूणां हिंसकस्य "ते तव "गिरः स्तुतीः "असुर्यस्य । द्वितीयार्थे षष्ठी । त्वदीयमसुर्यं बलं “विद्वान् जानन्नहं "न “अपि "मृष्ये । मृषिर्मार्जनकर्मा । न मार्जयामि । न परित्यजामीत्यर्थः । "सुष्टुतिं शोभनां स्तुतिं च “न अपि मृष्ये। मृषेर्मार्जनकर्मत्वमन्यत्रापि दृश्यते । तद्यथा--' मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठाः' (ऋ. सं. १. ७१. १०) इति । किंतु "स्वयशः असाधारणयशः “ते तव "नाम स्तोत्रं सदैव "विवक्मि ब्रवीमि ॥ ॥ ५ ॥


भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् ।

मारे अ॒स्मन्म॑घव॒ञ्ज्योक्क॑ः ॥६

भूरि॑ । हि । ते॒ । सव॑ना । मानु॑षेषु । भूरि॑ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् ।

मा । आ॒रे । अ॒स्मत् । म॒घ॒ऽव॒न् । ज्योक् । क॒रिति॑ कः ॥६

भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् ।

मा । आरे । अस्मत् । मघऽवन् । ज्योक् । करिति कः ॥६

हे "मघवन् "ते तव "सवना सवनानि सोमाभिषवणानि "भूरि भूरीणि "मानुषेषु अस्मासु वर्तन्त इति शेषः । "मनीषी स्तोता “त्वामित् त्वामेव "भूरि “हवते नितरां ह्वयति स्तौति । अतः “अस्मत् अस्मत्तः "आरे दूरे "ज्योक् चिरकालं “मा "कः आत्मानं मा कार्षीः। क्षिप्रमात्मानमस्मदासन्नं कुर्वित्यर्थः ॥


तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि ।

त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥७

तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ ।

त्वम् । नृऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥७

तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि ।

त्वम् । नृऽभिः । हव्यः । विश्वधा । असि ॥७

हे "शूर “तुभ्येत् तुभ्यमेव “इमा इमानि "विश्वा विश्वानि "सवना सोमाभिषवणानि मया क्रियन्त इति शेषः । "तुभ्यं त्वदर्थमेव “वर्धना वर्धनानि “ब्रह्माणि स्तोत्राणि "कृणोमि करोमि। “त्वम् एव "नृभिः यज्ञानां नेतृभिः "विश्वधा सर्वप्रकारैः "हव्यः ह्वातव्यः स्तुत्यो वा "असि ॥


नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र ।

न वी॒र्य॑मिन्द्र ते॒ न राध॑ः ॥८

नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ ।

न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥८

नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र ।

न । वीर्यम् । इन्द्र । ते । न । राधः ॥८

हे "दस्म दर्शनीय "मन्यमानस्य स्तूयमानस्य “ते तव "महिमानम् । नू चिदिति प्रतिषेधार्थः । "नु क्षिप्रं "नू "चित् "उदश्नुवन्ति केचन न प्राप्नुवन्ति । हे "उग्र उद्गूर्ण “ते तव "राधः धनं "न उदश्नुवन्ति ॥


ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्रा॑ः ।

अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥९

ये । च॒ । पूर्वे॑ । ऋष॑यः । ये । च॒ । नूत्नाः॑ । इन्द्र॑ । ब्रह्मा॑णि । ज॒नय॑न्त । विप्राः॑ ।

अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥९

ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इन्द्र । ब्रह्माणि । जनयन्त । विप्राः ।

अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः॥ ९

“ये "च "पूर्वे प्राक्तनाः “ऋषयः "ये “च "नूत्नाः नूतनाः "विप्राः मेधाविन ऋषयः “ब्रह्माणि स्तोत्राणि "जनयन्त अजनयन्त तेष्विव “अस्मे अस्मास्वपि हे “इन्द्र "ते तव "सख्या सख्यानि “शिवानि भद्राणि "सन्तु । स्पष्टमन्यत् ॥ ॥ ६ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२२&oldid=189288" इत्यस्माद् प्रतिप्राप्तम्