महाभारतम्-09-शल्यपर्व-016

← शल्यपर्व-015 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-016
वेदव्यासः
शल्यपर्व-017 →

युधिष्ठिरेण शल्यशल्यानुजयोर्वधः।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

सञ्जय उवाच
अथान्यद्धनुरादाय बलवान्वेगवत्तरम्
युधिष्ठिरं मद्र पतिर्विद्ध्वा सिंह इवानदत् १
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः २
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ३
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान्
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ४
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ५
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ६
तं भीमसेनश्च शिनेश्च नप्ता माद्र य्श्चा पुत्रौ पुरुषप्रवीरौ
समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः ७
ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम्
आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः ८
संरक्षितो भीमसेनेन राजा माद्री सुताभ्यामथ माधवेन
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ९
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम्
पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् १०
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत्
तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ११
आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च १२
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ १३
तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्र वज्राशनितुल्यनिस्वनः
परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः १४
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव
विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ १५
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण १६
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन्
जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् १७
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः
शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः १८
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः
भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः १९
ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान्
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुङ्गवस्य २०
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा
शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः २१
ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य
निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा २२
ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ
कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात २३
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान्
वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः २४
तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्र म् २५
अथापरेणास्य जहार यन्तुः कायाच्छिरः संनहनीयमध्यात्
जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः २६
तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम्
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव २७
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् २८
प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत्
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् २९
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम्
धृष्टद्यम्न्! द्रौ पदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ३०
अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा दशभिः पृषत्कः
खड्गं च भल्लैर्निचकर्त्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ३१
तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसंनिकाशान् ३२
तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम्
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसंज्ञकल्पं च तथा विषण्णम् ३३
स मद्र राजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ३४
स धर्मराजो निहताश्वसूतं क्रोधेन दीप्तोज्वलनप्रकाशम्
दृष्ट्वा तु मद्रा धिपतिं स तूर्णं समभ्यधावत्तमरिं बलेन ३५
गोविंदवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय
स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ३६
तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम्
स्मृत्वा मनः शल्यवधे यथात्मा यथोक्तमिन्द्रा वरजस्य चक्रे ३७
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम्
नेत्रे च दीप्ते सहसा विवृत्य मद्रा धिपं क्रुद्धमना निरैक्षत् ३८
निरीक्षितो वै नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण
अभून्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् ३९
ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम्
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ४०
दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम्
प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् ४१
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम्
स ब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः ४२
गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात्
संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ४३
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम्
भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् ४४
घण्टापताकामणिवज्रभाजं वैडूर्यचित्रां तपनीयदण्डाम्
त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां ब्रह्मद्विषामन्तकरीममोघाम् ४५
बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा
ससर्ज मार्गेण च तां परेण वधाय मद्रा धिपतेस्तदानीम् ४६
हतोऽस्यसावित्यभिगर्जमानो रुद्रो ऽन्तकायान्तकरं यथेषुम्
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ४७
तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम्
प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ४८
सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती ४९
नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसंभवेन
संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रि ः! ५०
प्रसार्य बाहू स रथाद्गतो गां संछिन्नवर्मा कुरुनन्दनेन
महेन्द्र वाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ५१
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्र राट्
ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ५२
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ५३
प्रियया कान्तया कान्तः पतमान इवोरसि
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ५४
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना
सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ५५
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्
संशान्तमपि मद्रे शं लक्ष्मीर्नैव व्यमुञ्चत ५६
ततो युधिष्ठिरश्चापमादायेन्द्र धनुष्प्रभम्
व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान्
देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ५७
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव
निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः
संन्यस्तकवचा देहैर्विपन्नायुधजीविताः ५८
ततः शल्ये निपतिते मद्र राजानुजो युवा
भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ५९
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्
हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ६०
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ६१
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ६२
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्
पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ६३
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात्
रुधिरेणावसिक्ताङ्गं दृष्टा सैन्यमभज्यत ६४
विचित्रकवचे तस्मिन्हते मद्र नृपानुजे
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ६५
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः
वित्रेसुः पाण्डवभयाद्र जोध्वस्तास्तथा भृशम् ६६
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ
शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ६७
तमायान्तं महेष्वासमप्रसह्यं दुरासदम्
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ६८
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ
हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ६९
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ७०
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ७१
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ७२
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः
अन्यदादत्त वेगेन वेगवत्तरमायुधम् ७३
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ७४
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः
अश्वांस्तस्यावधीत्तूर्णभुभौ च पार्ष्णिसारथी ७५
मद्र राजे हते राजन्विरथे कृतवर्मणि
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ७६
तत्परे नावबुध्यन्त सैन्येन रजसा वृते
बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ७७
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ७८
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्
जवेनापततः पार्थानेकः सर्वानवारयत् ७९
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्
आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ८०
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ८१
ततो युधिष्ठिरो राजा त्वरमाणो महारथः
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ८२
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ८३
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ८४
एवमेतन्महाराज युद्धशेषमवर्तत
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ८५
तस्मिन्महेष्वासवरे विशस्ते संग्राममध्ये कुरुपुङ्गवेन
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ८६
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम्
चक्रुश्च नानविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ८७
 इति श्रीमहाभारते शल्यपर्वणि षोडशोऽध्यायः १६
 समाप्तं शल्यवधपर्व

सञ्जय उवाच। 9-16-1x
तं भीमसेनश्च शिनेश्च नप्ता
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्त।।
9-16-1a
9-16-1b
9-16-1c
9-16-1d
ततस्तु शूराः समरे नरेन्द्र
नरेश्वरं प्राप्य युधां वरिष्ठम्।
आवार्य चैनं समरे नृवीरा
जघ्नुः शितैः पत्रिभिरुग्रवेगैः।।
9-16-2a
9-16-2b
9-16-2c
9-16-2d
संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने।।
9-16-3a
9-16-3b
9-16-3c
9-16-3d
ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम्।
पर्यावव्रुः प्रवराः सर्वयोधा
दुर्योधनस्यानुमते पुरस्तात्।।
9-16-4a
9-16-4b
9-16-4c
9-16-4d
ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविद्व्यत्।
तं चापि पार्थौ नवभिः पृषत्कै--
र्विव्याध राजंस्तुमुले महात्मा।।
9-16-5a
9-16-5b
9-16-5c
9-16-5d
आकर्णपूर्णायतसम्प्रयुक्तैः
शरैस्तदा संयति तैलधौतैः।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च।।
9-16-6a
9-16-6b
9-16-6c
9-16-6d
ततस्तु तूर्णं समरे महारथौ
परस्परस्यान्तरमीक्षमाणौ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ
महबलौ शत्रुभिरप्रधृष्यौ।।
9-16-7a
9-16-7b
9-16-7c
9-16-7d
तयोर्धनुर्ज्यातलनिःस्वनो महा--
न्महेन्द्रवज्राशनितुल्यनिः स्वनः।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः।।
9-16-8a
9-16-8b
9-16-8c
9-16-8d
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्विनाविव।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयति जातदर्पौ।।
9-16-9a
9-16-9b
9-16-9c
9-16-9d
ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण।।
9-16-10a
9-16-10b
9-16-10c
9-16-10d
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसम्प्रयुक्तेन शरेण राजन्।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे वृषभः कुरूणाम्।।
9-16-11a
9-16-11b
9-16-11c
9-16-11d
ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः।
शरेण पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः।।
9-16-12a
9-16-12b
9-16-12c
9-16-12d
त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य कोपान्नवभिः पृषत्कैः।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः।।
9-16-13a
9-16-13b
9-16-13c
9-16-13d
ततस्तु मद्राधिपतिः प्रकृष्टं
धनुर्विकृष्य व्यसृजत्पृषत्कान्।
द्वाभ्यां शराभ्यां च तथैव राज्ञ--
श्चिच्छेद चापं कुरुपुङ्गवस्य।।
9-16-14a
9-16-14b
9-16-14c
9-16-14d
नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्धोरतरं महात्मा।
शल्यं तु विव्याध शरैः समन्ता--
द्यथा महेन्द्रो नमुचिं शिताग्रैः।।
9-16-15a
9-16-15b
9-16-15c
9-16-15d
ततस्तु शल्यो नवभिः पृषत्कै--
र्भीमस्य राज्ञश्च युधिष्ठिरस्य।
निकृत्य रौक्मे पटुवर्मणी तयो--
र्विदास्यामास भुजौ महात्मा।।
9-16-16a
9-16-16b
9-16-16c
9-16-16d
ततोऽपरेण ज्वलनार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखः पपात।।
9-16-17a
9-16-17b
9-16-17c
9-16-17d
मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान्।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः।।
9-16-18a
9-16-18b
9-16-18c
9-16-18d
`यदद्भुतं कर्म न शक्यमन्यैः
सुदुःसहं तत्कृतवन्तमेकम्।
शल्यो नरेन्द्रः सविषण्णभावा--
द्विचिन्तयामास मृदङ्गकेतुः।।
9-16-19a
9-16-19b
9-16-19c
9-16-19d
किमेतदिन्द्रावरजस्य वाक्यं
मोघं भवत्यद्य विधेर्बलेन।
जहीति शल्यं ह्यवदत्तदाऽऽजौ
न लोकनाथस्य वचोऽन्यथा स्यात्।।'
9-16-20a
9-16-20b
9-16-20c
9-16-20d
तथा कृते राजनि भीमसेनो
मद्राधिपस्याथ ततो महात्मा।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्।।
9-16-21a
9-16-21b
9-16-21c
9-16-21d
तथापरेणास्य जहार यन्तुः
कायाच्छिरः संहननीयमध्यात्।
जघान चाश्वांश्चतुरः सुशीघ्रं
तथा भृशं कुपितो भीमसेनः।।
9-16-22a
9-16-22b
9-16-22c
9-16-22d
तमग्रणीः सर्वधनुर्धराणा--
मेकं चरन्तं समरेऽतिवेगम्।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव।।
9-16-23a
9-16-23b
9-16-23c
9-16-23d
तैः सायकैर्मोहितं वीक्ष्य शल्यं
भीमः शरैरस्य चकर्त वर्म।
स भीमसेनेन निकृत्तवर्मा
मद्राधिपश्चर्म सहस्रतारम्।।
9-16-24a
9-16-24b
9-16-24c
9-16-24d
प्रगृह्य खङ्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत्।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत्।।
9-16-25a
9-16-25b
9-16-25c
9-16-25d
तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम्।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः।।
9-16-26a
9-16-26b
9-16-26c
9-16-26d
अथास्य चर्माप्रतिमं न्यकृन्त--
द्भीमो महात्मा नवभिः पृषत्कैः।
खङ्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये।।
9-16-27a
9-16-27b
9-16-27c
9-16-27d
तत्कर्म भीमस्य समीक्ष्य हृष्टा--
स्ते पाण्डवानां प्रवरा रथौघाः।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसन्निकाशान्।।
9-16-28a
9-16-28b
9-16-28c
9-16-28d
तेनाथ शब्देन विभीषणेन
तथाऽभितप्तं बलमप्रधृष्यम्।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसञ्ज्ञकल्पं च तदा विषण्णम्।।
9-16-29a
9-16-29b
9-16-29c
9-16-29d
स मद्रराजः सहसा विकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः।।
9-16-30a
9-16-30b
9-16-30c
9-16-30d
स धर्मराजो निहताश्वसूतः
क्रोधेन दीप्तो ज्वलनप्रकाशः।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं
समभ्यधावत्तमरिं बलेन।।
9-16-31a
9-16-31b
9-16-31c
9-16-31d
गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय।
स धर्मराजो निहताश्वसूतो
रथे तिष्ठञ्शक्तिमथान्वकर्षत्।।
9-16-32a
9-16-32b
9-16-32c
9-16-32d
तच्चxx शल्यस्य निशाम्य कर्म
तमात्मनो भागमथावशिष्टम्।
कृत्वा मनः शल्यवधे महात्मा
यथोक्तमिन्द्रावरजस्य चक्रे।।
9-16-33a
9-16-33b
9-16-33c
9-16-33d
स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम्।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत्।।
9-16-34a
9-16-34b
9-16-34c
9-16-34d
निरीक्षितो धर्मसुतेन राज्ञा
षूतात्मना निर्हृतकल्मषेण।
आसीन्न यद्भस्मसान्मद्रराज--
स्तदद्भुतं मे प्रतिभाति राजन्।।
9-16-35a
9-16-35b
9-16-35c
9-16-35d
ततस्तु शक्तिं रचिरोग्रदण्डां
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम्।।
9-16-36a
9-16-36b
9-16-36c
9-16-36d
दीप्तामथैनां प्रहितां बलेन
सविस्फुलिङ्गां सहसापतन्तीम्।
प्रैक्षन्त सर्वे कुरवः समेता
दिवो युगान्ते महतीमिवोल्काम्।।
9-16-37a
9-16-37b
9-16-37c
9-16-37d
तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम्।
स ब्रह्मदण्डप्रतिमाममोधां
ससर्ज यत्तो युधि धर्मराजः।।
9-16-38a
9-16-38b
9-16-38c
9-16-38d
गन्धस्रगग्र्यासनपानभोजनै--
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम्।।
9-16-39a
9-16-39b
9-16-39c
9-16-39d
ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्।
भूम्यन्तरिक्षद्युजलाश्रयाणि
प्रसह्य भूतानि निहन्तुमीशाम्।।
9-16-40a
9-16-40b
9-16-40c
9-16-40d
घण्‍टापताकां मणिवज्रभूषां
वैदूर्यचित्रां तपनीयदण्डाम्।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम्।।
9-16-41a
9-16-41b
9-16-41c
9-16-41c
बलप्रयत्नादनिरोधवेगां
मन्त्रैश्च घोरैरपि पूरयित्वा।
ससर्ज मार्गेण च तां खगानां
वधाय मद्राधिपतेस्तदानीम्।।
9-16-42a
9-16-42b
9-16-42c
9-16-42d
हतो ह्यसावित्यभिगर्जमानो
रुद्रोऽन्धकायान्तकरं यथेषुम्।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः।।
9-16-43a
9-16-43b
9-16-43c
9-16-43d
`स्फुरत्प्रभामण्डलिनोंशुजालै--
र्धर्मात्मनो मद्रविनाशकाले।
पुरत्रयप्रोत्सरणे पुरस्ता--
न्माहेश्वरं रूपमभूत्तदानीम्।।
9-16-44a
9-16-44b
9-16-44c
9-16-44d
आवर्तनाकुञ्चितबाहुदण्डः
सन्ध्याविहारी तनुवृत्तमध्यः।
विशालवक्षा भगवान्हरो यथा
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः'।।
9-16-45a
9-16-45b
9-16-45c
9-16-45d
तां सर्वशक्त्या प्रहितां सुशक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम्।
प्रतिग्रहायाभिननन्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम्।।
9-16-46a
9-16-46b
9-16-46c
9-16-46d
सा तस्य वर्माभिविदार्य शुभ्र--
मुरो विशालं च तथैव भित्त्वा।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्हरन्ती।।
9-16-47a
9-16-47b
9-16-47c
9-16-47d
नासाक्षिकर्णास्यविनिः सृतेन
प्रस्यन्दता च व्रणसम्भवेन।
संसिक्तगात्रो रुधिरेण सोऽभू--
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः।।
9-16-48a
9-16-48b
9-16-48c
9-16-48d
प्रसार्य बाहू च रथाद्गतो गां
सञ्छिन्नवर्मा कुरुनन्दनेन।
महेन्द्रवाहप्रतिमो महात्मा
वज्राहतं शृङ्गमिवाचलस्य।।
9-16-49a
9-16-49b
9-16-49c
9-16-49d
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः।
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः।।
9-16-50a
9-16-50b
9-16-50c
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः।
प्रियया कान्तया कान्तः पतमान इवोरसि।।
9-16-51a
9-16-51b
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत्।।
9-16-52a
9-16-52b
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे।।
9-16-53a
9-16-53b
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति।।
9-16-54a
9-16-54b
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्।
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात्।।
9-16-55a
9-16-55b
9-16-55c
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव।
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः।।
9-16-56a
9-16-56b
9-16-56c
ततः शल्ये निपतिते मद्रराजानुजो युवा।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात्।।
9-16-57a
9-16-57b
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः।।
9-16-58a
9-16-58b
तं विव्याधाशुगैः ष़ड्‌भिर्धर्मराजस्त्वरन्निव।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च।।
9-16-59a
9-16-59b
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः।।
9-16-60a
9-16-60b
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः।।
9-16-61a
9-16-61b
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत।।
9-16-62a
9-16-62b
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः।।
9-16-63a
9-16-63b
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम्।।
9-16-64a
9-16-64b
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः।।
9-16-65a
9-16-65b
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत्।।
9-16-66a
9-16-66b
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ।।
9-16-67a
9-16-67b
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ।।
9-16-68a
9-16-68b
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान्।।
9-16-69a
9-16-69b
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा।।
9-16-70a
9-16-70b
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम्।।
9-16-71a
9-16-71b
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।
9-16-72a
9-16-72b
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी।।
9-16-73a
9-16-73b
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्।।
9-16-74a
9-16-74b
मद्रराजे हते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्।।
9-16-75a
9-16-75b
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम्।।
9-16-76a
9-16-76b
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ।।
9-16-77a
9-16-77b
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्।
जवेनापततः पार्थानेकः सर्वानवारयत्।।
9-16-78a
9-16-78b
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत्।।
9-16-79a
9-16-79b
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत।।
9-16-80a
9-16-80b
ततो युधिष्ठिरो राजा त्वरमाणो महारथः।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः।
विव्याध गौतमं चापि ष़ड्‌भिर्भल्लैः सुतेजनैः।।
9-16-81a
9-16-81b
9-16-81c
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम्।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्।।
9-16-82a
9-16-82b
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम्।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः।।
9-16-83a
9-16-83b
एवमेतन्महाराज युद्धशेषमवर्तत।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत।।
9-16-84a
9-16-84b
तस्मिन्महेष्वासधरे विशस्ते
सङ्ग्राममध्ये कुरुपुङ्गवेन।
पार्थाः समेताः परमप्रहृष्टाः
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्।।
9-16-85a
9-16-85b
9-16-85c
9-16-85d
युधिष्ठिरं च प्रशशंसुराजौ
पुरा सुरा वृत्रवधे यथेन्द्रम्।
चक्रुश्च नानाविधवाद्यशब्दा--
न्निनादयन्तो वसुधां समन्तात्।।
9-16-86a
9-16-86b
9-16-86c
9-16-86d
।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे षोडशोऽध्यायः।। 16 ।।

सम्पाद्यताम्

9-16-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात्।। 9-16-47 तोयमिव सुप्रवेशाङ्गाम्। अप्रसक्तः अप्रतिहता। नृपतेः शल्यस्य।। 9-16-16 षोडशोऽध्यायः।।

शल्यपर्व-015 पुटाग्रे अल्लिखितम्। शल्यपर्व-017