महाभारतम्-09-शल्यपर्व-035
← शल्यपर्व-034 | महाभारतम् नवमपर्व महाभारतम्-09-शल्यपर्व-035 वेदव्यासः |
शल्यपर्व-036 → |
जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः।। 1 ।।
तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्।। 2 ।।
जनमेजय उवाच। | 9-35-1x |
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते। आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः।। | 9-35-1a 9-35-1b |
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव। न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्।। | 9-35-2a 9-35-2b |
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः। तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि।। | 9-35-3a 9-35-3b |
आख्याहि मे विस्तरशः कथं राम उपस्थितः। कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम।। | 9-35-4a 9-35-4b |
वैशम्पायन उवाच। | 9-35-5x |
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु। प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः।। | 9-35-5a 9-35-5b |
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।। स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च। | 9-35-6a 9-35-6b |
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः।। | 9-35-7a |
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा।। | 9-35-8a |
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः। आगच्छत महाबाहुरुपप्लाव्यं जनाधिप।। | 9-35-9a 9-35-9b |
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः। आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्। यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत्।। | 9-35-10a 9-35-10b 9-35-10c |
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः। निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया।। | 9-35-11a 9-35-11b |
ततो विभज्यमानेषु बलेषु बलिनां वरः। प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः।। | 9-35-12a 9-35-12b |
तेषामपि महाबाहो साहाय्यं मधुसूदन। क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा।। | 9-35-13a 9-35-13b |
ततो मन्युपरीतात्मा जगाम यदुनन्दनः। तीर्थयात्रां हलधरः सरस्वत्यां महायशाः। मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः।। | 9-35-14a 9-35-14b 9-35-14c |
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः। युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।। | 9-35-15a 9-35-15b |
रौहिणेये गते शूरे पुष्येण मधुसूदनः। पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून्।। | 9-35-16a 9-35-16b |
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह। सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च।। | 9-35-17a 9-35-17b |
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा। सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः।। | 9-35-18a 9-35-18b |
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च। क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्।। | 9-35-19a 9-35-19b |
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः। ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्।। | 9-35-20a 9-35-20b |
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः। तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा।। | 9-35-21a 9-35-21b |
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान। रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन्।। | 9-35-22a 9-35-22b |
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः। रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ। गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः।। | 9-35-23a 9-35-23b 9-35-23c |
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम्। देशेदेशे तु देयानि दानानि विविधानि च।। | 9-35-24a 9-35-24b |
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा। तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत।। | 9-35-25a 9-35-25b |
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः।। | 9-35-26a |
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा। तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष।। | 9-35-27a 9-35-27b |
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात्। भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः।। | 9-35-28a 9-35-28b |
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च। पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्।। | 9-35-29a 9-35-29b |
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत। तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत।। | 9-35-30a 9-35-30b |
यथासुखं जनः सर्वो याति तिष्ठति वै तदा। यातुकामस्य यानानि पानानि तृषितस्य च।। | 9-35-31a 9-35-31b |
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ। उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च।। | 9-35-32a 9-35-32b |
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः। स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।। | 9-35-33a 9-35-33b |
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः। विपण्यापणपण्यानं नानाजनशतैर्वृतः। नानाद्रुमलतोपेतो नानारत्नविभूषितः।। | 9-35-34a 9-35-34b 9-35-34c |
ततो महात्मा नियतो मनस्विनां पुण्येषु तीर्थेषु वसूनि राजन्। ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः।। | 9-35-35a 9-35-35b 9-35-35c 9-35-35d |
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः। हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान्द्विजेभ्यः।। | 9-35-36a 9-35-36b 9-35-36c 9-35-36d |
रत्नानि मुक्तामणिविद्रुमं चा-- प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्। अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः।। | 9-35-37a 9-35-37b 9-35-37c 9-35-37d |
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थगतेषु भूरि। ययौ क्रमेणाप्रतिमप्रभाव-- स्ततः कुरुक्षेत्रमुदारवृत्तः।। | 9-35-38a 9-35-38b 9-35-38c 9-35-38d |
जनमेजय उवाच। | 9-35-39x |
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे। फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च।। | 9-35-39a 9-35-39b |
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः। ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे।। | 9-35-40a 9-35-40b |
वैशम्पायन उवाच। | 9-35-41x |
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः। मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः।। | 9-35-41a 9-35-41b |
पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्। पुण्यं प्रभासं समुपाजगाम यत्रोडुराढ्यक्ष्मणा क्षीयमाणः।। | 9-35-42a 9-35-42b 9-35-42c 9-35-42d |
विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र। एतत्तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः।। | 9-35-43a 9-35-43b 9-35-43c 9-35-43d |
।। इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः।। 35 ।। |
9-35-14 मैत्रनक्षत्रयोगे अनुराधायां।। 9-35-15 भोजः कृतवर्मा।। 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः।। 9-35-34 विपणिः पाण्यवीथिका। आपणा हट्टाः। पण्यानि विक्रेयद्रव्याणि।। 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः।। 9-35-39 गुणान् रमणीयत्वादीन्। उत्पत्तिं सम्भवम्। कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्। निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः।। 9-35-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया।। 9-35-43 प्रभासः प्रभासत्वम्।। 9-35-35 पञ्चत्रिंशोऽध्यायः।।
शल्यपर्व-034 | पुटाग्रे अल्लिखितम्। | शल्यपर्व-036 |