रामायणम्/अरण्यकाण्डम्/सर्गः १
< रामायणम् | अरण्यकाण्डम्
रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
|
प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् । रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥ कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् । यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥ शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा । मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥ पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः । विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥ समिद्भिः तोय कलशैः फल मूलैः च शोभितम् । आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥ बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् । पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥ फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः । सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥ पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः । तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥ ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् । तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥ अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः । दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥ अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् । ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥ लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥ रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् । ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥ वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव । आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥ अत्र एनम् हि महाभागाः सर्व भूत हिते रताः । अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥ ततो रामस्य सत्कृत्य विधिना पावक उपमाः । आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥ मंगलानि प्रयुञ्जाना मुदा परमया युता । मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥ निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् । धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥ पूजनीयः च मान्यः च राजा दण्डधरो गुरुः । इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥ राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः । ते वयम् भवता रक्ष्या भवद् विषय वासिनः । नगरस्थो वनस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥ न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः । रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥ एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् । वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥ तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः । न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥