रामायणम्/अरण्यकाण्डम्/सर्गः ७१
< रामायणम् | अरण्यकाण्डम्
← सर्गः ७० | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७२ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥ पुरा राम महाबाहो महाबल पराक्रम । रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥ यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥३-७१-२॥ ऋषीन् वन गतान् राम त्रासयामि ततः ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥ संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः । तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥३-७१-४॥ एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥३-७१-५॥ अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः । यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥३-७१-६॥ तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् । श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥३-७१-७॥ इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे । अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥३-७१-८॥ दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् । दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥३-७१-९॥ इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् । तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥३-७१-१०॥ सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् । स मया याच्यमानः सन् न आनयत् यम सादनम् ॥३-७१-११॥ पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् । अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥३-७१-१२॥ वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् । स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥३-७१-१३॥ तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् । सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥३-७१-१४॥ सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः । स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥३-७१-१५॥ छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि । अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥३-७१-१६॥ यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये । अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥३-७१-१७॥ इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः । स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥३-७१-१८॥ शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा । अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥३-७१-१९॥ मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना । एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥ इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः । रावणेन हृता सीता मम भार्या यशस्विनी ॥३-७१-२१॥ निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् । नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥३-७१-२२॥ निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे । शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥३-७१-२३॥ कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् । काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥३-७१-२४॥ धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते । स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥ कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः । एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥३-७१-२६॥ प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् । दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥३-७१-२७॥ यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः । यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥३-७१-२८॥ अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो । राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥३-७१-२९॥ विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव । स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥३-७१-३०॥ किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः । तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥३-७१-३१॥ दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन । वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥३-७१-३२॥ तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव । कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥३-७१-३३॥ न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव । सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥३-७१-३४॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र