रामायणम्/अरण्यकाण्डम्/सर्गः २३
< रामायणम् | अरण्यकाण्डम्
← सर्गः २२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २४ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
|
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् । अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥ निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥ श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् । अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥ ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् । समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥ जनस्थान समीपे च समाक्रम्य खर स्वनाः । विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥ व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् । अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥ प्रभिन्नगजसंकाशतोयशोणितधारिणः । यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः । आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥ बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् । दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥ क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ । खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥ कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः । नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥ नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः । कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥ जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥ उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः । संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥ तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः । उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥ चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः । उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥ प्रचचाल मही च अपि स शैल वन कानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥ प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत । स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥ ललाटे च रुजो जाता न च मोहात् न्यवर्तत । तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥ अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा । महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥ न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव । तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥ मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् । राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥ अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे । यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥ सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः । न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥ युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् । देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥ वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ । सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥ प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता । समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥ ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः । समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥ स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः । जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥ चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् । एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥ जात कौतूहलात् तत्र विमानस्थाः च देवताः । ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥ रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥ द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा । चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥ सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना । तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥