रामायणम्/अरण्यकाण्डम्/सर्गः १०
< रामायणम् | अरण्यकाण्डम्
← सर्गः ९ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ११ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्॥ १॥ हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ २॥ किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ३॥ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः। मां सीते स्वयमागम्य शरण्यं शरणं गताः॥ ४॥ वसन्तः कालकालेषु वने मूलफलाशनाः। न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः॥ ५॥ भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः। ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः॥ ६॥ अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः। मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्॥ ७॥ कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम्। प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला॥ ८॥ यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः। किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ ९॥ सर्वैरेव समागम्य वागियं समुदाहृता। राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः॥ १०॥ अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु। होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ॥ ११॥ धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः। राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्॥ १२॥ गतिं मृगयमाणानां भवान् नः परमा गतिः। कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्॥ १३॥ चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम्। बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव॥ १४॥ तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः। तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः॥ १५॥ रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने। मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम्॥ १६॥ ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे। संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्॥ १७॥ मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा। अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्॥ १८॥ न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः। तदवश्यं मया कार्यमृषीणां परिपालनम्॥ १९॥ अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः। मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः॥ २०॥ परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते। सदृशं चानुरूपं च कुलस्य तव शोभने। सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी॥ २१॥ इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्। रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि॥ २२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र