रामायणम्/अरण्यकाण्डम्/सर्गः ५६
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५५ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५७ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥ सा तथा उक्ता तु वैदेही निर्भया शोक कर्शिता । तृणम् अन्तरतः कृत्वा रावणम् प्रति अभाषत ॥३-५६-१॥ राजा दशरथो नाम धर्म सेतुः इव अचलः । सत्य सन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥३-५६-२॥ रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घ बाहुः विशालाक्षो दैवतम् स पतिः मम ॥३-५६-३॥ इक्ष्वाकूणाम् कुले जातः सिंह स्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् हरिष्यति ॥३-५६-४॥ प्रत्यक्षम् यदि अहम् तस्य त्वया स्याम् धर्षिता बलात् । शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः ॥३-५६-५॥ य एते राक्षसाः प्रोक्ता घोर रूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥३-५६-६॥ तस्य ज्या विप्रमुक्ताः ते शराः कांचन भूषणाः । शरीरम् विधमिष्यन्ति गंगा कूलम् इव ऊर्मयः ॥३-५६-७॥ असुरैः वा सुरैः वा त्वम् यदि अवध्यो असि रावण । उत्पाद्य सुमहत् वैरम् जीवन् तस्य न मोक्ष्यसे ॥३-५६-८॥ स ते जीवित शेषस्य राघवो अन्त करो बली । पशोः यूप गतस्य इव जीवितम् तव दुर्लभम् ॥३-५६-९॥ यदि पश्येत् स रामः त्वाम् रोष दीप्तेन चक्षुषा । रक्षः त्वम् अद्य निर्दग्धो यथा रुद्रेण मन्मधः ॥३-५६-१०॥ यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा । सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह ॥३-५६-११॥ गत आयुः त्वम् गत श्रीकः गत सत्त्वो गत इन्द्रियः । लंका वैधव्य संयुक्ता त्वत् कृतेन भविष्यति ॥३-५६-१२॥ न ते पापम् इदम् कर्म सुख उदर्कम् भविष्यति । या अहम् नीता विना भावम् पति पार्श्वात् त्वया वनात् ॥३-५६-१३॥ स हि देवर - दैवत - संयुक्तो मम भर्ता महाद्युतिः । निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥३-५६-१४॥ स ते वीर्यम् दर्पम् बलम् उत्सेकम् च तथा विधम् । अपनेष्यति गात्रेभ्यः शर वर्षेण संयुगे ॥३-५६-१५॥ यदा विनाशो भूतानाम् दृश्यते काल चोदितः । तदा कार्ये प्रमाद्यन्ति नराः काल वशम् गताः ॥३-५६-१६॥ माम् प्रधृष्य स ते कालः प्राप्तो अयम् रक्षस अधम । आत्मनो राक्षसानाम् च वधाय अन्तः पुरस्य च ॥३-५६-१७॥ न शक्या यज्ञ मध्यस्था वेदिः स्रुक् भाण्ड मण्डिता । द्विजाति मंत्र संपूता चण्डालेन अवमर्दितुम् ॥३-५६-१८॥ तथा अहम् धर्म नित्यस्य धर्म पत्नी दृढ व्रता । त्वया संप्रष्टुम् न शक्या अहम् राक्षसाधम पापिना ॥३-५६-१९॥ क्रीडन्ती राज हंसेन पद्म षंडेषु नित्यशः । हंसी सा तृण षण्डस्थम् कथम् द्रक्षेत मद्गुकम् ॥३-५६-२०॥ इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा । न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस ॥३-५६-२१॥ न तु शक्यामि उपक्रोशम् पृथिव्याम् धातुम् आत्मनः । एवम् उक्त्वा तु वैदेही क्रोद्धात् सु परुषम् वचः ॥३-५६-२२॥ रावणम् मैथिली तत्र पुनः न उवाच किंचन । सीताया वचनम् श्रुत्वा परुषम् रोम हर्षणम् ॥३-५६-२३॥ प्रति उवाच ततः सीताम् भय संदर्शनम् वचः । शृणु मैथिलि मत् वाक्यम् मासान् द्वादश भामिनि ॥३-५६-२४॥ कालेन अनेन न अभ्येषि यदि माम् चारु हासिनि । ततः त्वाम् प्रातः आशा अर्थम् सूदाः छेत्स्यन्ति लेशशः ॥३-५६-२५॥ इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु रावणः । राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत् ॥३-५६-२६॥ शीघ्रम् एव हि राक्षस्यो विकृता घोर दर्शनाः । दर्पम् अस्या अपनेष्यन्तु मांस शोणित भोजनाः ॥३-५६-२७॥ वचनात् एव ताः तस्य विकृता घोर दर्शनाः । कृत प्रांजलयो भूत्वा मैथिलीम् पर्यवारयन् ॥३-५६-२८॥ स ताः प्रोवाच राजा तु रावणो घोर दर्शनाः । प्रचाल्य चरण उत्कर्षैः दारयन् इव मेदिनीम् ॥३-५६-२९॥ अशोक वनिका मध्ये मैथिली नीयताम् इति । तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता ॥३-५६-३०॥ तत्र एनाम् तर्जनैः घोरैः पुनः सांत्वैः च मैथिलीम् । आनयध्वम् वशम् सर्वा वन्याम् गज वधूम् इव ॥३-५६-३१॥ इति प्रति समादिष्टा राक्षस्यो रावणेन ताः । अशोक वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु ॥३-५६-३२॥ सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् - यद्वा -सर्व काम फलैः वृक्षैः नाना पुष्प फलैः वृताम् । सर्व काल मदैः च अपि द्विजैः समुपसेविताम् ॥३-५६-३३॥ सा तु शोक परीत अंगी मैथिली जनकात्मजा । राक्षसी वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा ॥३-५६-३४॥ शोकेन महता ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाश बद्धा मृगी यथा ॥३-५६-३५॥ न विन्दते तत्र तु शर्म मैथिलीविरूप नेत्राभिः अतीव तर्जिता । पतिम् स्मरन्ती दयितम् च देवरम्विचेतना अभूत् भय शोक पीडिता ॥३-५६-३६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र