रामायणम्/अरण्यकाण्डम्/सर्गः २
< रामायणम् | अरण्यकाण्डम्
← सर्गः १ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
|
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥''' कृत आतिथ्योऽथ रामस्तु सूर्यस्य उदयनम् प्रति । आमंत्र्य स मुनीम् तत् सर्वान् वनम् एव अन्वगाहत ॥३-२-१॥ नाना मृग गण आकीर्णम् ऋक्ष शार्दूल सेवितम् । ध्वस्त वृक्ष लता गुल्मम् दुर्दर्श सलिलाशयम् ॥३-२-२॥ निष्कूजमाना शकुनि झिल्लिका गण नादितम् । लक्ष्मण अनुचरोओ रामो वन मध्यम् ददर्श ह ॥३-२-३॥ सीताया सह काकुत्स्थः तस्मिन् घोर मृग आयुते । ददर्श गिरि शृङ्ग आभम् पुरुषादम् महास्वनम् ॥३-२-४॥ गम्भीर अक्षम् महावक्त्रम् विकटम् विकटोदरम् । बीभत्सम् विषमम् दीर्घम् विकृतम् घोर दर्शनम् ॥३-२-५॥ वसानम् चर्म वैयाघ्रम् वस आर्द्रम् रुधिरोक्षितम् । त्रासनम् सर्व भूतानाम् व्यादितास्यम् इव अन्तकम् ॥३-२-६॥ त्रीन् सिंहान् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । सविषाणम् वसादिग्धम् गजस्य च शिरो महत् ॥३-२-७॥ अवसज्य आअयसे शूले विनदन्तम् महास्वनम् । स रामम् लक्ष्मणम् चैव सीताम् दृष्ट्वा च मैथिलीम् ॥३-२-८॥ अभ्य धावत् सुसंक्रुद्धो प्रजाः काल इव अन्तकः । स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम् ॥३-२-९॥ अङ्केन आदाय वैदेहीम् अपक्रम्य तदा अब्रवीत् । युवाम् जटा चीर धरौ सभार्यौ क्षीण जीवितौ ॥३-२-१०॥ प्रविष्टौ दण्डकारण्यम् शर चाप असि पाणिनौ । कथम् तापसयोः युवाम् च वासः प्रमदया सह ॥३-२-११॥ अधर्म चारिणौ पापौ कौ युवाम् मुनि दूषकौ । अहम् वनम् इदम् दुर्गम् विराघो नाम राक्षसः ॥३-२-१२॥ चरामि सायुधो नित्यम् ऋषि मांसानि भक्षयन् । इयम् नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥ युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे । तस्य एवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः ॥३-२-१४॥ श्रुत्वा सगर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा । सीता प्रावेपिता उद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥ ताम् दृष्ट्वा राघवः सीताम् विराध अङ्कगताम् शुभाम् । अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता ॥३-२-१६॥ पश्य सौम्य नरेन्द्रस्य जनकस्य अत्म संभवाम् । मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् ॥३-२-१७॥ अत्यन्त सुख संवृद्धाम् राजपुत्रीम् यशस्विनीम् । यत् अभिप्रेतम् अस्मासु प्रियम् वर वृतम् च यत् ॥३-२-१८॥ कैकेय्यास्तु सुसंवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण । या न तुष्यति राज्येन पुत्रार्थे दीर्घ दर्शिनी ॥३-२-१९॥ ययाऽहम् सर्वभूतानाम् प्रियः प्रस्थापितो वनम् । अद्य इदानीम् सकामा सा या माता मम मध्यमा ॥३-२-२०॥ पर स्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे । पितुर् विनाशात् सौमित्रे स्व राज्य हरणात् तथा ॥३-२-२१॥ इति ब्रुवति काकुत्स्थे बाष्प शोक परिप्लुतः । अब्रवीत् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥ अनाथ इव भूतानाम् नाथः त्वम् वासवोपमः । मया प्रेष्येण काकुत्स्थः किम् अर्थम् परितप्यसे ॥३-२-२३॥ शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः । विराधस्य गत असोः हि मही पास्यति शोणितम् ॥३-२-२४॥ राज्य कामे मम क्रोधो भरते यो बभूव ह । तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले ॥३-२-२५॥ मम भुज बल वेग वेगितःपततु शरोऽस्य महान् महोरसि । व्यपनयतु तनोः च जीवितम्पततु ततः च महीम् विघूर्णितः ॥३-२-२६॥