रामायणम्/अरण्यकाण्डम्/सर्गः ५२
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५३ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥ सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् । गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥ निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् । अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥ न नूनम् राम जानासि महत् व्यसनम् आत्मनः । धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥ अयम् हि कृपया राम माम् त्रातुम् इह संगतः । शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥ त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना । सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥ ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् । अभ्यधावत वैदेहीम् रावणो राक्षस अधिपः ॥३-५२-६॥ ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् । मुंच मुंच इति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-७॥ क्रोशन्तीम् राम राम इति रामेण रहिताम् वने । जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥ प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् । जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥ न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः । दृष्ट्वा सीताम् परा मृष्टाम् देवो दिव्येन चक्षुषा ॥३-५२-१०॥ कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः । प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥ दृष्ट्वा सीताम् परा मृष्टाम् दण्डकारण्य वासिनः । रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥ स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च । जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥ तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी । रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥ उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकम् परिबभ्राज गिरिः दीप इव अग्निना ॥३-५२-१५॥ तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च । पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥ तस्याः कौशेयम् उद्धूतम् आकाशे कनक प्रभम् । बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥ तस्याः तत् विमलम् - सु नसम् - वक्त्रम् आकाशे रावण अंक गम् । न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥ बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः । सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥ शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् । तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥ रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् । सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥ राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् । शुशुभे न विना रामम् दिवा चन्द्र इव उदितः ॥३-५२-२२॥ सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् । शुशुभे कांचनी कांची नीलम् मणिम् - गजम् - इव आश्रिता ॥३-५२-२३॥ सा पद्म पीता हेम आभा रावणम् जनक आत्मजा । विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥ तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः । बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥ उत्तम अंग च्युता तस्याः पुष्प वृष्टिः समन्ततः । सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥ सा तु रावण वेगेन पुष्प वृष्टिः समन्ततः । समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥ अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् । नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥ चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् । विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥ तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् । प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥ ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा । जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥ तस्याः तानि अग्नि वर्णानि भूषणानि मही तले । स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥ तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः । वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥ उत्पात वात अभिहता नाना द्विज गण आयुताः । मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥ नलिन्यो ध्वस्त कमलाः त्रस्त मीन जले चराः । सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥ समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः । अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥ जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः । सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥ ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः । प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥ न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता । यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥ इति भूतानि सर्वाणि गणशः पर्यदेवयन् । वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥ उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः । सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥ विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् । ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥ अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् । स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् । जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥ ततः तु सा चारु दती शुचि स्मिताविना कृता बन्धु जनेन मैथिली । अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र