रामायणम्/अरण्यकाण्डम्/सर्गः ५३
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५४ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥ खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा । दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥ रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् । रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥ न व्यपत्रपसे नीच कर्मणा अनेन रावण । ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥ त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता । मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥ यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः । गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥ परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम । विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥ ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे । स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥ धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा । कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥ किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि । मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥ न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः । स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥ न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन । वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥ साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण । मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥ विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि । येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥ व्यवसायः तु ते नीच भविष्यति निरर्थकः । न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥ उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् । न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥ मृत्यु काले यथा मर्त्यो विपरीतानि सेवते । मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥ पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् । यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥ व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् । नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥ खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण । तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥ द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् । न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥ धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः । बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥ क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः । निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥ राक्षसा निहता येन सहस्राणि चतुर्दश । कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥ न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् । एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा । भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥ तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् । जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥