रामायणम्/अरण्यकाण्डम्/सर्गः ७४
< रामायणम् | अरण्यकाण्डम्
← सर्गः ७३ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७५ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥''' तौ कबन्धेन तम् मार्गम् पम्पाया दर्शितम् वने । आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ वर आत्मजौ ॥३-७४-१॥ तौ शैलेषु आचित अनेकान् क्षौद्र कल्प फल द्रुमान् । वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम लक्ष्मणौ ॥३-७४-२॥ कृत्वा च शैल पृष्ठे तु तौ वासम् रघु नन्दनौ । पंपायाः पश्चिमम् तीरम् राघवौ उपतस्थतुः ॥३-७४-३॥ तौ पुष्करिण्याः पंपायाः तीरम् आसाद्य पश्चिमम् । अपश्यताम् ततः तत्र शबर्या रम्यम् आश्रमम् ॥३-७४-४॥ तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् । सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥३-७४-५॥ तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृतांजलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥३-७४-६॥ पाद्यम् आचमनीयम् च सर्वम् प्रददात् यथा विधि । ताम् उवाच ततो रामः श्रमणीम् धर्म संस्थिताम् ॥३-७४-७॥ कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः । कच्चित् ते नियतः कोप आहारः च तपोधने ॥३-७४-८॥ कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् । कच्चित् ते गुरु शुश्रूषा सफला चारु भाषिणि ॥३-७४-९॥ रामेण तापसी पृष्ठा सा सिद्धा सिद्ध सम्मता । शशंस शबरी वृद्धा रामाय प्रति अवस्थिता ॥३-७४-१०॥ अद्य प्राप्ता तपः सिद्धिः तव संदर्शनात् मया । अद्य मे सफलम् जन्म गुरवः च सुपूजिताः ॥३-७४-११॥ अद्य मे सफलम् तप्तम् स्वर्गः चैव भविष्यति । त्वयि देव वरे राम पूजिते पुरुषर्षभ ॥३-७४-१२॥ तव अहम् चक्षुषा सौम्य पूता सौम्येन मानद । गमिष्याम्यक्षयांलोकांस्वत्प्रसादादरिन्दम - यद्वा - गमिष्यामि अक्षयान् लोकान् त्वत् प्रसादात् अरिंदम ॥३-७४-१३॥ चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल प्रभैः । इतः ते दिवम् आरूढा यान् अहम् पर्यचारिषम् ॥३-७४-१४॥ तैः च अहम् उक्ता धर्म ज्ञैः महाभागैः महर्षिभिः । आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम् ॥३-७४-१५॥ स ते प्रतिग्रहीतव्यः सौमित्रि सहितो अतिथिः । तम् च दृष्ट्वा वरान् लोकान् अक्षयान् त्वम् गमिष्यसि ॥३-७४-१६॥ एवम् उक्ता महाभागैः तदा अहम् पुरुषर्षभ । मया तु विविधम् वन्यम् संचितम् पुरुषर्षभ ॥३-७४-१७॥ तव अर्थे पुरुषव्याघ्र पम्पायाः तीर संभवम् । एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् ॥३-७४-१८॥ राघवः प्राह विज्ञाने ताम् नित्यम् अबहिष्कृताम् । दनोः सकाशात् तत्त्वेन प्रभावम् ते महात्मनः ॥३-७४-१९॥ श्रुतम् प्रत्यक्षम् इच्छामि संद्रष्टुम् यदि मन्यसे । एतत् तु वचनम् श्रुत्वा राम वक्त्रात् विनिःसृतम् ॥३-७४-२०॥ शबरी दर्शयामास तौ उभौ तत् वनम् महत् । पश्य मेघ घन प्रख्यम् मृग पक्षि समाकुलम् ॥३-७४-२१॥ मतंग वनम् इति एव विश्रुतम् रघुनंदन । इह ते भावित आत्मानो गुरवो मे महाद्युते । जुहवान् चक्रिरे नीडम् मंत्रवत् मंत्र पूजितम् ॥३-७४-२२॥ इयम् प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः । पुष्प उपहारम् कुर्वन्ति श्रमात् उद् वेपिभिः करैः ॥३-७४-२३॥ तेषाम् तपः प्रभावेन पश्य अद्य अपि रघूत्तम । द्योतयन्ति दिशः सर्वाः श्रिया वेद्यः अतुल प्रभाः ॥३-७४-२४॥ अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः - यद्वा - अशक्नुवद्भिः तैः गन्तुम् उपवास श्रम आलसैः । चिन्तिते अभ्यागतान् पश्य समेतान् सप्त सागरान् ॥३-७४-२५॥ कृत अभिषेकैः तैः न्यस्ता वल्कलाः पादपेषु इह । अद्य अपि न विशुष्यन्ति प्रदेशे रघुनंदन ॥३-७४-२६॥ देव कार्याणि कुर्वद्भिः यानि इमानि कृतानि वै । पुष्पैः कुवलयैः सार्थम् म्लानत्वम् न तु यान्ति वै ॥३-७४-२७॥ कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया । तत् इच्छामि अभ्यनुज्ञाता त्यक्ष्यामि एतत् कलेवरम् ॥३-७४-२८॥ तेषाम् इच्छामि अहम् गन्तुम् समीपम् भावित आत्मनाम् । मुनीनाम् आश्रमो येषाम् अहम् च परिचारिणी ॥३-७४-२९॥ धर्मिष्ठम् तु वचः श्रुत्वा राघवः सह लक्ष्मणः । प्रहर्सम् अतुलम् लेभे आश्चर्यम् इदम् च अब्रवीत् ॥३-७४-३०॥ ताम् उवाच ततो रामः शबरी संश्रित व्रताम् । अर्चितो अहम् त्वया भद्रे गच्छ कामम् यथा सुखम् ॥३-७४-३१॥ इति एवम् उक्ता जटिला चीर कृष्ण अजिन अंबरा । अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुत अशने ॥३-७४-३२॥ ज्वलत् पावक संकाशा स्वर्गम् एव जगाम सा । दिव्यम् आभरण संयुक्ता दिव्य माल्य अनुलेपना ॥३-७४-३३॥ दिव्य अंबर धरा तत्र बभूव प्रिय दर्शन । विराजयन्ती तम् देशम् विद्युत् सौदामिनी यथा ॥३-७४-३४॥ यत्र ते सुकृत आत्मानो विहरन्ति महर्षयः । तत् पुण्यम् शबरी स्थानम् जगाम आत्म समाधिना ॥३-७४-३५॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र