रामायणम्/अरण्यकाण्डम्/सर्गः ७३
< रामायणम् | अरण्यकाण्डम्
← सर्गः ७२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७४ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥ दर्शयित्वा रामाय सीतायाः प्रैमार्गने । वाक्यम् अन्वर्थम् अर्थज्ञः कबंधः पुनः अब्रवीत् ॥३-७३-१॥ एष राम शिवः पंथा यत्र एते पुष्पिता द्रुमाः । प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनो रमाः ॥३-७३-२॥ जंबू प्रियाल पनसाः प्लक्ष न्यग्रोध तिंदुकाः । अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः ॥३-७३-३॥ धन्वना नाग वृक्षा तिलका नक्तमालकाः । नील अशोक कदंबाः च करवीराः च पुष्पिताः ॥३-७३-४॥ अग्निमुखा अशोकाः च सुरक्ताः परिभद्रकाः । तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥ फलानि अमृत कल्पानि भक्षयित्वा गमिष्यथः । तत् अतिक्रम्य काकुत्स्थ वनम् पुषित पादपम् ॥३-७३-६॥ नंदन प्रतिमम् तु अन्यत् कुरवः उत्तरा इव । सर्व काल फला यत्र पादपा मधुर स्रवाः ॥३-७३-७॥ सर्वे च ऋतवः तत्र वने चैत्ररथे यथा । फल भार नताः तत्र महा विटप धारिणः ॥३-७३-८॥ शोबन्ते सर्वतः तत्र मेघ पर्वत संनिभाः । तान् आरुह्य अथवा भूमौ पातैत्वा यथा सुखम् ॥३-७३-९॥ फलानि अमृत कल्पानि लक्षमणः ते प्रदास्यति । चङ्क्रमंतौ वरान् शैलान् शैलात् शैलम् वनात् वनम् ॥३-७३-१०॥ ततः पुष्करिणीम् वीरौ पंपाम् नाम गमिष्यथः । अशर्कराम् अविभ्रंशाम् सम तीर्थम् अशैवलाम् ॥३-७३-११॥ राम संजात वालूकाम् कमल उत्पल शोभिताम् । तत्र हंसाः प्लवाः क्रौङ्चाः कुरराः चैव राघव ॥३-७३-१२॥ वल्गु स्वरा निकूजन्ति पंपा सलिल गोचराः । न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः ॥३-७३-१३॥ घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः । रोहितान् वक्र तुण्डान् च नल मीनान् च राघव ॥३-७३-१४॥ पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् । निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् - यद्वा -निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ॥३-७३-१५॥ तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति । भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये ॥३-७३-१६॥ पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् । उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् ॥३-७३-१७॥ अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरि गुहा शय्यान् वानरान् वन चारिणः ॥३-७३-१८॥ साय आह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः । अपाम् लोभात उपावृत्तान् वृषभान् इव नर्दतः ॥३-७३-१९॥ रूप अन्वितान् च पंपायाम् द्रक्ष्यसि त्वम् नरोत्तम । साय अह्ने विचरन् राम विटपीन् माल्य धारिणः ॥३-७३-२०॥ शिव उदकम् च पंपायाम् दृष्ट्वा शोकम् विहास्यसि । सु मनोभिः चितान् तत्र तिलकान् नक्त मालकान् ॥३-७३-२१॥ उत्पलानि च फुल्लानि पंकजानि च राघव । न तानि कश्चित् माल्यानि तत्र आरोपयिता नरः ॥३-७३-२२॥ न च वै म्लानताम् यान्ति न च शीर्यन्ति राघव । मतंग शिष्याः तत्र आसन् ऋषयः सुसमाहितः ॥३-७३-२३॥ तेषाम् भार अभितप्तानाम् वन्यम् आहरताम् गुरोः । ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद बिन्दवः ॥३-७३-२४॥ तानि माल्यानि जातानि मुनीनाम् तपसा तदा । स्वेद बिन्दु समुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥ तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिर जीविनी ॥३-७३-२६॥ त्वाम् तु धर्मे स्थिता नित्यम् सर्व भूत नमस्कृतम् । दृष्ट्वा देव उपमम् राम स्वर्ग लोकम् गमिष्यति ॥३-७३-२७॥ ततः तत् राम पंपायाः तीरम् आश्रित्य पश्चिमम् । आश्रम स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि ॥३-७३-२८॥ न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद् आश्रमे । ऋषेः तस्य मतंगस्य विधानात् तत् च काननम् ॥३-७३-२९॥ मातंग वनम् इति एव विश्रुतम् रघुनंदन । तस्मिन् नंदन संकाशे देव अरण्य उपमे वने ॥३-७३-३०॥ नाना विहग संकीर्णे रंस्यसे राम निर्वृतः । ऋष्यमूकः तु पंपायाः पुरस्तात् पुष्पित द्रुमः ॥३-७३-३१॥ सु दुःख आरोहणः च एव शिशु नाग अभिरक्षितः । उदारो ब्रह्मणा चैव पूर्व काले विनिर्मितः ॥३-७३-३२॥ शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो अधिगच्छति ॥३-७३-३३॥ यः तु एनम् विषम आचारः पाप कर्मा अधिरोहति । तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः ॥३-७३-३४॥ तत्र अपि शिशु नागानाम् आक्रंदः श्रूयते महान् । क्रीडताम् राम पंपायाम् मतंग आश्रम वासिनाम् ॥३-७३-३५॥ सिक्ता रुधिर धाराभिः संहत्य परम द्विपाः । प्रचरन्ति पृथक् कीर्णा मेघ वर्णाः तरस्विनः ॥३-७३-३६॥ ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् । अत्यन्त सुख संस्पर्शम् सर्व गन्ध समन्वितम् ॥३-७३-३७॥ निवृत्ताः सम्विगाहन्ते वनानि वन गोचराः । ऋक्षाम् च द्विपिनः चैव नील कोमलक प्रभान् ॥३-७३-३८॥ रुरून् अपेता अपजयान् दृष्ट्वा शोकम् प्रहास्यसि । राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥ शिला पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् । तस्या गुहायाः प्राक् द्वारे महान् शीत उदको ह्रदः ॥३-७३-४०॥ बहु मूल फलो रम्यो नाना नग समाकुलः । तस्याम् वसति सुग्रीवः चतुर्भिः सह वानरैः ॥३-७३-४१॥ कदाचित् शिखरे तस्य पर्वतस्य अपि तिष्ठते । कबंधः तु अनुशास्य एवम् तौ उभौ राम लक्ष्मणौ ॥३-७३-४२॥ स्रग्वी भास्कर वर्ण आभः खे व्यरोचत वीर्यवान् । तम् तु ख स्थम् महाभागम् कबंधम् राम लक्ष्मणौ ॥३-७३-४३॥ प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके । गम्यताम् कार्य सिद्धि अर्थम् इति तौ अब्रवीत् च सः ॥३-७३-४४॥ सुप्रीतौ तौ अनुज्ञाप्य कबंधः प्रस्थितः तदा ॥३-७३-४५॥ स तत् कबंधः प्रतिपद्य रूपम्वृतः श्रिया भास्कर सर्व देहः । निदर्शयन् रामम् अवेक्ष्य ख स्थःसख्यम् कुरुष्व इति तदा अभ्युवाच ॥३-७३-४६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥