रामायणम्/अरण्यकाण्डम्/सर्गः १७
< रामायणम् | अरण्यकाण्डम्
← सर्गः १६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः १८ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥''' कृत अभिषेको रामः तु सीता सौमित्रिर् एव च । तस्मात् गोदावरी तीरात् ततो जग्मुः स्वम् आश्रमम् ॥३-१७-१॥ आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः । कृत्वा पौर्वाह्णिकम् कर्म पर्णशालाम् उपागमत् ॥३-१७-२॥ उवास सुखितः तत्र पूज्यमानो महर्षभः। स रामः पर्ण शालायाम् आसीनः सह सीतया ॥३-१७-३॥ विरराज महा बाहुः चित्रया चन्द्रमा इव । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३-१७-४॥ तदा आसीनस्य रामस्य कथा संसक्त चेतसः । तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया ॥३-१७-५॥ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी रामम् आसाद्य ददर्श त्रिदश उपमम् ॥३-१७-६॥ दीप्तास्यम् च महाबाहुम् पद्म पत्रायत ईक्षणम् । गज विक्रांत गमनम् जटा मण्दल धारिणम् ॥३-१७-७॥ सुकुमारम् महा सत्त्वम् पार्थिव व्यंजन अन्वितम् । रामम् इन्दीवर श्यामम् कन्दर्प सदृश प्रभम् ॥३-१७-८॥ बभूव इन्द्रोपमम् दृष्ट्वा राक्षसी काम मोहिता । सुमुखम् दुर्मुखी रामम् वृत्त मध्यम् महोदरी ॥३-१७-९॥ विशालाक्षम् विरूपाक्षी सुकेशम् ताम्र मूर्धजा । प्रियरूपम् विरूपा सा सुस्वरम् भैरव स्वना ॥३-१७-१०॥ तरुणम् दारुणा वृद्धा दक्षिणम् वाम भाषिणी । न्याय वृत्तम् सुदुर्वृत्ता प्रियम् अप्रिय दर्शना ॥३-१७-११॥ शरीरज समाविष्टा राक्षसी रामम् अब्रवीत् । जटी तापस रूपेण सभार्यः शर चाप धृक् ॥३-१७-१२॥ आगतः त्वम् इमम् देशम् कथम् राक्षस सेवितम् । किम् आगमन कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि ॥३-१७-१३॥ एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः । ऋजु बुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥३-१७-१४॥ आसीत् दशरथो नाम राजा त्रिदश विक्रमः । तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥३-१७-१५॥ भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः । इयम् भार्या च वैदेही मम सीतेति विश्रुता ॥३-१७-१६॥ नियोगात् तु नरेन्द्रस्य पितुर् मातुः च यंत्रितः । धर्मार्थम् धर्मकांक्षी च वनम् वस्तुम् इह आगतः ॥३-१७-१७॥ त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा । त्वम् हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ॥३-१७-१८॥ इह वा किम् निमित्तम् त्वम् आगता ब्रूहि तत्त्वतः । सा अब्रवीत् वचनम् श्रुत्वा राक्षसी मदन अर्दिता ॥३-१७-१९॥ श्रूयताम् राम वक्ष्यामि तत्त्वार्थम् वचनम् मम । अहम् शूर्पणखा नाम राक्षसी कामरूपिणी ॥३-१७-२०॥ अरण्यम् विचरामि इदम् एका सर्व भयंकरा । रावणो नाम मे भ्राता यदि ते श्रोत्रम् आगतः ॥३-१७-२१॥ वीरो विश्रवसः पुत्रो यदि ते श्रोत्रम् आगतः । प्रवृद्ध निद्रः च सदा कुंभकर्णो महाबलः ॥३-१७-२२॥ विभीषणः तु धर्मात्मा न तु राक्षस चेष्टितः । प्रख्यात वीर्यौ च रणे भ्रातरौ खर दूषणौ ॥३-१७-२३॥ तान् अहम् समतिक्रान्ता राम त्वा पूर्व दर्शनात् । समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् ॥३-१७-२४॥ अहम् प्रभाव संपन्ना स्वच्छंद बल गामिनी । चिराय भव भर्ता मे सीतया किम् करिष्यसि ॥३-१७-२५॥ विकृता च विरूपा च न सा इयम् सदृशी तव । अहम् एव अनुरूपा ते भार्या रूपेण पश्य माम् ॥३-१७-२६॥ इमाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् । अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥३-१७-२७॥ ततः पर्वत शृंगाणि वनानि विविधानि च । पश्यन्सहमयाकामीदण्डकान्विचरिष्यसि - यद्वा - पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥३-१७-२८॥ इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिर ईक्षणाम् । इदम् वचनम् आरेभे वक्तुम् वाक्य विशारदः ॥३-१७-२९॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र