रामायणम्/अरण्यकाण्डम्/सर्गः ६७
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६८ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥ पूर्वजो अपि उक्त मात्रः तु लक्ष्मणेन सुभाषितम् । सार ग्राही महासारम् प्रतिजग्राह राघवः ॥३-६७-१॥ स निगृह्य महाबाहुः प्रवृद्धम् रोषम् आत्मनः । अवष्टभ्य धनुः चित्रम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-२॥ किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केन उपायेन पश्येयम् सीताम् इह विचिन्तय ॥३-६७-३॥ तम् तथा परिताप आर्तम् लक्ष्मणो रामम् अब्रवीत् । इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि ॥३-६७-४॥ राक्षसैः बहुभिः कीर्णम् नाना द्रुम लता आयुतम् । सन्ति इह गिरि दुर्गाणि निर्दराः कंदराणि च ॥३-६७-५॥ गुहाः च विविधा घोरा नाना मृग गण आकुलाः । आवासाः किन्नराणाम् च गन्धर्व भवनानि च ॥३-६७-६॥ तानि युक्तो मया सार्धम् समन्वेषितुम् अर्हसि । त्वत् विधा बुद्धि संपन्ना माहात्मानो नरर्षभ ॥३-६७-७॥ आपत्सु न प्रकंपन्ते वायु वेगैः इव अचलाः । इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः ॥३-६७-८॥ क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् । ततः पर्वत कूट आभम् महा भागम् द्विज उत्तमम् ॥३-६७-९॥ ददर्श पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् । तम् दृष्ट्वा गिरि शृंग आभम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-१०॥ अनेन सीता वैदेही भक्षिता न अत्र संशयः । गृध्र रूपम् इदम् व्यक्तम् रक्षो भ्रमति काननम् ॥३-६७-११॥ भक्षयित्वा विशालाक्षीम् आस्ते सीताम् यथा सुखम् । एनम् वधिष्ये दीप्त अग्रैः घोरैः बाणैः अजिह्मगैः ॥३-६७-१२॥ इति उक्त्वा अभ्यपतत् गृध्रम् सन्धाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्र अन्ताम् चालयन् इव मेदिनीम् ॥३-६७-१३॥ तम् दीन दीनया वाचा स फेनम् रुधिरम् वमन् । अभ्यभाषत पक्षी तु रामम् दशरथ आत्मजम् ॥३-६७-१४॥ याम् ओषधिम् इव आयुष्मन् अन्वेषसि महा वने । सा देवी मम च प्राणा रावणेन उभयम् हृतम् ॥३-६७-१५॥ त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥ सीताम् अभ्यवपन्नो अहम् रावणः च रणे मया । विध्वंसित रथः च अत्र पातितो धरणी तले ॥३-६७-१७॥ एतत् अस्य धनुः भग्नम् एतत् अस्य शरावरम् । अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥ अयम् तु सारथिः तस्य मत् पक्ष निहतो भुविः । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥ सीताम् आदाय वैदेहीम् उत्पपात विहायसम् । रक्षसा निहतम् पूर्वम् न माम् हन्तुम् त्वम् अर्हसि ॥३-६७-२०॥ रामः तस्य तु विज्ञाय सीता सक्ताम् प्रियाम् कथाम् । गृध्र राजम् परिष्वज्य परित्यज्य महत् धनुः ॥३-६७-२१॥ निपपात अवशो भूमौ रुरोद सह लक्ष्मण । द्विगुणीकृत ताप आर्तो रामो धीरतरो अपि सन् ॥३-६७-२२॥ एकम् एक अयने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुः । समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥३-६७-२३॥ राज्यम् भ्रष्टम् वने वासः सीता नष्टा मृते द्विजः । ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि पावकम् ॥३-६७-२४॥ संपूर्णम् अपि चेत् अद्य प्रतरेयम् महोदधिम् । सो अपि नूनम् मम अलक्ष्म्या विशुष्येत् सरिताम् पतिः ॥३-६७-२५॥ न अस्ति अभाग्यतरो लोके मत्तो अस्मिन् स चराचरे । येन इयम् महती प्राप्ता मया व्यसन वागुरा ॥३-६७-२६॥ अयम् पितृ वयस्यो मे गृध्र राजो जरा अन्वितः । शेते विनिहतो भूमौ मम भाग्य विपर्ययात् ॥३-६७-२७॥ इति एवम् उक्त्वा बहुशो राघवः सह लक्ष्मणः । जटायुषम् च पस्पर्श पितृ स्नेहम् निदर्शयन् ॥३-६७-२८॥ निकृत्त पक्षम् रुधिर अवसिक्तम् तम् गृध्र राजम् परिरभ्य रामः । क्व मैथिलि प्राण समा मम इति विमुच्य वाचम् निपपात भूमौ ॥३-६७-२९॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र