रामायणम्/अरण्यकाण्डम्/सर्गः २४
< रामायणम् | अरण्यकाण्डम्
← सर्गः २३ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २५ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥
आश्रमम् प्रति याते तु खरे खर पराक्रमे । तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥ तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण । प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥ इमान् पश्य महाबाहो सर्व भूत अपहारिणः । समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥ अमी रुधिर धाराः तु विसृजंतो खर स्वनाः । व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥ स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः । रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥ यादृशा इह कूजन्ति पक्षिणो वन चारिणः । अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥ संप्रहारः तु सुमहान् भविष्यति न संशयः । अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥ संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् । सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥ उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः । निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥ रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः । आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥ अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता । आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥ तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः । गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥ प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया । शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥ त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः । स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥ एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया । शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥ तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया । हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥ स तेन अग्नि निकाशेन कवचेन विभूषितः । बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥ स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् । संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥ ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः । समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥ ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः । समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥ स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः । जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥ चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् । एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥ चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् । एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥ इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः । जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥ आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥ रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः । बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥ इति संभाष्यमाणो तु देव गंधर्व चारणैः । ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥ अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत । वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥ चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः । विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥ तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् । तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥ दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् । तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥ घृत नाना प्रहरणम् गंभीरम् सागरोपमम् । रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥ ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः । वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥ क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् । दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥ तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः । तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा । दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥ तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः । बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र