रामायणम्/अरण्यकाण्डम्/सर्गः २२
< रामायणम् | अरण्यकाण्डम्
← सर्गः २१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २३ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
एवम् आधर्षितः शूरः शूर्पणख्या खरः ततः । उवाच रक्षसाम् मध्ये खरः खरतरम् वचः ॥३-२२-१॥ तव अपमान प्रभवः क्रोधो अयम् अतुलो मम । न शक्यते धारयितुम् लवण अंभ इव उल्बणम् ॥३-२२-२॥ न रामम् गणये वीर्यान् मानुषम् क्षीण जीवितम् । आत्म दुश्चरितैः प्राणान् हतो यो अद्य विमोक्ष्यति ॥३-२२-३॥ बाष्पः सम्धार्यताम् एष संभ्रमः च विमुच्यताम् । अहम् रामम् सह भ्रात्रा नयामि यम सादनम् ॥३-२२-४॥ परश्वध हतस्य अद्य मन्द प्राणस्य भू तले । रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि ॥३-२२-५॥ सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनात् च्युतम् । प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम् ॥३-२२-६॥ तया परुषितः पूर्वम् पुनर् एव प्रशंसितः । अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥३-२२-७॥ चतुर्दश सहस्राणि मम चित्त अनुवर्तिनाम् । रक्षसाम् भीम वेगानाम् समरेषु अनिवर्तिनाम् ॥३-२२-८॥ नील जीमूत वर्णानाम् लोक हिंसा विहाराणाम् । सर्व उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय ॥३-२२-९॥ उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च । शरान् च चित्रान् खड्गां च शक्ती च विविधाः शिताः ॥३-२२-१०॥ अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् । वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥३-२२-११॥ इति तस्य ब्रुवाणस्य सूर्य वर्णम् महारथम् । सत् अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः ॥३-२२-१२॥ तम् मेरु शिखर आकारम् तप्त कांचन भूषणम् । हेम चक्रम् असंबाधम् वैदूर्यमय कूबरम् ॥३-२२-१३॥ मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र सूर्यैः च कांचनैः । मांगल्यैः पक्षि सम्घैः च ताराभिः च समावृतम् ॥३-२२-१४॥ ध्वज निस्त्रिंश संपन्नम् किंकिणी वर भूषितम् । सत् अश्व युक्तम् सः अमर्षात् आरुरोह खरः तदा ॥३-२२-१५॥ खरः तु तान् महत् सैन्याम् रथ चर्म आयुध ध्वजान् । निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ॥३-२२-१६॥ ततः तद् राक्षसम् सैन्यम् घोर चर्म आयुध ध्वजम् । निर्जगाम जन स्थानात् महानादम् महाजवम् ॥३-२२-१७॥ मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैः च परश्वधैः । खड्गैः चक्रैः च हस्तस्थैः भ्राजमानैः स तोमरैः ॥३-२२-१८॥ शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः । गदा असि मुसलैः वज्रैः गृहीतैः भीम दर्शनैः ॥३-२२-१९॥ राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश । निर्यातानि जन स्थानात् खर चित्त अनुवर्तिनाम् ॥३-२२-२०॥ तान् तु निर्धावतो दृष्ट्वा राक्षसान् भीम दर्शनम् । खरस्य अथ रथः किंचित् जगाम तत् अनन्तरम् ॥३-२२-२१॥ ततः तान् शबलान् अश्वान् तप्त कांचन भूषितान् । खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥ संचोदितो रथः शीघ्रम् खरस्य रिपु घातिनः । शब्देन आपूरयामास दिशः स प्रदिशः तथा ॥३-२२-२३॥ प्रवृद्ध मन्युः तु खरः खर स्वरेरिपोः वध अर्थम् त्वरितो यथा अंतकः । अचूचुदत् सारथिम् उन्नदन् पुनर्महाबलो मेघ इव अश्म वर्षवान् ॥३-२२-२४॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र