रामायणम्/अरण्यकाण्डम्/सर्गः ३५
< रामायणम् | अरण्यकाण्डम्
← सर्गः ३४ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३६ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥ ततः शूर्पणखा वाक्यम् तत् श्रुत्वा रोम हर्षणम् । सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह ॥३-३५-१॥ तत् कार्यम् अनुगम्यांतर् यथावत् उपलभ्य च । दोषाणाम् च गुणानाम् च सम्प्रधार्य बल अबलम् ॥३-३५-२॥ इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः । स्थिर बुद्धिः ततो रम्याम् यान शालाम् जगाम ह ॥३-३५-३॥ यान शालाम् ततो गत्वा प्रच्छन्नम् राक्षस अधिपः । सूतम् संचोदयामास रथः संयुज्यताम् इति ॥३-३५-४॥ एवम् उक्तः क्षणेन एव सारथिः लघु विक्रमः । रथम् संयोजयामास तस्य अभिमतम् उत्तमम् ॥३-३५-५॥ कांचनम् रथम् आस्थाय कामगम् रत्न भूषितम् । पिशाच वदनैः युक्तम् खरैः कनक भूषणैः ॥३-३५-६॥ मेघ प्रतिम नादेन स तेन धनद अनुजः । राक्षसाधिपतिः श्रीमान् ययौ नद नदी पतिम् ॥३-३५-७॥ स श्वेत वाल व्यजनः श्वेतः छत्रो दशाननः । स्निग्ध वैदूर्य संकाश तप्त कान्चन भूषणः ॥३-३५-८॥ दशग्रीवो विम्शति भुजो दर्शनीय परिच्छदः । त्रिदश अरिः मुनीन्द्र घ्नो दश शीर्ष इव अद्रि राट् ॥३-३५-९॥ कामगम् रथम् आस्थाय शुशुभे राक्षसाधिपः । विद्युन् मण्डलवान् मेघः स बलाक इव अंबरे ॥३-३५-१०॥ स शैलम् सागर अनूपम् वीर्यवान् अवलोकयन् । नाना पुष्प फलैर् वृक्षैर् अनुकीर्णम् सहस्रशः ॥३-३५-११॥ शीत मंगल तोयाभिः पद्मिनीभिः समंततः । विशालैः आश्रम पदैः वेदिमद्भिः अलंकृतम् ॥३-३५-१२॥ कदल्य अटवि संशोभम् नालिकेर उपशोभितम् । सालैः तालैः तमालैः च तरुभिः च सुपुष्पितैः ॥३-३५-१३॥ अत्यन्त नियत आहारैः शोभितम् परम ऋषिभिः । नागैः सुपर्णैः गंधर्वैः किंनरैः च सहस्रशः ॥३-३५-१४॥ जित कामैः च सिद्धैः च चारणैः च उपशोभितम् । आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः ॥३-३५-१५॥ दिव्य आभरण माल्याभिः दिव्य रूपाभिः आवृतम् । क्रीडा रति विधिज्ञाभिः अप्सरोभिः सहस्रशः ॥३-३५-१६॥ सेवितम् देव पत्नीभिः श्रीमतीभिः उपासितम् । देव दानव सन्घैः च चरितम् तु अमृत अशिभिः ॥३-३५-१७॥ हंस क्रौन्च प्लव आकीर्णम् सारसैः संप्रणादितम् । वैदूर्य प्रस्तरम् स्निग्धम् सांद्रम् सागर तेजसा ॥३-३५-१८॥ पाण्डुराणि विशालानि दिव्य माल्य युतानि च । तूर्य गीत अभिजुष्टानि विमानानि समंततः ॥३-३५-१९॥ तपसा जित लोकानाम् कामगान् अभिसंपतन् । गन्धर्व अप्सरसः चैव ददर्श धनदानुजः ॥३-३५-२०॥ निर्यास रस मूलानाम् चंदनानाम् सहस्रशः । वनानि पश्यन् सौम्यानि घ्राण तृप्ति कराणि च ॥३-३५-२१॥ अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च । तक्कोलानाम् च जात्यानाम् फलानाम् च सुगन्धिनाम् ॥३-३५-२२॥ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥ शैलानि प्रवरान् चैव प्रवाल निचयान् तथा । कांचनानि च शृंगाणि राजतानि तथैव च ॥३-३५-२४॥ प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च । धन धान्य उपपन्नानि स्त्री रत्नैः आवृतानि च ॥३-३५-२५॥ हस्ति अश्व रथ गाढानि नगराणि विलोकयन् । तम् समम् सर्वतः स्निग्धम् मृदु संस्पर्श मारुतम् ॥३-३५-२६॥ अनूपे सिन्धु राजस्य ददर्श त्रिदिव उपमम् । तत्र अपश्यत् स मेघ आभम् न्यग्रोधम् मुनिभिर् वृतम् ॥३-३५-२७॥ समंतात् यस्य ताः शाखाः शत योजनम् आयताः । यस्य हस्तिनम् आदाय महा कायम् च कच्छपम् ॥३-३५-२८॥ भक्षार्थम् गरुडः शाखाम् आजगाम महाबलः । तस्य ताम् सहसा शाखाम् भारेण पतगोत्तमः ॥३-३५-२९॥ सुपर्णः पर्ण बहुलाम् बभंज अथ महाबलः । तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥ अजा बभूवुः धूम्राः च संगताः परमर्षयः । तेषाम् दयाअर्थम् गरुडः ताम् शाखाम् शत योजनाम् ॥३-३५-३१॥ भग्नम् आदाय वेगेन तौ च उभौ गज कच्छपौ । एक पादेन धर्म आत्मा भक्षयित्वा तत् आमिषम् ॥३-३५-३२॥ निषाद विषयम् हत्वा शाखया पतगोत्तमः । प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥ स तेन तु प्रहर्षेण द्विगुणी कृत विक्रमः । अमृत आनयनार्थम् वै चकार मतिमान् मतिम् ॥३-३५-३४॥ अयो जालानि निर्मथ्य भित्त्वा रत्न गृहम् वरम् । महेन्द्र भवनात् गुप्तम् आजहार अमृतम् ततः ॥३-३५-३५॥ तम् महर्षि गणैः जुष्टम् सुपर्ण कृत लक्षणम् । नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद अनुजः ॥३-३५-३६॥ तम् तु गत्वा परम् पारम् समुद्रस्य नदी पतेः । ददर्श आश्रमम् एकांते पुण्ये रम्ये वनांतरे ॥३-३५-३७॥ तत्र कृष्ण अजिन धरम् जटा वल्कल धारिणम् । ददर्श नियत आहारम् मारीचम् नाम राक्षसम् ॥३-३५-३८॥ स रावणः समागम्य विधिवत् तेन रक्षसा । मारीचेन अर्चितो राजा सर्व कामैः अमानुषैः ॥३-३५-३९॥ तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च । अर्थोपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३५-४०॥ कच्चित् ते कुशलम् राजन् लंकायाम् राक्षसेश्वर । केन अर्थेन् पुनः त्वम् वै तूर्णम् एव इह आगतः ॥३-३५-४१॥ एवम् उक्तो महातेजा मारीचेन स रावण । ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३५-४२॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥