रामायणम्/अरण्यकाण्डम्/सर्गः ६०
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५९ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६१ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥ भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् । प्रास्फुरत् च अस्खलत् रामो वेपथुः च अस्य जायते ॥३-६०-१॥ उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः । अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥ त्वरमाणो जगाम अथ सीता दर्शन लालसः । शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥ उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः । तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥ ददर्श पर्ण शालाम् च सीतया रहिताम् तदा । श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥ रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् । श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥ विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् । दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥ गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः । अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥ यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् । शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥ वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् । बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥ अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया । कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥ स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् । शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥ अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥ ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् । लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥ भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि । एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥ अशोक शोक अपनुद शोक उपहत चेतनम् । त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥ यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी । कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥ यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा । प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥ अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् । कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥ चूत नीप महा सालान् पनसान् कुरवान् धवान् । दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥ बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥ अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् । मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥ गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् । ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥ शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना । मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥ किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे । वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥ तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि । न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥ पीत कौशेयकेन असि सूचिता वर वर्णिनि । धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥ न एव सा नूनम् अथवा हिंसिता चारु हासिनी । कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥ व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः । विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥ नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् । पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥ सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता । कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥ नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ । भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥ मया विरहिता बाला रक्षसाम् भक्षणाय वै । सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥ हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् । हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥ इति एवम् विलपन् रामः परिधावन् वनात् वनम् । क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥ क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः । स वनानि नदीः शैलान् गिरि प्रस्रवणानि च । काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥ तदा स गत्वा विपुलम् महत् वनम् परीत्य सर्वम् तु अथ मैथिलीम् प्रति । अनिष्ठित आशः स चकार मार्गणे पुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र