रामायणम्/अरण्यकाण्डम्/सर्गः १३
< रामायणम् | अरण्यकाण्डम्
← सर्गः १२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः १४ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥''' राम प्रीतो अस्मि भद्रम् ते परितुष्टो अस्मि लक्ष्मण । अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया ॥३-१३-१॥ अध्व श्रमेण वाम् खेदो बाधते प्रचुर श्रमः । व्यक्तम् उत्कण्ठते वा अपि मैथिली जनक आत्मजा ॥३-१३-२॥ एषा च सुकुमारी च खेदैः च न विमानिता । प्राअज्य दोषम् वनम् प्रप्ता भर्तृ स्नेह प्रचोदिता ॥३-१३-३॥ यथा एषा रमते राम इह सीता तथा कुरु । दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती ॥३-१३-४॥ एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनंदन । समस्थम् अनुरंजंते विषमस्थम् त्यजन्ति च ॥३-१३-५॥ शत ह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा । गरुड अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥३-१३-६॥ इयम् तु भवतो भार्या दोषैर् एतैर् विवर्जिताः । श्लाघ्या च व्यपदेश्या च यथा देवी हि अरुन्धती ॥३-१३-७॥ अलंकृतो अयम् देशः च यत्र सौमित्रिणा सह । वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम ॥३-१३-८॥ एवम् उक्तः तु मुनिना राघवः संयत अंजलिः । उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम् ॥३-१३-९॥ धन्योस्मि अनुगृहीतोस्मि यस्य मे मुनि पुंगवः । गुणैः सभ्रातृ भार्यस्य गुरुः नः परितुष्यति ॥३-१३-१०॥ किन्तु व्यादिश मे देशम् स उदकम् बहु काननम् । यत्र आश्रम पदम् कृत्वा वसेयम् निरतः सुखम् ॥३-१३-११॥ ततो अब्रवीत् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् । ध्यात्वा मुहूर्तम् धर्मात्मा धीरो धीरतरम् वचः ॥३-१३-१२॥ इतो द्वि योजने तात बहु मूल फल उदकः । देशो बहु मृगः श्रीमान् पंचवटि अभिविश्रुतः ॥३-१३-१३॥ तत्र गत्वा आश्रम पदम् कृत्वा सौमित्रिणा सह । रमस्व त्वम् पितुर् वाक्यम् यथा उक्तम् अनुपालयन् ॥३-१३-१४॥ विदितो हि एष वृत्तांतो मम सर्वः तव अनघ । तपसः च प्रभावेण स्नेहाद् दशरथस्य च ॥३-१३-१५॥ हृदयस्थः च ते छन्दो विज्ञातः तपसा मया । इह वासम् प्रतिज्ञाय मया सह तपो वने ॥३-१३-१६॥ अतः च त्वाम् अहम् ब्रूमि गच्छ पंचवटीम् इति । स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥३-१३-१७॥ स देशः श्लाघनीयः च न अतिदूरे च राघव । गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥३-१३-१८॥ प्राज्य मूल फलैः चैव नाना द्विज गणैर् युतः । विविक्तः च महाबाहो पुण्यो रम्यः तथैव च ॥३-१३-१९॥ भवान् अपि सदाचारः च शक्तः च परिरक्षणे । अपि च अत्र वसन् राम तापसान् पालयिष्यसि ॥३-१३-२०॥ एतत् आलक्ष्यते वीर मधूकानाम् महत् वनम् । उत्तरेण अस्य गंतव्यम् न्यग्रोधम् अपि गच्छता ॥३-१३-२१॥ ततः स्थलम् उपारुह्य पर्वतस्य अविदूरतः । ख्यातः पंचवटी इति एव नित्य पुष्पित काननः ॥३-१३-२२॥ अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह । सत्कृत्य आमंत्रयामास तम् ऋषिम् सत्य वादिनम् ॥३-१३-२३॥ तौ तु तेन अभ्यनुज्ञातौ कृत पाद अभिवन्दनौ । तम् आश्रमम् पंचवटीम् जग्मतुः सह सीतया ॥३-१३-२४॥ गृहीत चापौ तु नराधिप आत्मजौ<br> विषक्त तूणी समरेषु अकातरौ । यथा उपदिष्टेन पथा महर्षिणा । प्रजग्मतुः पंचवटीम् समाहितौ ॥३-१३-२५॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र