रामायणम्/अरण्यकाण्डम्/सर्गः ५७
< रामायणम् | अरण्यकाण्डम्
← सर्गः ५६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५८ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥ राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् । निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत ॥३-५७-१॥ तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् । क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः ॥३-५७-२॥ स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् । चिंतयामास गोमायोः स्वरेण परिशन्कितः ॥३-५७-३॥ अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा । स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना ॥३-५७-४॥ मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् । विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि ॥३-५७-५॥ स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् । तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति ॥३-५७-६॥ राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः । कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम् ॥३-५७-७॥ दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः । हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह ॥३-५७-८॥ अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने । जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः ॥३-५७-९॥ निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च । इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम् ॥३-५७-१०॥ निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् । आत्मनः च अपनयनम् मृग रूपेण रक्षसा ॥३-५७-११॥ आजगाम जनस्थानम् राघवः परिशन्कितः । तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः ॥३-५७-१२॥ सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् । तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः । न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः ॥३-५७-१३॥ ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् । ततो अविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥ विषण्णः स विषण्णेन दुःखितो दुःख भागिना । संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम् ॥३-५७-१५॥ विहाय सीताम् विजने वने राक्षस सेविते । गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः ॥३-५७-१६॥ उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् । अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम् ॥३-५७-१७॥ सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति । न मे अस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥ विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः । अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे ॥३-५७-१९॥ अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे । जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै ॥३-५७-२०॥ यथा वै मृग संघाःअ गोमायुः च भैरवम् । वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् । अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल ॥३-५७-२१॥ इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् । हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव ॥३-५७-२२॥ मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् । असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा ॥३-५७-२३॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र