रामायणम्/अरण्यकाण्डम्/सर्गः ६२
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६३ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥ सीताम् अपश्यन् धर्मात्मा शोक उपहत चेतनः । विललाप महाबाहू रामः कमल लोचनः ॥३-६२-१॥ पश्यन् इव च ताम् सीताम् अपश्यन् मदन अर्दितः । उवाच राघवो वाक्यम् विलाप आश्रय दुर्वचम् ॥३-६२-२॥ त्वम् अशोकस्य शाखाभिः पुष्प प्रिय तराअ प्रिये । अवृणोषि शरीरम् ते मम शोक विवर्धिनी ॥३-६२-३॥ कदली काण्ड सदृशौ कदल्या संवृता उभौ । ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम् ॥३-६२-४॥ कर्णिकार वनम् भद्रे हसंती देवि सेवसे । अलम् ते परिहासेन मम बाधावहेन वै ॥३-६२-५॥ विशेषेण आश्रमस्थाने हासो अयम् न प्रशस्यते । अवगच्छामि ते शीलम् परिहास प्रियम् प्रिये ॥३-६२-६॥ आगच्छ त्वम् विशालाक्षी शून्यो अयम् उटजः तव । सु व्यक्तम् राक्षैः सीता भक्षिता वा हृता अपि वा ॥३-६२-७॥ न हि सा विलपंतम् माम् उपसम्प्रैति लक्ष्मण । एतानि मृग यूधानि स अश्रु नेत्राणि लक्ष्मण ॥३-६२-८॥ शंशन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः । हा मम आर्ये क्व याता असि हा साध्वि वर वर्णिनि ॥३-६२-९॥ हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति । सीताया सह निर्यातो विना सीताम् उपागतः ॥३-६२-१०॥ कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तः पुरम् मम । निर्वीर्य इति लोको माम् निर्दयः च इति वक्ष्यति ॥३-६२-११॥ कातरत्वम् प्रकाशम् हि सीता अपनयनेन मे । निवृत्त वन वासः च जनकम् मिथिल अधिपम् ॥३-६२-१२॥ कुशलम् परिपृच्छन्तम् कथम् शक्षे निरीक्षितुम् । विदेह रजो नूनम् माम् दृष्ट्वा विरहितम् तया ॥३-६२-१३॥ सुता विनाश संतप्तो मोहस्य वशम् एष्यति । अथवा न गमिष्यामि पुरीम् भरत पालितम् ॥३-६२-१४॥ स्वर्गो अपि हि तया हीनः शून्य एव मतो मम । तत् माम् उत्सृज्य हि वने गच्छ अयोध्या पुरीम् शुभाम् ॥३-६२-१५॥ न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन । गाढम् आश्लिष्य भरतो वाच्यो मत् वचनात् त्वया ॥३-६२-१६॥ अनुज्ञातो असि रामेण पालय इति वसुंधराम् । अंबा च मम कैकेयी सुमित्रा च त्वया विभो ॥३-६२-१७॥ कौसल्या च यथा न्यायम् अभिवाद्या मम अज्ञया । रक्षणीया प्रयत्नेन भवता सा उक्त कारिणा ॥३-६२-१८॥ सीतायाः च विनाशो अयम् मम च अमित्र सूदन । विस्तरेण जनन्या विनिवेद्य त्वया भवेत् ॥३-६२-१९॥ इति विलपति राघवो तु दीनो वनम् उपगम्य तया विना सु केश्या । भय विकल मुखः तु लक्ष्मणो अपि व्यथित मना भृशम् आतुरो बभूव ॥३-६२-२०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र