रामायणम्/अरण्यकाण्डम्/सर्गः ६५
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६४ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६६ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥ तप्यमानम् तथा रामम् सीता हरण कर्शितम् । लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥ वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः । दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥ अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः । अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥ पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः । न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥ चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा । एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥ एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि । न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥ केन वा कस्य वा हेतोः स आयुधः स परिच्छदः । खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥ देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज । एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥ न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् । न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥ युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः । सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥ को नु दार प्रणाशम् ते साधु मन्येत राघव । सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥ न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः । येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥ मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः । समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥ गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा । देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥ यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः । कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥ शीलेन साम्ना विनयेन सीताम् नयेन न प्राप्स्यसि चेत् नरेन्द्र । ततः समुत्सादय हेम पुंखैः महेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र