रामायणम्/अरण्यकाण्डम्/सर्गः २७
< रामायणम् | अरण्यकाण्डम्
← सर्गः २६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २८ → |
खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः । राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥ माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् । पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥ प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे । यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥ अहम् वा अस्य रणे मृत्युः एष वा समरे मम । विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥ प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि । मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥ खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः । गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥ त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता । अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥ शर धारा समूहान् स महामेघ इव उत्सृजन् । व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥ आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥ स संप्रहारः तुमुलो राम त्रिशिरसोः तदा । संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०॥ ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः । अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥ अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् । पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥ मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् । एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥ त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश । चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥ न्यपातयत तेजस्वी चतुरः तस्य वाजिनः । अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥ रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् । ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥ चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः । सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥ शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः । स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥ न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः । हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥ द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् । रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र