रामायणम्/अरण्यकाण्डम्/सर्गः ६९
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६८ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७० → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥ कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा । अवेक्षन्तौ वने सीताम् जग्मतुः पश्चिमाम् दिशम् ॥३-६९-१॥ ताम् दिशम् दक्षिणाम् गत्वा शर चाप असि धारिणौ । अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः ॥३-६९-२॥ गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् । आवृतम् सर्वतो दुर्गम् गहनम् घोर दर्शनम् ॥३-६९-३॥ व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् । सु भीमम् तन् महाअरण्यम् व्यतियातौ महाबलौ ॥३-६९-४॥ ततः परम् जनस्थानात् त्रि क्रोशम् गम्य राघवौ । क्रौंच अरण्यम् विविशतुः गहनम् तौ महौजसौ ॥३-६९-५॥ नाना मेघ घन प्रख्यम् प्रहृष्टम् इव सर्वतः । नाना वर्णैः शुभैः पुष्पैः मृग पक्षि गणैः युतम् ॥३-६९-६॥ दिदृक्षमाणौ वैदेहीम् तत् वनम् तौ विचिक्यतुः । तत्र तत्र अवतिष्ठन्तौ सीता हरण दुःखितौ ॥३-६९-७॥ ततः पूर्वेण तौ गत्वा त्रि क्रोसम् भ्रातरु तदा । क्रौंचारण्यम् अतिक्रम्य मातंग आश्रम अंतरा ॥३-६९-८॥ दृष्टा तु तद् वनम् घोरम् बहु भीम मृग द्विजम् । नाना वृक्ष समाकीर्णम् सर्वम् गहन पादपम् ॥३-६९-९॥ ददृशाः ते गिरौ तत्र दरीम् डशरथ आत्मजौ । पाताल सम गम्भीराम् तमसा नित्य संवृताम् ॥३-६९-१०॥ आसाद्य च नरव्याघ्रौ दर्याः तस्या अविदूरतः । ददर्श तु महारूपाम् रक्षसीम् विकृत आननाम् ॥३-६९-११॥ भयदाम् अल्प सत्त्वानाम् भीभत्साम् रौद्र दर्शनाम् । लंबोदरीम् तीक्ष्ण दंष्ट्राम् करालीम् परुष त्वचम् ॥३-६९-१२॥ भक्षयन्तीम् मृगान् भीमान् विकटाम् मुक्त मूर्धजाम् । अवैक्षताम् तु तौ तत्र भ्रातरौ राम लक्ष्मणौ ॥३-६९-१३॥ सा समासाद्य तौ वीरौ व्रजन्तम् भ्रातुः अग्रतः । एहि रंस्यावहे इति उक्त्वा समालंबत लक्ष्मणम् ॥३-६९-१४॥ उवाच च एनम् वचनम् सौमित्रिम् उपगुह्य सा । अहम् तु अयोमुखी नाम लाभः ते त्वम् असि प्रियः ॥३-६९-१५॥ नाथ पर्वत दुर्गेषु नदीनाम् पुलिनेषु च । आयुः चिरम् इदम् वीर त्वम् मया सह रंस्यसे ॥३-६९-१६॥ एवम् उक्तः तु कुपितः खडगम् उद्धृत्य लक्ष्मणः । कर्ण नास स्तनम् तस्या निचकर्ता अरिसूदनः ॥३-६९-१७॥ कर्ण नासे निकृत्ते तु विस्वरम् विननाद सा । यथा आगतम् प्रदुद्राव राक्षसी घोर दर्शना ॥३-६९-१८॥ तस्याम् गतायाम् गहनम् व्रजन्तौ वनम् ओजसा । आसेदतुः अरि मित्र घ्नौ भ्रातरौ राम लक्ष्मणौ ॥३-६९-१९॥ लक्ष्मणः तु महातेजाः सत्त्ववान् शीलवान् शुचिः । अब्रवीत् प्रांजलिः वाक्यम् भ्रातरम् दीप्त तेजसम् ॥३-६९-२०॥ स्पंदन्ते मे दृढम् बाहुः उद्विग्नम् इव मे मनः । प्रायशः च अपि अनिष्टानि निमित्तानि उपलक्षये ॥३-६९-२१॥ तस्मात् सज्जी भव आर्य त्वम् कुरुष्व वचनम् हितम् । मम एव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥३-६९-२२॥ एष वंजुलको नाम पक्षी परम दारुणः । आवयोः विजयम् युद्धे शंसन् इव विनर्दति ॥३-६९-२३॥ तयोः अन्वेषतोः एवम् सर्वम् तत् वनम् ओजसा । संजज्ञे विपुलः शब्दः प्रभंजन् इव तत् वनम् ॥३-६९-२४॥ संवेष्टितम् इव अत्यर्थम् गहनम् मातरिश्वना । वनस्य तस्य शब्दो अभूत् दिवम् आपूरयन् इव ॥३-६९-२५॥ तम् शब्दम् कांक्षमाणः तु रामः खड्गी सह अनुजः । ददर्श सु महा कायम् राक्षसम् विपुल उरसम् ॥३-६९-२६॥ आसेदतुः च तत् रक्षः तौ उभौ प्रमुखे स्थितम् । विवृद्धम् अ-शिरो ग्रीवम् कबंधम् उदरे मुखम् ॥३-६९-२७॥ रोमभिर्निश्चितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् - यद्वा - रोमभिः निचितैः तीक्ष्णैः महागिरिम् इव उच्छ्रितम् । नील मेघ निभम् रौद्रम् मेघ स्तनित निःस्वनम् ॥३-६९-२८॥ अग्नि ज्वाल निकाशेन ललाटस्थेन दीप्यता । महापक्षेण पिंगेन विपुलेन आयतेन च ॥३-६९-२९॥ एकेन उरसि घोरेण नयनेन आशु दर्शिना । महा दंष्ट्र उपपन्नम् तम् लेलिहानम् महा मुखम् ॥३-६९-३०॥ भक्षयंतम् महा घोरान् ऋक्ष सिम्ह मृग द्विपान् । घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ ॥३-६९-३१॥ कराभ्याम् विविधान् गृह्य ऋक्षान् पक्षि गणान् मृगान् । आकर्षन्तम् विकर्षन्तम् अनेकान् मृग यूथपान् ॥३-६९-३२॥ स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः । अथ तम् समतिक्रम्य क्रोश मात्रम् ददर्शतुः ॥३-६९-३३॥ महान्तम् दारुणम् भीमम् कबंधम् भुज संवृतम् । कबंधम् इव संस्थानत् अति घोर प्रदशनम् ॥३-६९-३४॥ स महा बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ । जग्राह सहितौ एव राघवौ पीडयन् बलात् ॥३-६९-३५॥ खड्गिनौ दृढ धन्वानौ तिग्म तेजौ महा भुजौ । भ्रातरौ विवशम् प्राप्तौ कृष्यमाणौ महा बलौ ॥३-६९-३६॥ तत्र धैर्यात् च शूराः तु राघवो न एव विव्यधे । बाल्यात् अनाश्रयत्वात् च एव लक्ष्मणः तु अतिविव्यधे ॥३-६९-३७॥ उवाच च विषण्णम् सन् राघवम् राघव अनुजः । पश्य माम् विवशम् वीर राक्षसस्य वशम् गतम् ॥३-६९-३८॥ मया एकन तु निर्युक्तः परिमुच्यस्व राघव । माम् हि भूत बलिम् दत्त्वा पलास्व यथा सुखम् ॥३-६९-३९॥ अधिगंता असि वैदेहीम् अचिरेण इति मे मतिः । प्रति लभ्य च काकुत्स्थ पितॄ पैतामहम् महीम् ॥३-६९-४०॥ तत्र माम् राम राज्यस्थः स्मर्तुम् अर्हसि सर्वदा । लक्ष्मणेन एवम् उक्तः तु रामः सौमित्रिम् अब्रवीत् ॥३-६९-४१॥ मा स्म त्रासम् वृथा वीर न हि त्वा दृक् विषीदति । एतस्मिन् अन्तरे क्रूरो भ्रातरौ राम लक्ष्मणौ ॥३-६९-४२॥ तौ उवाच महाबाहुः कबन्धो दानव उत्तमः । कौ युवाम् वृषभ स्कन्धौ महा खड्ग धनुर् धरौ ॥३-६९-४३॥ घोरम् देशम् इमम् प्राप्तौ दैवेन मम चाक्षुषौ । वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम् ॥३-६९-४४॥ इमम् देशम् अनुप्राप्तौ क्षुधा आर्तस्य इह तिष्ठतः । स बाण चाप खड्गौ च तीक्ष्ण शृंगौ इव ऋषभौ ॥३-६९-४५॥ मम तूर्णम् उपसंप्राप्तौ दुर्लभम् जीवितम् वाम् । तस्य तत् वचनम् श्रुत्वा कबंधस्य दुरात्मनः ॥३-६९-४६॥ उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता । कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य विक्रम ॥३-६९-४७॥ व्यसनम् जीवित अन्ताय प्राप्तम् अप्राप्य ताम् प्रियाम् । कालस्य सुमहत् वीर्यम् सर्व भूतेषु लक्ष्मण ॥३-६९-४८॥ त्वाम् च माम् च नरव्याघ्र व्यसनैः पश्य मोहितौ । न हि भारो अस्ति दैवस्य सर्व भुतेषु लक्ष्मण ॥३-६९-४९॥ शूराः च बलवंतः च कृत अस्त्राः च रण आजिरे । काल अभिपन्नाः सीदन्ति यथा वालुक सेतवः ॥३-६९-५०॥ इति ब्रुवाणो दृढ सत्य विक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिम् उदग्र विक्रमम् स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत् ॥३-६९-५१॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र