रामायणम्/अरण्यकाण्डम्/सर्गः ८
< रामायणम् | अरण्यकाण्डम्
← सर्गः ७ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ९ → |
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टमः सर्गः ॥३-८॥
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टमः सर्गः ॥३-८॥''' रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः । परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥३-८-१॥ उत्थाय च यथा कालम् राघवः सह सीतया । उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥३-८-२॥ अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ । काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३-८-३॥ उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः । सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥३-८-४॥ सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥३-८-५॥ त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् । ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥३-८-६॥ अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः । धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥३-८-७॥ अविषह्य आतपो यावत् सूर्यो न अति विराजते । अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥३-८-८॥ तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः । ववन्दे सह सौमित्रिः सीतया सह राघवः ॥३-८-९॥ तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः । गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥३-८-१०॥ अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह । सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥३-८-११॥ पश्य आश्रम पदम् रम्यम् दण्डकारण्य वासिनाम् । एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥३-८-१२॥ सुप्राज्य फल मूलानि पुष्पितानि वनानि च । प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥३-८-१३॥ फुल्ल पंकज खण्डानि प्रसन्न सलिलानि च । कारण्डव विकीर्णानि तटाकानि सरांसि च ॥३-८-१४॥ द्रक्ष्यसे दृष्टि रम्याणि गिरि प्रस्रवणानि च । रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥३-८-१५॥ गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु । आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥३-८-१६॥ एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः । प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥३-८-१७॥ ततः शुभतरे तूणी धनुषी च आयतेक्षणा । ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥३-८-१८॥ आबध्य च शुभे तूणी चापे च आदाय सस्वने । निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥३-८-१९॥ शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा । प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥३-८-२०॥
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र